________________
अध्ययनं-२, नि. १२०] पच्छा भणति-खमासमणा! केरिसं अहं वक्खाणेमि?, खमासमणेण भण्णति-लटुं, किन्तु मा गव्वं करेहि, को जाणति?, कस्स को आगमोत्ति?, पच्छा धूलिणाएण चिक्खिल्लपिंडएण य आहरणं करेंति । न तहा कायव्वं जहा सागरखमणेण कयं । ताण अज्जकालगाण समीवं सको य आगंतु निओयजीवे पुच्छति, जहा अज्जरक्खियाणं तहेव जावसादिव्वकरणं च। इदं च प्रज्ञासद्भावमङ्गीकृत्योदाहरणमुक्तं, तदभावे तु स्वयमभ्यूह्यमिति ।। इदानी प्रज्ञाया ज्ञानविशेषरूपत्वात्तद्विपक्षभूतत्वादज्ञानस्य तत्परीपहमाह, सोऽप्यज्ञानभावाभावाभ्यां द्विधैव, तत्र भावपक्षमङ्गीकृत्येदमुच्यतेमू.(९१) निरझुगंमि विरओ, मेहुणाओ सुसंवुडो।
जो सक्खं नाभिजाणामि, धम्म कल्लाण पावगं । मू. ( १२) तवोवहाणमायाय, पडिमं पडिवज्जओ।
एवंपि मे विहरओ, छउमं न नियति ।। वृ. 'निरझुगंमि'त्ति अर्थ:-प्रयोजनं तदभावो निरर्थं तदेव निरर्थक तस्मिन् सति, "विरतः' निवृत्तः, कस्मात्?, मिथुनस्य भावः कर्म वा मैथुनम्-अब्रह्म तस्मात्, आश्रवान्तरविरतावपि यदस्योपादनां तदस्यैवातिगृद्धिहेतुतया दुस्त्यजत्वात्, उक्तं हि-"दुपच्चया इमे कामा" इत्यादि, सुष्ठु संवृतः सुसंवृतः-इन्द्रियनोइन्द्रियसंवरणेन, य: 'साक्षात्' इति परिस्फुटं नाभिजानामि 'धर्म' वस्तुस्वभावं 'कल्लाण'त्ति बिन्दुलोपात्कल्याणं शुभं 'पापकं' वा तद्विपरीतं, वत्यस्य गम्यमानत्वात्, यद्वा धर्मम्-आचारं कल्यः-अत्यन्तनीरुक्तया मोक्षस्तमानयति (अणति)प्रज्ञापयतीति कल्याणो-मुक्तिहेतुस्तं, पापकं वा नरकादिहेतुम्, अयमाशयः-यदि विरतौ कश्चिदर्थः सिद्धेनैवं ममाज्ञानं भवेत्, कदाचित् सामान्यचर्ययेव न फलावाप्तिरत आह
तपो-भद्रमहाभद्रादि उपधानम-आगमोपचाररूपमाचाम्लादि 'आदाय' स्वीकृत्य चरित्वेतियावत् 'प्रतिमां' मासिक्यादिभिक्षुप्रतिमा पडिवज्जिय'त्ति प्रतिपद्याङ्गीकृत्य, पठ्यते च-'पडिमं पडिवज्जओ'ति प्रतिपद्यमानस्य-अभ्युपगच्छतः, 'एवमपि' विशेषचर्ययाऽपि, आस्ता सामान्यचर्ययेत्यपिशब्दार्थः "विहरतो'ति निष्प्रतिबन्धत्वेनानियतं विचरतः छादयतीति छद्म-ज्ञानावरणादिकर्म 'न निवर्त्तते' नापैतीति भिक्षुः न चिन्तयेदित्युत्तरेण सम्बन्धः ! अज्ञानाभावपक्षे तु समस्तशास्त्रार्थनिष्कनिकषोपलकल्पना(ता)यामपि न दप्पध्मातमानसो भवत्, किन्तु
'पूर्वपुरुषसिंहानां विज्ञानातिशयसागरानन्त्यम्।
श्रुत्वा साम्प्रतपुरुषाः कथं स्वबुद्ध्या मदं यान्ति?, ॥' ___ इति परिभावयन् विगलितावलेपः सन्नेवं भावयेत् -'णिरटुयं' सूत्रद्वयम्, अक्षरगमनिका सैव, नवरं 'निरट्ठयंमिऽवि' निरर्थकेऽपि प्रक्रमात् प्रज्ञावलेपेरतो, मैथुनात् सुसंवृतः सन्निरुद्धात्मा सन् योऽहं 'साक्षात्' समक्षं नाभिजानामि धर्मं कल्याणं पापकं वा, अयमभिप्राय:-'जे एगं जाणति से सव्वं जाणति (जे सव्वं जाणति) से एगं जाणति' इत्यागमात् छदास्थोऽहमेकमपि धर्मं वस्तुस्वरूपं न तत्त्वतो वेद्मि, ततः साक्षाद्भावस्वभावावभासि चेा विज्ञानमस्ति किमितोऽपि मुकुलितवस्तुस्वरूपपरिज्ञानतोऽवलेपेनेति भावः, तथा तपउपधानादिभिर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org