________________
दशवैकालिक-मूलसूत्रं क्रियते इति करणं-पिण्डविशुद्धयादि, उक्तं च -
"पिंडविसोही समिई भावन पडिमाय इंदियानिरोहो।
__ पडिलेहण गुत्तीओ अभिग्गहा चेव करणं तु ॥" चरणकरणयोरनुयोगश्चरणकरणानुयोगः, अनुरूपो योगोऽनुयोगः-सूत्रस्यार्थेन सार्द्धमनुरूपाः सम्बन्धो, व्याख्यानमित्यर्थः, एकारान्तः शब्दः प्राकृतशैल्या प्रथमा द्वितीयान्तोऽपि द्रष्टव्यः, यथा "कयरेआगच्छइ दित्तरूवे" इयतादि, धर्म' इती धर्मकथानुयोगः 'काले' चेति कालानुयोगश्च गणितानुयोगश्चैत्यर्थः 'द्रव्य चेति ट्रव्यानुयोगश्च। तत्र कालिक श्रुतं चरणकरणानुयोगः ऋषिभाषितान्युत्तराध्ययनादीनि धर्मकथानुयोगः, सूर्यप्रज्ञप्यादीनि गणितानुयोगः, दृष्टिवा दस्तुद्रव्यानुयोग इति उक्तं च- कालिय सुअंच इसिमासियाइ तइया य सूरपन्नत्ती सव्वोय दिट्ठिवाओ चउत्थओ होइ अनुओगो॥"
इति गाथार्थः । इह चार्थतोऽनुयोग द्विधा-अपृथक्त्वानुयोगः पृथक्त्वानुयोगश्च, तत्रापृथक्त्वानयोगो यत्रैकस्मिन्नेव सूत्रे सर्व एव चरणादयः प्ररूप्यन्ते, अनन्तगमपर्यात्वात्सूत्रस्य, पृथक्त्वानु-- योगश्च क्वचित्सूत्रे चरणकरणमेव क्वचित्पुनर्धर्मकथैवेत्यादि, अनयोश्च वक्तव्यता
"जावंत अज्जवइरा अपुहत्तं कालियानुओगस्स।
तेनारेण पुहुत्तं कालियसेय दिट्ठिवाए य॥" इत्यादेन्थादावश्यकविशेषविवरणाच्चावसेयेति । इह पुन: पृथक्त्वानुयोगेनाधिकारः, नि.[४] अपहत्तपत्ताइंनिद्दिसिउंएत्थ होइ अहिगारो।
चरणकरणानुओगेन तस्स दारा इमे हुंति॥ वृ.'अपृथक्त्वपृथक्त्वे' लेशतो निर्दिष्टस्वरुपे निर्दिश्य अत्र' प्रक्रमे भवत्यधिकारः, केन? - 'चरणकरणानुयोगेन' 'तस्य' चरणकरणानुयोगस्य द्वाराणि' प्रवेशमुखानि 'अमूनि' वक्ष्यमाणलक्षणानि भवन्तीति गाथार्थः ।। नि.[५] निक्खेवेगट्ठनिरुत्ताविही पवित्तीय केन वा कस्स?
तद्दारभेयलक्खण तयरिहपरिसा य सुत्तत्थो॥ वृ.अस्या: प्रपञ्चार्थ: आवश्यकविशेषविवरणादवसेयः, स्थानशून्यार्थंतुसंक्षेपार्थः प्रतिपाद्यत इति, निक्खेव' त्ति अनुयोगस्य निक्षेपः कार्यः, तद्यथा-नामानुयोग इत्यादि, एगढत्ति' तस्यैव एकाथिकानि वक्तव्यानि, तद्यथा-अनुयोगो नियोग इत्यादि, 'निरुत्ति' त्ति तस्यैव निरुक्तं वक्तव्यम्, अनुयोजनमनुयोगः अनुरूपो वा योग इत्यादि, 'विहि'त्ति तस्यैव विधिर्वक्तव्यो, वक्तुः श्रोतुश्च तत्र वक्तुः
"सुत्तत्थो खलु पढमो बीओ निज्जुत्तिमीसिओ भणिओ।
तइओ य निरवसेसो एस विही होइ अनुओगे।" श्रोतुश्चायम्-"भूयं हुंकारं वा बाढक्कार पडिपुच्छ वीमंसा।
तत्तो पसंगपारायणं च परिनिट्ठ सत्तमए ।।" पवित्ती य'ति अनुयोगस्य प्रवृत्तिश्च वक्तव्या, सा चतुर्भङ्गानुसारेण विज्ञेया, उक्तं च -
"निच्चं गुरू पमाई सीसा य गुरू नसीसगा तह य।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org