________________
अध्ययनं -१, [ नि. ९]
९
त्याह इति कर्मसाधनत्वेन वा, ज्ञानादिप्रशस्त भावाय हेतुत्वाच्चाध्ययनमपि भावाय: । 'तत्त्वभेदपर्यायैर्व्याख्ये 'त्ति पर्यायकथनमपि व्याख्याङ्गमिति पर्यायानाह- आय इत्यागम इति च लाभ इति च भवन्त्येकाथिकाः, शब्दा इति गम्यते, 'इति' प्रत्येकं पर्यायस्वरूपनिर्देशार्थ:, 'च: ' समुच्चय इति गाथार्थः ॥ नामस्थापनाक्षपणे प्रसिद्धे इति द्रव्यक्षपणामाह
नि. [१०]
पल्लत्थिया अपत्था तत्तो उप्पिट्टणा अपत्थयरी | निप्पीलणा अपत्था तिन्नि अपत्थाइ पुत्तीए ।।
वृ. 'पर्यस्तिका' प्रसिद्धा 'अपथ्या' अहिता, 'ततः' इति पर्यस्तिकात उत्प्राबल्येन पिट्टना उत्पट्टन उत्पिट्टनकादिना कुट्टनोत्पिट्टना अपथ्यतरा, 'निष्पीडना' अत्यन्तमावलनात्मिका 'अपथ्या' इति प्रस्तावादपथ्यतमा, सर्वत्र वस्त्रस्येति गम्यते, निगमयितुमाह- त्रीण्यपथ्यानि 'पोत्तीए' त्तिवस्त्रस्य, इह चाल्याल्पतराल्पतमकालत आभिर्वस्त्रद्रव्यं क्षप्यत इति पर्यस्तिकादीनामपथ्यापथ्यतरापथ्यतमत्वं द्रव्यक्षपणत्वं चोक्तम्, अपथ्यानीति च निगमनं सामान्यस्याशेषविशेषसङ्ग्रहकत्त्वाददुष्टमिति गाथार्थः ॥ भावक्षपणामाह
नि. [ ११ ]
अदुविहं कम्मरयं पोराणं जं खवेइ जोगेहिं ।
एयं भावज्झयणं नेयव्वं आनुपुब्बीए ॥
वृ. 'अष्टविधम्' अष्टप्रकारं, क्रियत इति कर्म्म-ज्ञानावरणादि, रज इव रजो जीवशुद्धस्वरूपान्यथात्वकरणेन, इह चोपमावाचकशब्दमन्तरेणापि परार्थप्रयुक्तत्वात् अग्निर्माणवक इतिवदुपमानार्थोऽवगन्तव्यः, कर्मरज इति समस्तं वा पदं, 'पुराणम्' अनेकभवोपात्तत्वेन चिरन्तनं 'यत्' यस्मात् क्षपयति जन्तुः 'योगैः ' भावाध्ययन चिन्तनादिशुभव्यापारैः, तस्मादिदमेव भावरूपत्वात् क्षपणाहेतुत्वाद्भावक्षपणेत्युच्यते इति प्रक्रमः । प्रकृतमुपसंहर्तुमाह'एतद्' इत्युक्तपर्यायाभिधेयं भावाध्ययनं 'नेतव्यं' प्रापयितव्यम्' अनुपूर्व्या' शिष्यप्रशिष्यपरम्परात्मिकायां यद्वा- 'नेतव्यं' संवेदनयविषयतां प्रापणीयमानुपूर्व्या क्रमेणेति गाथार्थ ॥ तदित्थमुत्तराध्ययनानीति व्याख्यातम्, अधुना श्रुतस्कन्धयोर्निक्षेपं प्रत्यध्ययनं नामान्यर्थाधिकाश्च वक्तुमवसर इति तदभिधानाय प्रतिज्ञामाह
नि. [१२]
सुखं निखेवं नामाइ चउव्विहं परूवेरं । नामाणि य अहिगारे अज्झयणाणं पवक्खामि ॥
वृ. श्रुतं च स्कन्धश्चेति समाहारद्वन्द्वस्तस्मिन् निक्षेपं नामादयश्चत्वारो विधा:- प्रकारा यस्य स तथा तं 'प्ररूप्य' प्रज्ञाप्य नामान्यधिकारांश्चाध्ययनानां प्रवक्ष्यामि इति गाथार्थः । इह च श्रुतस्कन्धनिक्षेपस्यान्यत्र सुप्रपञ्चितत्वात् प्रस्तावज्ञापनायैव श्रुतस्कन्धे निक्षेपं प्ररूप्येति निर्युक्तिकृतोक्तं, न तु प्ररूपयिप्यत इति । स्थानाशून्यार्थं किञ्चिदुच्यते तत्र श्रुतं नामस्थापनापनात्मकं क्षुन्नं, द्रव्यश्रुतं तु द्विविधम्-आगमनोआगमभेदात्, तत्र यस्य श्रुतमिति पदं शिक्षितादिगुणान्वितं ज्ञातं न च तत्रोपयोगः तस्य आगमतो द्रव्यश्रुतम्, 'अनुपयोगो द्रव्य' मिति वचनात्, नोआगमतस्तु श्रुतपदार्थज्ञशरीरं भूतभविष्यत्पर्यायं, तद्वयतिरिक्तं च पुस्तकादिन्यस्तम् अभिधीयमानं वा, भावश्रुतहेतुतया द्रव्यश्रुतं, तथा चाह-
"भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org