SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ ११४ उत्तराध्ययन-मूलसूत्रम्-१-२/९३ एवेति सन्नस्तु, उक्तं हि "अस्त्येव चात्मा प्रत्यक्षो, जीवो ह्यात्मानमात्माना। अहमस्मीति संवेत्ति, रूपादीनि यथेन्द्रियैः।।" इति, किंबहुना?, यथा चैतन्यमस्तीत्यभ्युपगम्यते तथाऽऽत्माप्यभ्युपगन्तव्यः, तथा चाह "ज्ञानं स्वस्थं परस्थं वा, यथा ज्ञानेन गृह्यते। ज्ञाता स्वस्थः परस्थो वा, तथा ज्ञानेन गृह्यताम् ।।" इति, अथ सर्वसम्बन्ध्यनुपलम्भ आत्माभावे हेतुः, अयमप्यसिद्धः, अहमस्मीति प्रत्ययेन प्रतिप्राणि स्वात्मन: केवलिनां च सर्वात्मनामुपलम्भस्य प्रतिषेद्धुमशक्यत्वात्, । एवमृद्धीनामप्यभावे सर्वसम्बन्ध्यनुपलम्भोऽसिद्धः स्वसम्बन्धी तु नियतदेशकालोपेक्षोऽन्यथा वा?, प्रथमपक्षे को वा किमाह?, कञ्चित्कदाचित्तासामनुपलम्भस्य (उपलम्भस्य) चास्माकमपि संमतत्वात्, द्वितीयपक्षे पुनरनैकान्तिकता, देशादिविप्रकृष्टानामनुपलम्भेऽपि सत्त्वात्, दश्यते च कचित्त कदाचित् चरणरेणुस्पर्शादितो रोगोपशमादि, ततश्चेहापि कालान्तरे महाविदेहादिषु सर्वकालमद्धन्तरानामपि सम्भवस्यानुमीयमानत्वात्, यदपि-वञ्चितोऽस्मीति भोगसुखानामनेन शिरस्तुण्डमुण्डनोपवासादिना यातनात्मकेन धर्मानुष्ठानेनेति, तदप्यसमीक्षिताभिधानं, भोगसुखानां दुःखानुषक्तत्वेन तत्त्ववेदिनामनादेयत्वात्, तथा च वात्स्यायनोऽप्याह-“तद्यथा विषयसम्पृक्तमन्नमनादेयमेवं दुःखमानुषक्तं सुखमनादेय" मिति, प्रयोगश्च-यद्विपक्षानुविद्धं त तत्तत्त्वतस्तदेव, यथा विषव्यामिश्रमत्रम्, अतृप्तिकासाशोकादिनिमित्तं च वैषयिकं सुखं, न चास्यासिद्धता, कालत्रये यथायोगमतृप्त्यादीनां प्रतिपाणि स्वसविदितत्वात्, नापि तपसो यातनात्मकत्वं, मनइन्द्रिययोगानामहान्यैव तत्प्रतिपादनात्, उक्तं हि "मनइन्द्रिययोगानामहानिश्चोदिता जिनैः। यतोऽत्र तत्कथं तस्य, युक्ता स्यात् दुःखरूपता?॥" शिरस्तुण्डमुण्डनादेश्च किञ्चित्पीडात्मकत्वेऽपि समीहितार्थसम्पादकत्वेन न दुःखदायकता, "दृष्टा चेष्टार्थसंसिद्धौ, कायपीडाऽप्यदुःखदा। रत्नादिवणिगादीनां, तद्वदत्रापि भाव्यताम् ।।" प्रयोगश्च-यदिष्टार्थप्रसाधकं न तत्कायपीडात्मकत्वेऽपि दुःखदायि, यथा रत्नवणिजामध्व श्रमादि, इष्टार्थप्रसाधकं च तपः, न चास्याप्यसिद्धता, प्रशमहेतुत्वेन तपसस्तत्परिपक्तितारतम्यात्परमानन्दतारतम्यस्यानुभूयमानत्वेन तत्प्रकर्षे तस्यापि प्रकर्षानुमानात् प्रयोगश्चयत्तारतम्येन यस्य तारतम्यं तस्य प्रकर्षे तत्प्रकषी, यथाऽग्नितापप्रकर्षे तपनीयविशुद्धिप्रकर्ष:, अनुभूयते च प्रशमतारतम्येन परमानन्दतारतम्यं, लोकप्रतीतत्वाच्चेति सूत्रार्थः ।। तथामू. (१४) अभू जिना अस्थि जिना, अदुवावि भविस्सइ । मुसं ते एवमाहंसु, इति भिक्खू न चिंतए। वृ. 'अभूवन्' आसन् 'जिनाः' रागादिजेतारः, अस्तीति विभक्तिप्रतिरूपको निपातः, ततश्च विद्यन्ते जिनाः, अस्य कर्मप्रवादपूर्वसप्तदशप्रभाभृतोद्धृततया वस्तुतः सुधर्मस्वामिनैव जम्बुस्वामिनं प्रति प्रणीतत्वात्, तत्काले च जिनसम्भावदित्थमुक्तं, विदेहादिक्षेत्रान्तरापेक्षया Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003381
Book TitleAgam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages704
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 43, & agam_uttaradhyayan
File Size130 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy