________________
१२०
-
-
उत्तराध्ययन-मूलसूत्रम्-१-३/९६
अध्ययनं-३ -चातुरंगियंवृ. नमः श्रुतदेवतायै ।। उक्तं परिषहाध्ययनं, सम्प्रति चतुरङ्गीयमारभ्यते, अस्य चायभिसम्बन्धः-इहानन्तराध्ययने परीषहसहनमुक्तं, तच्च किमालम्बनमुररीकृत्य कर्तव्यमिति प्रश्नसम्भवे मानुपत्वादिचतुरङ्गदुर्लभत्वं तदालम्बनमनेनोच्यते इत्यनेन सम्बन्धेनायातमिदमध्ययनम्, अस्य चत्वार्यनुयोगद्वाराणि व्यावर्णनीयानि तावद्यावन्नामनिष्पन्नो निक्षेपः, तत्र च चतुरङ्गीयमिति द्विपदं नाम, अतश्चत्वारो निक्षेप्तव्याः अङ्गं च, न चैकं विना चत्वार इत्येक एव तावन्निक्षेपमहतीति मन्वान आह नियुक्तिकृत्नि.[१४२] नामंठवणादविए माउयपय संगहिक्कए चेव।
पज्जव भावे य तहा सत्तेए इक्कगा हुंति ॥ वृ.इहैककशब्दस्यैकत्र निर्दिष्टस्यापि प्रक्रान्तत्वेन सर्वत्र सम्बन्धात्, नामैकक: स्थापनैककोद्रव्यैककः, उयपय'त्ति सुषो लोपान्मातृकापदैकक: संग्रहैककः 'चः' समुच्चये, एवेति पूरणे, पज्जव'त्ति प्राग्वत् पर्यवैकक: भावे' भावैककः, 'च: पूर्ववत्, तथेति शेषानामपि निरुपचरितवृत्तितया तुल्यत्वाद, उपसंहर्तुमाह- सौते' अनन्तरोक्ता एकका भवन्ति, एतद्व्याख्या च दशवैकालिकनियुक्तिावेव नियुक्तिकृता कृतेत्यत्रोदासितं, स्थानाशून्यार्थं तु तदुक्तमेव किञ्चिदुच्यते-तत नामैकको यस्यैकक इति नाम, स्थापनैककः पुस्तकादिन्यस्त एककाङ्कः, द्रव्यैकक: सचित्तादिस्त्रिधा-तत्र सचित्त एककः पुरुषादिरर्थः, अचित्तः फलकादिः, मिश्रो वस्त्रादिविभूपितः पुरुषादिरेव, मातृकापदैककः 'उप्पन्ने इ वा विगमे इ वा धुवे इ वा' इति, एपां मातृकावत्सकलवांमयमूलतयाऽवस्थितानामन्यतरद्विशक्षितम्, अकाराद्यक्षरात्मिकाया वा मातृकाया एकतरोऽकारादि, संग्रहैकक: येनैकनापि ध्वनिना बहवः संगान्ते, यथा जातिप्राधान्ये व्रीहिरिति, पर्यायैकेक; शिवकादिरेकक: पर्यायो, भावैककः औदयिकादिभावानामन्यतमो भाव इति गाथार्थः ।। इत्थमविनाभाविताऽऽक्षिप्तमेककं निक्षिप्य प्रस्तुतमेव चतुष्कं निक्षेप्तुमाहनि.[१४३] नाम ठवणा दविए खित्ते काले य गणन भावे य।
निक्खेवो य चउण्हं गणनसंखाइ अहिगारो।। वृ.तत्र नामस्थापने क्षुण्णे 'द्रव्ये' विचार्ये सचित्ताचित्तमिश्राणि द्रव्याणि चतुःसङ्घयताया विवक्षितानि, 'क्षेत्रे' चतुःसङ्ख्यापरिच्छिन्ना आकाशप्रदेशमा यत्र वा चत्वारो विचार्यन्ते, 'काले च' चत्वार: समयावलिकादयः कालभेदाः यदा वा अमी व्याख्यायन्ते, गणनायां चत्वार एको द्वौ त्रयश्चत्वार इत्यादिगणनान्त:पातिनो, भावे च चत्वारो मानुषत्वादयोऽभिधास्यमाना भावाः, एषां मध्ये केनाधिकार:?, उच्यते, गणनासङ्ख्ययाऽधिकारः, किमुक्तं भवति?--गणनाचतुर्भिरधिकारः, तैरेव वक्ष्यमाणानामङ्गानां गण्यमानतया तेषामेवोपयोगित्वादिति गाथार्थः ।। नि.[१४४] नामंगं ठवणंगं दव्वंगं चेव होइ भावंगं ।
एसो खलु मगस्सा निक्खेवो चउब्विहो होइ ।। वृ. नामाङ्गं स्थापनाङ्गद्रव्याङ्गं चैव भवति भावाङ्गम्, एतत् खलु अङ्गस्सा' इति प्राकृतत्वात्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org