________________
उत्तराध्ययन- मूलसूत्रम् - १-१/१ अज्झप्पस्साणयणं कम्माणं अवचओ उवचियाणं । अनुवचओ व नवाणं तम्हा अज्झयणमिच्छंति ॥
वृ. 'अज्झप्पस्स'त्ति सूत्रत्वादध्यात्ममात्मनि, कोऽर्थः ? - स्वस्वभावे, आनीयतेऽनेनेति आनयनं प्रस्तावादात्मनोऽध्ययनं, निरुक्तिविधिना चात्माकारनकारलोपः, कुत एतदित्याहयतः 'कर्मणां ' ज्ञानावरणीयादी नाम् 'अपचयः चयापगमोऽभाव इत्यर्थः, 'उपचितानां' प्राग्बद्धानाम् ‘अनुपचयश्च' अनुपचीयमानताऽनुपादानमितियावत्, 'नवानां' प्रत्यग्राणां, कोऽर्थः ? - प्राग्बद्धानाम्, एतदुपयुक्तस्येति गम्यते, उपसंहारमाह- तस्मात् प्राग्बद्धबध्यमानकर्माभावेनाऽऽत्मनः स्वस्वभावानयनाद्धेतोः अध्ययनम् 'इच्छन्ति' अभ्युपगच्छन्ति, पूर्वसूरय इति गम्यते यद्वाऽध्यात्ममिति रूढितो मनः, तच्च प्रस्तावात् शूभं, तस्याऽऽनयनमध्ययनम्, आनीयते ह्यनेन शुभं चेतः, अस्मिन् उपयुक्तस्य वैराग्यभावात्, शेषं प्राग्वत्, नवरं वैराग्यभावात् कर्मणामिति क्लिष्टानामिति गाथार्थः ॥ निरुक्त्यन्तरेणैतदेव व्याख्यातुमाह
"
नि. [७]
अहिगम्मति व अत्था अनेन अहियं व नयनमिच्छंति ।
८
नि. [६]
अहियं व साहु गच्छइ तम्हा अज्झयणमिच्छति ॥
वृ. 'अधिगम्यन्ते वा' परिच्छिद्यन्ते वा 'अर्था' जीवादयः अनेनाधिकं वा नयनं प्रापणमर्थादात्मनि ज्ञानादीनामनेन इच्छन्ति, विद्वासं इति शेष: 'अधिकम्' अर्गलं शीघ्रतरमितियावत्, 'वा' सर्वत्र विकल्पार्थः, ‘साधु 'त्ति साधयति पौरुषेयीभिर्विशिष्टक्रियाभिरपवर्गमिति साधुः 'गच्छति' यात्यर्थान्मुक्तिम्, अनेनेत्यत्रापि योज्यते, यस्मादेवमेवं च ततः किमित्याह-तस्मादध्ययनमिच्छन्ति, निरुक्तविधिनाऽर्थनिर्देशपरत्वाद्वाऽस्य, अयतेरेतेर्वाऽधिपूर्वस्याध्ययनम्, इच्छन्तीति चाभिधानं सर्वत्र सूत्रार्थाबाधया व्याख्याविकल्पानां पूर्वाचार्यसम्मतत्वेनादुष्ट-त्वख्यापनार्थमिति गाथार्थः ॥ नामाक्षीणादित्रयं प्रतीतमेवेति दृष्टान्तद्वारेण भावाक्षीणमाहजह दीवा दीवसयं पईप्पए सो य दीप्पए दीवो।
नि. [८]
दीवसमा आयरिया अप्पं च परं च दीवंति ।।
वृ. यथा दीपाद्दीपशतं 'प्रदीप्यते' ज्वलति सोऽपि च दीप्यते दीपो, न पुनरन्यान्यदीपोत्पतावपि क्षीयते, तथा किमित्याह-दीपसमा आचार्या 'दीप्यन्ते' समस्तशास्त्रार्थविनिश्चयेन स्वयं प्रकाशन्ते 'परंच' शिष्यं 'दीपयन्ति' शास्त्रार्थप्रकाशनशक्तियुक्तं कुर्वन्ति, इह च 'तात्स्थ्यात् तद्व्यपदेश' इत्याचार्यशब्देन श्रुतज्ञानमेवोक्तं, भावाक्षीणस्य प्रस्तुतत्वात्तस्यैव चाक्षयत्वसम्भवादिति गाथार्थ ॥ नामाऽऽयादयस्त्रयः सुज्ञाना इति भावायं व्याचष्टे
नि. [९]
भावे पत्थमियरो नाणाई कोहमाइओ कमसो ।
आउत्ति आगमुत्ति य लाभुत्ति य हुंति एगट्ठा ।।
वृ. 'भावे' विचार्ये इति शेषः, प्रशस्तः मुक्तिपदप्रापकत्वेन 'इतर: ' अप्रशस्तो भवनिबन्धनत्वेन, प्रक्रमादायः, किंरूपः पुनरयं द्विविधोऽपीत्याह- 'ज्ञानादि: ' आदिशब्दाद्दर्शनादिपरिग्रहः, 'को हमाइओ' त्ति मकारस्यालाक्षणिकत्वात् क्रोधादिकः, आदिशब्दान्मानादिपरिग्रहः, 'कमसो'त्ति आर्षत्वात् क्रमतः, किमुक्तं भवति ? - प्रशस्तो ज्ञानादिः, अप्रशस्तः क्रोधादिः । इह च ज्ञानादेः क्रोधादेश्च आयत्वमार्याविषयत्वाद्विषयविषयिनोरभेदोपचारेण आयते तमि-,
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International
--
-