________________
दशवैकालिक - मूलसूत्रं
इत्थीलिंगसिद्धा पुरिसलिंगसिद्धा नपुंसगलिंगसिद्धा सलिंगसिद्धा अन्नलिंगसिद्धा गिहिलंगसिद्धा एगसिद्धा अनेगसिद्धा" इत्यत आह- 'सर्वसिद्धेभ्यः ' सर्वे चत सिद्धाश्चेति समासस्तेभ्यः, अथवा 'सिद्धिगतिमुपगतेभ्यः' इत्यनेन सर्वथा सर्वगतात्मसिद्धपक्षप्रतिपादनपरदुर्नयस्य व्यवच्छेदमाह, तथा चोक्तमधिकृतनयमतानुसारिभिः"गुणसत्त्वान्तरज्ञानान्निवृत्तप्रकृतिक्रियाः । मुक्ता: सर्वत्र तिष्ठन्ति, व्योमवत्तापवर्जिताः ॥
व्यवच्छेदश्चैतेषां सामीप्येन सर्वात्मना सिद्धिगतिगमनाभावात्, 'कर्मविशुद्धेभ्यः' इत्यनेन तु सकर्मकाणिमादिविचित्रेश्वर्यवत्सिद्धप्रतिपादनपरस्येति, उक्तं च प्रक्रान्तनयदर्शनाभिनिविष्टैः“अणिमाद्यष्टविधं प्राप्यैश्वर्यं कृतिनः सदा । मोदन्ते सर्वभावज्ञास्तीर्णाः परमदुस्तरम् ॥१॥"
इत्यादि, व्यवच्छेदश्चैतेषांकर्मसंयोगेन अनिष्ठितार्थत्वाद्वस्तुतः सिद्धस्तानुपपत्तेरिति, 'सर्वसिद्धेभ्यः' इत्यनेन तु भङ्गयैव सर्वथा अद्वैतपक्षसिद्धप्रतिपादनपरस्येति, तथा चोक्तं - "एक एव हि भूतात्मा भूते भूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥"
व्यवच्छेदश्चास्य सर्वथा अद्वैते बहुवचनगर्भसर्वज्ञशब्दाभावात् (सिद्धिगतिगमनाभावात्) । 'नत्वा' प्रणम्येति, अनेन तु समानकर्तृकयोः पूर्वकाले क्त्वाप्रत्ययविधानान्नित्यानित्यैकान्तवादासाधुत्वमाह, तत्र क्त्वाप्रत्यार्थानुपपत्तेः, तत्र नित्यैकान्तवादे तावदात्मन एकान्तनित्यत्वादप्रच्युतानुत्पन्नस्थिरैकखभावत्माद्भिन्नाकालक्रियाद्वयकर्तृत्वानुपपत्तेः, क्षणिकैकान्तवादे चात्मन उत्पत्तिव्यतिरेकेण व्यापाराभावाद्भिन्नकालक्रियाद्वयकर्तृत्वानुपपत्तिरेवेत्यलं विस्तरेण, गमनिकामात्रमेवैतदिति । भवति च चतुर्थ्यप्येवं नमनक्रियायोगे, अधिकृतगाथासूत्रान्यथानुपपत्तेः, आप्तश्चनियुक्तिकारः, 'पित्रे सवित्रे च सदा नमामी' त्येवमादिविचित्रप्रयोगदर्शनाच्च, कर्मणि वा षष्ठी । सर्वसिद्धेभ्यो नत्वा किमित्याह - 'दशकालिकनिर्युक्तं कीर्तयिष्यामि' तत्र कालेन निर्वृत्तं कालिकं, प्रमाणकालनेति भावः, दशाध्ययनभेदात्मकत्वाद्दशप्रकारंकालिकं प्रकारशब्दलोपाद्दशकालिकं, विशब्दार्थं तूत्तरत्र व्याख्यास्यामः, तत्र निर्युक्तिरिति- निर्युक्तानामेव सूत्रार्थानां युक्तिः - परिपाट्य योजनं निर्युक्तयुक्तिरिति वाच्ये युक्तशब्दलोपान्निर्युक्तिस्तां विप्रकीर्णार्थयोजनां व्याख्यास्यामि कीर्तयिष्यामीति गार्थार्थः । शास्त्राणि चादिमध्यावसानङ्गलभाञ्जि भवन्तीत्यत आह
-
नि. [२/१] आइमज्झवसाणे काउं मंगल परिग्गहं विहिणा ।
वृ.शास्त्रस्यादौ - प्रारम्भे मध्ये-मध्यविभागे अवसाने पर्यन्ते, किं ? कृत्वा मङ्गलपरिग्रहम्, कथम् ? - 'विधिना' प्रवचनोक्तेन प्रकारेण, आह-किमर्थं मङ्गलत्रयपरिकल्पनम् ? इति उच्यते, इहादिमङ्गलपरिग्रहः सकलविघ्नापोहेनाभिलषितशास्त्रार्थपारगनार्थं, तत्स्थिरीकरणार्थं च मध्यमङ्गलपरिग्रहः, तस्यैव शिष्यप्रशिष्यसन्तानाव्यवच्छेदायावसानमङ्गलपरिग्रह इति । अत्र चाक्षेपपरिहारावश्यक विशेषविवरणादवसेयौइति । सामान्यतस्तु सकलमपीदं शास्त्र मङ्गलं, निर्जरार्थत्वात्तपोवत्, न चासिद्धो हेतु:, यतो वचनविज्ञानरूप शास्त्रं, ज्ञानस्य च निर्जरार्थता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org