________________
अध्ययनं-२,[नि. ११९]
१०९ चिरकालपइट्ठियाए महुराए इंददत्तेणं पुरोहिएणं पासायगएणं हेतुणं साधुस्स वच्चंतस्स पाओ ओलंबितो सीसे कतोत्तिकाउं, सो य सावएण सिट्टिणा दिट्ठो, तस्सामरिसो जाओ, दिटुं भो ! एएण पावेणं साहुस्स उवरिं पादो कतोत्ति, तेन पइन्ना कया-अवस्स मए एयस्स पादो छिंदेयव्वो, तस्स छिद्दाणि मग्गइ, अलभमानो अन्नया आयरिआण सगासे गंतूण वंदित्ता परिकहेइ, तेहि भन्नइ-का पुच्छा?, अहियासेयव्वो सक्कारपुरकारपरीसहो, तेन भणियं-मए पइन्ना कएल्लिया, आयरिएहि भन्नइ-एयस्स पुरोहियस्स किं घरे वट्टइ?, तेन भन्नइ-एयस्स पुरोहियस्स पासाओ कएल्लतो, तस्स पवेसणे रन्नो भत्तं करेहित्ति, तेहि भन्नइ-जाहे राया पविसइ तं पासायं ताहे तुम रायं हत्थेण गहेऊण अवसारिज्जासि जहा-पासाओ पदति, ताहेऽहं पासायं विज्जाए पाडिस्सं, तेन तहा कयं, सेटिणा राया भणितो-एएण तुब्भे मारिया आसि, रुद्वेण स्ना पुरोहितो सावगस्स अप्पितो, तेन तस्स इंदकीले पादो कतो, पच्छा छिन्न(नो), एवं काउं इयरो विसज्जितो। तेन नाहियासितो सक्कारपुरक्कारपरीसहो इति । यथा तेन श्राद्धेनासौ न सोढो न तथा विधेयं, किन्तु साधुवत्सोढव्यः, इह पूर्वत्र च श्रावकपरीषहाभिधानमाद्यनयचतुष्टय मतेनेति भावनीयम्, उक्तं हि प्राक्-"तिण्हंपि नेगमनतो परीसहो जाव उज्जसुत्तातो"त्ति, अङ्गं चात्र पादो, विद्या च प्रासादपातनविद्या ।। साम्प्रतमनन्तरोक्तपरीषहान् जयतोऽपि कस्यचिज्ज्ञानावरणापगमात् प्रज्ञाया उत्कर्षे अपरस्य तु तदुदयादपकर्षे उत्सेकवैक्लव्यसम्भव इति प्रज्ञापरीषहमाहमू.(८१) से नूनं मए पुव्वं, कम्माऽनाणफला कडा ।
जेनाहं नाभिजाणाभि, पुट्ठो केणइ कण्हुई। मू.(९०) अह पच्छा उइज्जति, कम्माऽनाणफलाकडा।
एवमासासि अप्पाणं, नच्चा कम्मविवागयं ।। वृ. सेशब्दो मागधप्रसिद्धयाऽथशब्दार्थ उपन्यास, 'नूनं' निश्चितं 'मये ति आत्मनिर्देश: 'पूर्वं' प्राक् क्रियन्त इति कर्माणि तानि च मोहनीयादीन्यपि सम्भवन्त्यत आह- अज्ञानम्अनवबोधस्तत्फलानि ज्ञानावरणरूपाणीत्यर्थ: 'कृतानि' ज्ञाननिन्दाभिरुपाजितानि, यदुक्तम्
ज्ञानस्य ज्ञानिनां चैव, निन्दाप्रद्वेषमत्सरैः ।
उपघातैश्च विघ्नैश्च, ज्ञानघ्नं कर्म बध्यते ।। 'मये'त्यभिधानं च स्वयमकृतस्योपभोगासम्भवाद्, उक्तं च
"शुभाशुभानि कर्माणि, स्वयं कुर्वन्ति देहिनः ।
स्वयमेवोपभुज्यन्ते, दुःखानि च सुखानि च ।" कुत एतदित्याह-येन हेतुना अहं 'नाभिजानामि' नाभिमुख्येनावबुद्धये पृष्टः केनचित् स्वयमजानता जानता वा 'कण्हुई 'त्ति सूत्रत्वात् कस्मिंश्चित् सूत्रादौ वस्तुनि वा, प्रगुणेऽपीत्यभिप्रायः । न हि स्वयं स्वच्छस्फटिकवदतिनिर्मलस्य प्रकाशरूपस्यात्मनोऽप्रकाशकत्वं किन्तु ज्ञानावृत्तिवशत एव, उक्तं हि
"तत्र ज्ञानावरणीयं नाम कर्म भवति येनास्य ।
तत्पञ्चविधं ज्ञानामावृतं रविरिव मेधैस्तथा ।।" अथवा ‘से नूनंति सेशब्द: प्रतिवचनवाचिनोऽथशब्दस्यार्थे, सहि केनत्किञ्चित्पर्यनुयुक्तः
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only