________________
अध्ययनं -१, उद्देशकः - [नि. १५०]
७३
तावदपवर्गप्राप्तिः संजायते यावज्जीवाजीवाद्यखिलवस्तुपरिच्छेदरूपं केवलज्ञानं नोत्पन्नमिति, तस्माज्ज्ञानमेव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणमिति स्थितम् ' इति जो उवएसो सो नओ नाम' ति 'इति' एवमुक्तेन न्यायेन य उदपेशो-ज्ञानप्राधान्यख्यापनपरः स नयो नाम - ज्ञाननय इत्यर्थः, अयं च ज्ञानवचनक्रियारूपेऽस्मिन्नध्ययने ज्ञानरूपमेवेदमिच्छत्ति, ज्ञानात्मकत्वादस्य, वचनक्रिये तु तत्कार्यत्वात्तदायत्तत्वान्नेच्छति, गुणभूते चेच्छति इति गाथार्थः । उक्तो ज्ञाननयः, अधुना क्रियानयावसरः, तद्दर्शनं चेदम्-क्रियैव प्रधानं, ऐहिकामुष्मिकफलप्राप्तिकारणं, युक्तियुक्तत्वात् तथा चायमप्युक्तलक्षणामेव स्वपक्षसिद्धये गाथामाह
नायंमि गिहियव्वे अगिहियव्वंमि चेव अत्यंमि ।
जयव्वमेव इह जो उवएसो सो नओ नामं ॥
अस्याः क्रियानयदर्शनानुसारेण व्याख्या- ज्ञाते ग्रहीतव्ये अग्रहीतव्ये चैव अर्थे ऐहिकामुष्मिकफलप्राप्त्यर्थिना यतितव्यमेव, न यस्मात्प्रवृत्त्यादिलक्षणप्रयत्नव्यतिरेकेण ज्ञानवतोऽप्यभिलषितार्थावाप्तिर्दश्यते, तथा चान्यैरप्युक्तम्
"क्रियैय फलदा पुंसां, न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात्सुखितो भवेत् ॥"
तथाऽऽमुष्मिक फल प्राप्तयर्थिनाऽपि क्रियैव कर्त्तव्या, तथा च मौनीन्द्रप्रवचनमप्येवमेव व्यवस्थितम्, यत उक्तम्
"चेइयकुलगणसंघे आयरियाणंच पवयणसुएय । सव्वेसुवि तेन कयं तवसंजममुज्जमंतेणं ॥ "
इतश्चैतदेवमङ्गीकर्त्तव्यम्, यस्मार्तीर्थकरगणधरैः क्रियाविकलाना ज्ञानमपि विफलमेवोक्तं,
तथा चागम:
"सुबहुपि सुयमहीयं किं काही चरणविप्पमुक्कस्स ? | अंधस्स जह पलित्ता दीवसयसहस्सकोडीवि ॥१॥"
दृशिक्रियाविकलत्वात्तस्येत्यभिप्रायः । एवं तावत्क्षायोपशमिकं चारित्रमङ्गीकृत्योक्तम्, चारित्रं क्रियेत्यनर्थान्तरम्, क्षायिकमप्यङ्गीकृत्य प्रकृष्टफलसाधकत्वं तस्यैव विज्ञेयम्, यस्मादर्हतोऽपि भगवतः समुत्पन्नकेवलज्ञानस्यापि न तावन्मुक्त्यवाप्तिः संजायते, यस्मा (याव ) दखिलकर्मेन्धनानलभूता ह्रस्वपञ्चाक्षरोच्चारणमात्रकालावस्थायिनी सर्वसंवररूपा चारित्रक्रिया नावासेति, तस्मात्क्रियैव प्रधानमैहिकामुष्मिकफलप्राप्ति कारणमिति स्थितम्। ' इति जो उवएसो सो नओ नाम 'त्ति 'इति' एवमुक्तेन न्यायेन य उपदेशः किम् ? - क्रियाप्राधान्यख्यापनपरः स नयो नाम - क्रियानय इत्यर्थः । अयं च ज्ञानवचनक्रियारूपेऽस्मिन्नध्ययने क्रियारूपमेवेदमिच्छति, तदात्मकत्वादस्य, ज्ञानवचने तु तदर्थमुपादीयमानत्वादप्रधानत्वान्नेच्छति गुणभूते चेच्छतीति गाथार्थः ॥ उक्तः क्रियानयः, इत्थं ज्ञाननयाक्रियानयस्वरूपं श्रुत्वाऽविदिततदभिप्रायो विनेयः संशयापन्नः सन्नाह-किमत्र तत्त्वं ?, पक्षद्वयेऽपि युक्तिसंभवाद्, आचार्यः पुनराह - अथवा ज्ञानक्रियानयमतं प्रत्येकमभिधायाधुना स्थितपक्षमुपदर्शयन् पुनराहसव्वेसिंपि नयाणं बहुविहवत्तव्वयं निसामेत्ता ।
नि. [१५१]
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org