________________
११०
उत्तराध्ययन-मूलसूत्रम्-१-२/८८ तथाविधविमर्शाभावेन स्वयमजानन् कुत एतन्ममाज्ञानमिति चिन्तयन् गुरुवचनमनुसृत्यात्मानमात्मनैव प्रति वक्ति, 'से' इत्यथ 'नूनं' निश्चितमेतत्, शेषं प्राग्वत् । आह-यदि पूर्व कृतानि कर्माणि किं न तदैव वेदितानि ?, उच्यते, अथेति वक्तव्यान्तरोपन्यासे 'पश्चाद्' अबाधोत्तरकालम् 'उदीर्यन्ते' विपच्यन्ते कर्माण्यज्ञानफलानि कृतानि, अलर्कमूषिकविषविकारवत् तथाविधद्रव्यसाचिव्यादेव तेषां विपाकदानात्, ततस्तद्विघातायैव यत्रो विधेयो न तु विपाद:, 'एवम्' अमुना प्रकारेण 'आश्वासय' स्वस्थीकुरु, कम्?, आत्मानं, मा वैक्लव्यं कृथा इत्यर्थः, उक्तमेव हेतुं निगमयत्राह-ज्ञात्वा कर्मविपाकं, कर्मणां कुत्सितविपाकम्।
इत्थं प्रज्ञाऽपकर्षमाश्रित्य सूत्रद्वयं व्याख्यातम्, एतदेव तदुल्कर्षपक्ष एवं व्याख्यायतेप्रज्ञोत्कर्षवतैवं परिभावनीयं-'से' इत्युपन्यासे नूनं मया पूर्व कर्माणि' अनुष्ठानानि ज्ञानप्रशंसादीनि, ज्ञानमिह विमर्शपूर्वको बोधः, तत्फलानि कृतानि येनाहं ना अपिशब्दस्य लुसनिर्दिष्टत्वानाऽपि-पुरुषोऽप्यभिजानामि ‘पृष्टः' पर्यनुयुक्तः 'केनापि' अविवक्षितविशेषेण, सर्वेणापीत्यर्थः, ‘कस्मिंश्चिद्' यत्र तत्रापि वस्तुनि, 'अथे'त्युत्कर्षानन्तरम्, 'अपत्थ'त्ति अपथ्यानि आयतिकटुकानि कर्माण्यज्ञानफलानि 'उदिज्जति'त्ति सूत्रत्वात्तिडव्यत्येनोदेष्यन्ति, वर्तमानसामीप्ये वर्तमानवद्धा इत्यनेन वर्तमानसामीप्ये वा लटि उदीर्यन्ते, सन्निहितकाल एवोदेष्यन्तीत्यर्थः, अयं चाशय:-उत्सेको हि ज्ञानावरणकारणमवश्यवेद्यं च तत्, तदुदये च कुतो ज्ञानम्?, अनियते वाऽस्मिन्क उत्सेकः ?, इत्येवमालोचयन्नाश्वासय-प्रज्ञावलेपावलुप्तचेतनमात्मानं स्वस्थीकुरु ज्ञात्वा कर्मविपाकम्, इहचतन्त्रन्यायेन युगपदर्थद्वयसम्भवः, तन्त्रंच दैर्ध्यप्रसारिताः तन्तवः, ततो यथा तदेकमनेकस्य तिरश्चीनस्य तन्तोः संग्रादि तथा यदेकेनानेकार्थस्याभिधानं स तन्त्रन्याय इति सूत्रद्वयार्थः।।
अत्र सूत्रद्वारं, सूत्रं चागमः, अस्मिंश्च प्रस्तुतसूत्रसूचितमुदाहरणमाहनि.[ १२०] उज्जेनी कालखमणा सागरखमणा सुवनभूमीए ।
इंदो आउयसेसं पुच्छइ सादिव्वकरणं च ॥ वृ. उज्जयनी कालक्षपणाः सागरक्षपणा: सुवर्णभूमौ इन्द्रः आयुष्कशेषं पृच्छति सादिव्यकरणं चेति गाथाक्षरार्थः ।। भावार्थस्तु सम्प्रदायात् ज्ञातव्यः, स चायम्
उज्जेनीए कालगायरिया बहुसुया, तेसिं सीसो न कोइ इच्छइ पढिउं, तस्स सीसस्स सीसो बहुसुओ सागरखमनो नाम सुवनभूमिए गच्छेणं विहरइ, पच्छा आयरिआ तत्थ पलाइउं गया सुवण्णभुमि, सो य सागरखमनो अनुओगं कहइ, पन्नापरीसहन सहइ, भणइ-खंता! गयं एवं तुब्भ सुयखंधं ?, तेन भण्णइ-गयंति, तो सुण, सो सुणावेउं पयत्तो । ते य सेज्जायरनिबंधे कहिए तस्सिस्सा सुवनभूमि जतो चलिया, लोगो पुच्छति विदं गच्छंतं-को एस आयरिओ गच्छइ?, तेन भण्णइ-कालगा आयरिया, तं जनपरंपरएण फुसंतं कोडं सागरसमनस्स संपत्तं, जहा-कालगाआयरिआ आगच्छंति, सागरखमनो भणइ-खंतग! सच्चं मम पितामहो आगच्छति ?, तेन भण्णति-न जाणं, मयावि सुयं, आगया य साहुणो, सो अब्भुट्ठिओ, सो तेहिं साधूहि भन्नाति-खमासमणा केइ इहागया?, पच्छा सो संकिओ भणइ-खंतो परं इक्को आगओ, न उन जाणामि खमासमणा, सो पच्छा खामेति, भणति-मिच्छामिदुक्कडंजं एत्थमए आसादिया,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org