________________
१२१
अध्ययनं ३, [ नि. १४४ ]
--
अङ्गस्य निक्षेपश्चतुर्विधो भवतीति गाथासमासार्थः ॥ अत्र च नामस्थापने प्रसिद्धत्वादनादृत्य द्रव्याङ्गमभिधिसुराहनि. [ १४५ ]
गंधंगमीसहंगं मज्जाउज्जंसरीरजुद्धंगं । एत्तो इक्किक्कपि य नेगविहं होइ नायव्वं ॥
वृ.‘गन्धाङ्गम्’ औपधाङ्गम्, 'मज्जाउज्जसररीजुद्धगं' ति बिन्दोरलाक्षणिकत्वादङ्गशब्दस्य च प्रत्येकभिसम्बन्धात् मद्याङ्गमातोद्याङ्गं शरीराङ्गं युद्धाङ्गमिति षड्विधं द्रव्याङ्गम्, 'एत्तो 'ति सुब्व्यत्ययादेषु - गन्धाङ्गादिषु मध्ये एकैकमपि च अनेकविधं भवति ज्ञातव्यमिति गाथाक्षरार्थः ॥ भावार्थं तु विवक्षुराचार्यो 'यथोद्देशं निर्देश' इति न्यायमाश्रित्य गन्धाङ्गं प्रतिपादयत्राहनि. [ १४६ ] जमदग्गजडा हरेणुअ सबरनियंसणियं सपिण्णियं । रुक्खस्स य बाहितया मल्लियवासिय कोडी अग्घइ ॥
'वृ. तत्र 'जमदग्निजटा'वालकः 'हरेणुका' प्रियंगुः 'शबरनिवसनकं' तमालपत्रं, 'सपिन्नियं'ति पनि पित्रिका ध्यामकाख्यं गन्धद्रव्यं तया सह सपिन्निकं, वृक्ष्यस्य च बाह्या त्वक् चातुर्जातकाङ्गं प्रतीर्तव 'मल्लियवासिय'ति मल्लिका जातिस्तद्वासितमनन्तरोक्तद्रव्यजातं, चूर्णीकृतमिति गम्यते, कोटिम् अर्हति, कोटिमूल्यार्हं भवति, महार्घतोपलक्षणं चैतत् ॥ ओसीरहरिबेराणं पलं पलं भद्ददारुणो करिसो ।
नि. [ १४७ ]
पुफाणं भागो भागो य तमालपत्तस्स ||
वृ. तथा 'ओसीरं' प्रसिद्धं, 'हीवेरो' वालकः, पलं पलमनयो:, तथा 'भद्रदारो:' देवदारोः कर्प:, ‘सयपुप्फाणं'ति वचनव्यत्ययात् शतपुष्पाया भागो, भागश्च तमालपत्रस्य, भाग इह पलिकामात्रम् ॥
नि. [१४८ ]
एयं न्हायं एवं विलेवनं एस चेव पडवासो । वासवदत्ताइ कओ उदयनमभिधारयंतीए ॥
वृ. अस्य माहात्म्यमाह - एतत् स्नानमेतद्विलेपनमेष चैव पटवासः 'वासवदत्तया ' चण्डप्रद्योत दुहित्रा' कृतो' विहितः 'उदयनं' वीणावत्सराजम् 'अभिधारयन्त्या' चेतसि वहन्त्या, अनेन परचित्ताक्षेपकत्वमस्य माहात्म्यमुक्तमिति सूत्रार्थः ॥ औषधाङ्गमाहदुत्रिय रयणी माहिंदफलं च तिनि य समूसणंगाई ।
नि. [ १४९ ]
नि. [ १५० ]
सरसं च कणयमूलं एसा उदगट्टमा गुलिआ || एसा उ हरइ कंडुं तिमिरं अवहेडयं सिरोरागं । तेइज्जगचाउत्थिग मूसगसप्पावरद्धं च ॥
वृ. 'द्वे रजन्यौ' पिण्डदारुहरिद्रे माहेन्द्रफलं च' इन्द्रयेवाः, त्रीणि च समूषणं- त्रिकटुकं तस्याङ्गानिसुण्ठीपिप्लोमरिचद्रव्याणि 'सरसं च' आर्द्र 'कनकमूलं' बिल्वमूलमेषा 'उद'काष्टमे 'त्युदकमष्टमं यस्यां सा तथा, 'गुटिका' वटिका, अस्याः फलमाह - एषा तु हन्ति कण्डुं तिमिरम् 'अवहेडयन्ति अर्द्धशिरोरोगं समस्तशिरोव्यथं, 'तेइज्जगचाउत्थिग 'त्ति सुब्लोपे तात्तीयीकचातुर्थिकौ, रूढ्य ज्वरौ, 'मूषकसपपराद्धम्' उन्दरादिदष्टं, चः समुच्चय इति गाथाद्वयार्थः ॥ मद्याङ्गमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org