________________
७४
दशवैकालिक-मूलसूत्र-१/-/५ तंसव्वनयविसुद्धं जं चरणगुणट्ठिओसाहू।। वृ.'सर्वेषा'मिति मूलनयानामपिशब्दात्तभेदानां च द्रव्यास्तिकादीनां 'बहुविधवक्तव्यतां' सामान्यमेव विशेषा एव उभयमेव वाऽनपेक्षमित्यादिरूपाम्, अथवा नामादीनां नयानां कः कं साधुमिच्छातीत्यादिरूपां 'निशम्य' श्रुत्वा तत् 'सर्वनयविशुद्ध सर्वनयसंमतं वचनं यच्चरणगुणस्थितः साधु:' यस्मात्सर्वनया एव भावविषयं निक्षेपमिच्छन्तीति गाथार्थः ।। नि.[१५२] दुमपुफियनिज्जुत्ती समासओवष्णियाविभासाए। .
___ जिनचउद्दसपुवी वित्थरेण कहयंती से अटुं॥ व्याख्यायाध्ययनमिदं प्राप्तं यत्कुशलमिहमया किञ्चित्। सद्धर्मलाभमखिलं लभतां भव्यो जनस्तेन॥
अध्ययनं-१ समाप्तम् मुनिदीपरत्नसागरेणसंशोधितासम्पादितादशवैकालिकसूत्रे प्रथम अध्ययनस्य भद्रबाहुस्वामि विरचिता नियुक्ति एवं हरिभद्रसूरिविरचिता टीका परिसमाप्ता
अध्ययनं-२ श्रामण्यपूर्व वृ-व्याख्यातं द्रुमपुष्पिकाध्ययनम्, अधुना श्रामण्यपूर्वकाख्यमारभ्यते, अस्य चायमभिसंबन्धः, इहानन्तराध्ययने धर्मप्रशंसोक्ता, सा चेहैवजिनशासन इति, इह तु तदभ्युपगमे सति मा भूदभिनवप्रव्रजितस्याधृतेः संमोह इत्यतो धृतिमता भवितव्यमित्येतदुच्यते, उक्तंच
"जस्सधिई तस्सो तवो जस्स तवो तस्स सुग्गई सुलभा।
___ जे अधिइमंत पुरिसा तवोऽवि खलु दुल्लहो तेसिं॥" अनेनाभिसंबन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणिपूर्ववत्, नवरंनामवदध्ययनविपयत्वादुपक्रकमादिद्वारकलापस्य व्याप्तिप्राधान्यतो नामनिष्पन्न निक्षेपमभिधित्सुराह नियुक्तिकार:नि.[१५३] सामण्णपुव्वगस्स उनिक्खेवो होइनामनिप्फन्नो।
सामण्णस्स चउक्को तेरसगो पुव्वयस्स भवे॥ वृ.श्राम्यतीति श्रमणः, (श्राम्यतितपस्यति) तद्भावः श्रामण्यं, तस्य पूर्व-कारणं श्रामण्यपूर्व तदेव श्रामण्यपूर्वकमिति संज्ञायां कन्, श्रामण्यकारणं च धृतिः, तन्मूलत्त्वात्तस्य, तत्प्रतिपादकं चेदमध्ययनमिति भावार्थः । अतः श्रामण्यपूर्वकस्य तु निक्षेपो भवति नामनिष्पन्नः, कोऽसौ ?अन्यस्याश्रुतत्त्वात् श्रामण्यपूर्वकमित्ययमेव, तुशब्दः सामान्यविशेषवत्रामविशेषणार्थः, श्रामण्यपूर्वकमिति सामान्ययम्, श्रामण्यं पूर्व चेति विशेषः, तथा चाह- श्रामण्यस्य चतुष्ककस्त्रयोदशक: पूर्वकस्य भवेन्निक्षेप इति गाथार्थः॥ निक्षेपमेव विवृणोतिनि.[१५४] समणस्स उनिक्खेवो चउक्कओ होइ आनुपुव्वीए।
___दव्वे सरीरभविओ भावेन उसंजओ समणो॥ वृ.'श्रमणस्य तु' तुशब्दोऽन्येषां च मङ्गलादीनामिह तु श्रमणेनाधिकार इति विशेषणार्थः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org