________________
दशवैकालिक - मूलसूत्रं
मारिरोगाद्युपद्रविघाताकृद् भवति, सौम्यः प्रशान्तदृष्टितया सकलजनप्रीत्युत्पादको भवति, इत्थंभूत एव गुणशतकालितो योग्य: प्रवचनम् - आगमस्तस्य सारस्तं कथयितुमिति, यतो ऽसावनेकभव्य सत्त्वप्रबोधहेतुर्भवति, उक्तं च
-
८
"गुणसुट्ठिअस्स वयणं घयमहुसित्तोव्व पावओ भाइ । गुणहीनस्सन सोहइ नेहविहीणो जह पईवो ॥"
तथा चान्येनाप्युक्तम्
"क्षीरं भाजनसंस्थं न तथा वत्सस्य पुष्टिमावहति । आवल्गमानशिरसो यथा हिमातृस्तनात्पिबतः ॥ १ ॥
तद्वत्सुभाषितमयं क्षीरंदुःशीलभाजनगतं तु । न तथा पुष्टिं जनयति यथा हि गुणवन्मुखात्पीतम् ॥२॥ शीतेऽपि यत्नलब्धो न सेव्यतेऽग्निर्यथा श्मशानस्थः । शीलविपत्रस्य वचः पथ्यमपि न गृह्यते तद्वत् ॥३॥ चारित्रेण विहीनः श्रुतवानपि नोपजीव्यते सद्भिः । शीतलजलपरिपूर्णः कुलजैश्चाण्डालकूप इव ॥४॥"
'कस्स 'त्तिकस्यानुयोग ? इति वक्तव्यं, तत्र सकल श्रुतज्ञानस्याप्यनुयोगो भवति, अमुं पुनः प्रारम्भमाश्रित्य दशकालिकस्येति । अत्राह - ननु ' दसकालियनिज्जुति कीत्तइस्सामित्ति" अस्मादेव वचनतः प्रकृतद्वारार्थस्वागतत्वात् तदुपन्यासोऽनर्थक इति, न अधिकृतनिक्षेपाद्वारकलापस्याशेषश्रुतस्कन्धविषयत्वात्, तद्बलेनैव च नियुक्तिकारेणापि तथोपन्यस्तत्वात्, अस्मादेव स्थानादनयत्राप्यादो शास्त्राभिधानपूर्वक उपन्यासः क्रियत इति भावना । व्याख्यातं लेशतो निर्युक्तिगाथादलं, पश्चार्द्ध त्वध्ययनाधिकारे यथाऽवसरं व्याख्यास्यामः, यतस्तत्रैवोपक्रमाद्यनुयोगद्वारानुपूर्व्यादितभेदसूत्रादिलक्षणतदर्हपर्षदादयश्च वक्तुं शक्यन्ते, नान्यत्र, निर्विषयत्वादित्यलं प्रसङ्गेन ।। साम्प्रतं प्रकृतयोजनामेवोपदर्शयन्नाह नियुक्तिकार:एयाइँ परूवेउं कप्पे वण्णियगुणेण गुरुणा उ । अनुओगो दसवेयालियस्स विहिणा कहेयव्वो ।।
नि.[६]
वृ. 'एतानि' निक्षेपादिद्वाराणि 'प्ररूप्य' व्याख्याय कल्पे वर्णितगुणेन गुरुणा, षट्त्रिंशद्गुणसमन्वितेनेत्यर्थः । अनुयोगो दशवैकालिकस्य 'विधिना' प्रवचनोक्तेन 'कथयतव्य' आख्यातव्य इति गाथार्थः ॥ सम्प्रत्यजानानः शिष्यः पृच्छति यदि दशकालिकस्यानुयोगस्ततस्तद्दशकालिकं भदन्त ! किमङ्गमङ्गानी ? श्रुतस्कन्धः श्रुतस्कन्धाः ? अध्ययनमध्ययनानि ? उद्देशक उद्देशका? इत्यष्टौ प्रश्नाः, एतेषां मध्ये त्रयो विकल्पाः खलु प्रयुज्यनते, तद्यथा - दशकालिकं श्रुतस्कन्धः अध्ययनानि उद्देशकाश्चेति, यतश्चैवमतो दशादीनां निक्षेतः कर्त्तव्यः, तद्यथादशानां कालस्य श्रुतस्कन्धस्याध्ययनस्य उद्देशकस्य चेति, तथा चाह निर्युक्तिकारःदसकालियंति नामं संखाए कालओ य निद्देसो । दसकालियसुअखंधं अज्झयणुद्देस निक्खिविरं ।।
नि. [७]
वृ. 'दशकालिकं' प्राग्निरूपितशब्दार्थम् 'इति' एवंभूतं यत्'नाम' अभिधानं, इदं किम् ? -
Jain Education International
-
For Private & Personal Use Only
www.jainelibrary.org