________________
१०८
उत्तराध्ययन-मूलसूत्रम्-१-२/८६ वा अन्नसिं वा विसिट्ठदव्वाण जारिसो गंधो तारिसो गंधो जातो, पुणोऽवि अड्डाहो, पुणोऽवि देवयाराहणं, साभावियगंधो जातो।
तेन नाहियासिओ जल्लपरीसहो । एवं शेषसाधुभिर्न करणीयम् । जल्लोपलिप्तश्च शुचीन् सक्रियमाणान् पुरस्क्रियमाणांश्चापरानुपलभ्य सत्कारपुरस्काराभ्यां स्पृहयेदतस्तत्परीषहमाहमू. (८७) अभिवादन अब्भुट्ठाणं, सामी कुज्जा निमंतणं।
जे ताइं पडिसेवंति, न तेर्सि पीहए मुनी। वृ. 'अभिवादनं' शिरोनमनधरणस्पर्शनादि पूर्वमभिवादये इत्यादिवचनं 'अभ्युत्थानं' ससम्भ्रममासनमोचनं 'स्वामी' राजादिः 'कुर्यात्' विदधीत निमन्त्रणम्' अद्य भवद्भिर्भिक्षा मदीयगृहे ग्रहीतव्येत्यादिरूपं, 'ये' इति स्वयूथ्याः परतीथिका वा 'तानि' अभिवादनादीनि 'प्रतिसेवन्ते' आगमनिषिद्धान्यपि भजन्ते, न तेभ्यः स्पृहयेत्-यथा सुलब्धजन्मानोऽमी य एवमेवंविधैरभिवादनादिभिः सक्रियन्त इति 'मुनिः' अनगार इति सूत्रार्थः ॥ किंचमू.(८८) अनुक्कसाई अप्पिच्छे, अत्राएसि अलोलुए।
रसेसु नानुगिज्झिज्जा, नानुतप्पिज्ज पन्नवं। ७. उत्कण्ठितः, सत्कारादिषु शेत इत्येवं शील उत्कशायी न तथा अनुत्कशायी, यद्वा प्राकृतत्वादणुकषायी सर्वधनादित्वादिनि, कोऽर्थः ?-न सत्कारादिकमकुर्वते कुप्यति, तत्सम्पत्तौ वा नाहङ्कारवान् भवति, यत उक्तम्
"पलिमंथ महं वियाणिया, जावि य वंदन पूयणा इहं।
सुहुमे सल्ले दुरद्धरे, इति संखाइ मुनी न मज्जइ।।" नवा तदर्थं छद्म तत्र वा गृद्धिं विधत्ते, अत एवाल्पा-स्तोका धर्मोपकरणप्राप्तिमात्रविषयत्वेन न तु सत्कारादिकमितया महती अल्पशब्दस्याभाववादित्वेनाविद्यमाना वा इच्छा-वाञ्छा वा यस्येति अल्पेच्छः, इच्छायाश्च कषायान्तर्गतत्वेऽपि पुनरल्पत्वाभिधानं बहुतरदोषत्वोपदर्शनार्थम्, अत एव च अज्ञातो जातिश्रुतादिभिः एषति-उञ्छति अर्थात् पिण्डादीत्यज्ञातैषी, कुतः पुनरेवम्?, यतः 'अलोलुपः' सरसौदनादोषुि न लाम्पट्यवान्, एवंविधोऽपि सरसाहारभोजिनोऽपरान् वीक्ष्य कदाचिदन्यथा स्यात् अत आह-सरसेषु-रसवतस्वोदनादिषु, पाठान्तरतो'रसेषु वा' मधुरादिषु 'नानुगृध्येत् नाभिकानां कुर्वीत, रसगृद्धिवर्जनोपदेशश्च तद्गृद्धित एव बालिशानामभिवादनादिस्पृहासम्भवात्, तथा न तेभ्यो' रसगृद्धेभ्यः स्पृहयेन्मुनिः, पाठान्तरतश्च नान्तप्येत् तीर्थान्तरीयान्नपत्यादिभिः सक्रियमाणानवेक्ष्य, किमेतत्परित्यागेनाहमत्र प्रव्रजितः?, इति, प्रज्ञा-हेयोपादेयविवेचनात्मिका मतिस्तद्वान्, अनेन सत्कारकारिणि तोषं न्यत्कारकारिणि च द्वेषमकुर्वताऽयं परीषहोऽध्यासितव्य इत्युक्तं भवतीति सूत्रार्थः ।। अत्र 'अङ्गविद्ये'ति द्वारमनुसरन् सूत्रोक्तमर्थं व्यतिरेकोदाहरणेन स्पष्टयन्नाहनि.[ ११८] महुराइ इंददत्तो पुरोहिओ साहुसेवओ सिट्ठी।
पासायविज्जपाडण पायच्छिज्जेंदकीले य॥ वृ. मथुरायामिन्द्रदत्तः पुरोहितः साधुसेवकः श्रेष्ठी प्रासादविद्यापातनं पादच्छेदश्चेन्द्रकीले चस्य भिन्नक्रमत्वादिति गाथासंस्कारः ।। एतदर्थश्च सम्प्रदायादवसेयः, स चायम्
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org