________________
पीठिका[नि. ५]
अपमाइ गुरू सीसा पमाइणो दोवि अपमाई ।।१।। पढमे नत्थि पवित्ती बीए तइए य णस्थि थोवं वा । अत्थि चउत्थि पवित्ती एत्थं गोणीए दिटुंतो।।२।। अप्पण्हुया उगोणी नेव य दोद्धा समुज्जओ दोढुं। खीरस्स करो पसवो? जइवि य बहुखीरदा सा उ।।३।। गोणिसरिच्छो उगुरू दोहाइवसाहुणो समक्खाया।
खीरं अत्थपवित्ती नत्थि तहिं पढमबितिएसु।।५।। अहवा अनिच्छमाणं अवि किंचि उजोगिणो पवतंत्ति ।
तइए सारंतमो होज्ज पवित्ती गणित्ते वा॥६॥ अपमाई जत्थ गुरू सीसाविय विनयगहणसंजुत्ता।
धणियं तत्थ पवित्ती खीरस्सव चरिमभंगंमि ॥७|| 'केन'त्ति केनानुयोगः कर्त्तव्य इति वक्तव्यं, तत्र य इत्थंभूत आचार्यस्तेन कर्त्तव्यः, तद्यथा
"देसकुलजाइरूवी संघयणाधिइजओ अनासंसी। अविकत्थणो अमाई थिरपरिवाडी गहियवक्को।।१।। जियपरिसो जियनिद्दो मज्झत्थो देसकालभावन्नू।
आसन्नलद्धपइभो नाणाविहदेसभासन्नू॥२॥ पंचविहे आयारेजुत्तो सुत्तत्थतदुभयविहिन्नू। आहरणहेउकारणनयनिउणोगाहणाकुसलो।।३।। ससमयपरसमयविऊगंभीरो दित्तियं सिवोसोमो।
गुणसयकालिओ जुग्गो पवयणसारंपरिकहेउं॥४|| आसामर्थ: कल्पादवसेयः, प्राथमिकदशकालिकव्याख्याने तुलेशत उच्यते-आर्यदेशोत्पन्नः, सुखावबोधवाक्यो भवतीति देशग्रहणं, पैतृकं कुलं विशिष्टकुलोद्भवो यथोत्क्षिप्तभारवहने न श्राम्यति, मातृकी जाति: तत्सम्पनो विनयान्वितो भवति, रूपवानादेयवचनो भवति, आकृतौ च गुणा वसन्ति, संहननधृतियुक्तो व्याख्यानतपोऽनुष्ठानदिषु न खेदं याति, अनाशंसी न श्रोतृभ्यो वस्त्राद्याकांक्षति, अविकत्थनो बहुभाषी न भवति, अमायी न शाव्येन शिष्यान् वाहयति, स्थिरपरिपाटी स्थिरपरिचित्तग्रन्थस्य सूत्रं न गलति, गृहीतवाक्योऽप्रतिघातवचनो भवति, जितपरिषत् परप्रवादिक्षोभ्यो न भवति, जितनिद्रोऽप्रमत्तत्वाद् व्याख्यानरतिर्भवति प्रकामनिकामशायिनश्च शिष्यांश्चोयति, मध्यस्थः संवादको भवति, देशकालभावज्ञो देशादिगुणानबुद्धयाप्रतिबद्धो विहरति देशनां च करोति, आसन्नलब्धप्रतिभोजात्युत्तरादिना निगृहीतः प्रत्युत्तरदानसमर्थो भवति, नानाविधदेशभाषाविधिज्ञो नानादेशजविनेयप्रत्यायनसमर्थो भवति, ज्ञानादिपञ्चविधाचारयुक्तः श्रद्धेयवचनो भवति, सूत्रार्थोभयज्ञः सम्यगुत्सर्गापवादप्ररूपको भवति, उदाहरणहेतुकारणनयनिपुणस्तद्गम्यान् भावान् सम्यक् प्ररूपयति नागममात्रमेव, ग्राहणाकुशलः शिष्याननेकधा ग्राहयति, स्वसमयपरसमयवित् सुखं परमातक्षेपमुखेन स्वसमयं प्ररूपयति, गम्भीरो महत्यप्यकार्ये न रुष्यति, दीप्तिमान् परप्रवादिक्षोभमुत्यादगति, शिवो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org