SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ पीठिका [नि. २/१] प्रतिपादितैव, यत उक्तम् "जं नेरईओ कम्मखवेइ बहुयाहिवासकोडोहिं। तं नाणी तिहि गुत्तो खवेइ ऊसासमेत्तेणं।" इत्यादि। इह चादिमङ्गलंद्रुमपुष्पिकाध्ययनादि, धर्मप्रशंसाप्रतिपादकत्वात्तत्स्वरूपत्वादिति, मध्यमङ्गलंतु धर्मार्थकामाध्ययनादि, प्रपञ्चाचारकथाद्यभिधायकत्वात् चरममङ्गलं तु भिक्ष्वध्ययनादि, भिक्षुगुणाधवलम्बनत्वादित्येवमध्ययनविभागतो मङ्गलत्रयविभागोनिदर्शतिः, अधुना सूत्रविभागेन निदर्श्यते-तत्र चादिमङ्गलम् ‘धम्मो मंगलं' इत्यादिसूत्रं, धर्मोपलक्षितत्वात्, तस्य च मङ्गलत्वादिति, मध्यमङ्गलंपुन: 'नाणदंसणे' त्यादि सूत्र, ज्ञानोपलक्षितत्वात्, तस्य च मङ्गलत्वादिति, अवसानमङ्गलं तु 'निक्खमममाणा इय' इत्यादि, भिक्षुगुणस्थिरीकरणा) विविक्तचर्याभिधायकत्वात्, भिक्षुगुणानां च मङ्गलत्वादिति। आह-मङ्गलमिति कः शब्दार्थः?, उच्यते, 'अगिरगिलवगिमगीति' दण्डकधातुः, अस्य "इदितो नुम् धातो" रिति नुमि विहिते औणादिकालचप्रत्ययान्तस्य अनुबन्धलोपे कृते प्रथमैकवचनान्तस्य मङ्गलमितिरूपं भवति । मङ्गयते हितमनेनेति मङ्गलं, मङ्गयतेऽधिगम्यते साध्यत इतियावत्, अथवा मङ्गइति धर्माभिधानं, 'ला आदाने' अस्य धातोर्मने उपपदे "आतोऽनुपसर्गे कः" इति कप्रत्ययान्तस्यानुबन्धलोपेकृते "आतोलोपइटिच" क्ङिति इत्यनेन सूत्रेणाकारलोपेच कृते प्रथमैकवचनान्तस्यैवमङ्गलमिति भवति, मङ्गं लातीति मङ्गलं, धर्मोपादानहेतुरित्यर्थः, अथवा मां गालयति भवादिति मङ्गलं, संसारादपनयतीत्यर्थः तच्च नामादि चतुर्विधं, तद्यथानाम मङ्गलं स्थापनामङ्गलं द्रव्यमङ्गलं भावमङ्गलं चेति, एतेषां च स्वरूपमावश्यकविशेषविवरणादवसेयमिति॥ अमुमेव गाथार्थमुपसंहरनाह नियुक्तिकार:नि.[२/२] नामाइमंगलंपिय चउव्विहं पनवेऊणं ।। वृ.नामादिमङ्गलं चतुर्विधमपि प्रज्ञाप्य' प्ररूप्येति गाथार्थः। तत्र समानकर्तृक्यो: पूर्वकाले क्त्वाप्रत्ययविधानात् प्रज्ञाप्य किमत आह - नि.[३] सुयनाणे अनुओगेणाहिगयं सोचउब्विहो होइ। चरणकरणानुओगे धम्मे गणिए (काले) य दविए य॥ वृ. श्रुतं च तद् ज्ञानं च श्रुतज्ञानं तस्मिन् श्रुतज्ञाने अनुयोगेनाधिकृतम्, अनुयोगेनाधिकार इत्यर्थः, इयमत्र भावना-भावमङ्गलाधिकारे श्रुतज्ञानेनाधिकारः, तथा चोक्तम् - ___ "एत्थं पुन अहिगारो सुयनाणेणंजओ सुएणं तु। सेसाणमप्पणाऽविय अनुओगुपईवदिटुंतो।।" तस्य चोद्देशादयः प्रवर्तन्ते इति, उक्तं च - “सुअनाणस्स उद्देसो समुद्देसो अणुना अनुओगो पवत्तइ"तत्रादावेवोद्दिष्टस्य समुद्दिष्टस्य समनुज्ञा-तस्य च सतः अनुयोगो भवतीत्यतो नियुक्तिकारेणाभ्य-धायि' श्रुतज्ञानेऽनुयोगेनाधिकृत' मिति। सः' अनुयोगश्चतुर्विधो भवति, कथम्? - 'चरणकरणा-नुयोगः' चर्यत इति चरणं-व्रतादि, यथोक्तम्, - "वय समणधम्मसंजमवेयावच्चं च बंभगुत्तीओ। नाणादितियं तव कोहनिग्गहाई चरणमेयं ।" Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003380
Book TitleAgam Sutra Satik 42 Dashvaikalik MoolSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages284
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 42, & agam_dashvaikalik
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy