________________
७५
अध्ययनं-२, उद्देशकः- [नि.१५४] निक्षेपश्चतुर्विधो भवति, आनुपूर्व्या' नामादिक्रमेण, नामस्थापने पूर्ववत्, द्रव्य श्रमणो द्विधा
आगमतो नोआगमतश्च, आगमतो ज्ञाताऽनुपयुक्तः, नोआगमतस्तु ज्ञशरीरभव्यशरीरतद्व्यतिरिक्तोऽभिलापभेदेनद्रुमवदवसेयः,तंचानेनोपलक्षयति-'दव्वे सरीरभविउति। भावश्रमणोऽपि द्विविध एव-आगमतो ज्ञातोपयुक्त: नोआगमतस्तुचारित्रपरिणामवान् यतिः, तथा चाह-भावतस्तु संयतः श्रमण इतिगाथार्थः।। अस्यैव स्वरूपमाह-- नि.[१५५] जह मम न पियं दुक्खं जाणिय एमेव सव्वजीवाणं!
नहणइन हणावेइ यसममणई तेन सो समणो। वृ.यथा ममन प्रियं दुःखं, प्रतिकूलत्वात्, ज्ञात्वैवमेव सर्वजीवानां, दुःखप्रतिकूलत्वम्, न हन्ति स्वयं न घातयत्यन्यैः, चशब्दाद घन्तंच नानुमन्यतेऽन्यम्, इत्यनेन प्रकारेण समम् अणतितुल्यं गच्छति यतस्तेनासौ श्रमण इति गाथार्थः ।। नि.[१५६] नत्थिय सि कोइ वेसो पिओ व सव्वेसुचेव जीवेसु।
एएण होइ समणो एसो अन्नोऽवि पज्जाओ।। वृ. नास्ति च 'सि' तस्य कश्चिद् द्वेष्यः प्रियो वा सर्वेष्वेव जीवेषु, तुल्यमनस्त्वात्, एतेन भवति सममनाः, समं मनोऽस्येति सममनाः, एषोऽन्योऽपि पर्याय इति गाथार्थः॥ नि.[१५७] तो समणो जइ सुमणो भावेन यजइ न होई पावमणो।
सयणे यजणे यसमो समो यमानावमानेसु॥ वृ.ततः श्रमणो यदि सुमनाः, द्रव्यमनः प्रतीत्य, भावेन च यदि न भवति पापमनाः, एतत्फलमेव दर्शयति-स्वजने च जने च समः, समश्च मानापमानयोरिति गाथार्थः । नि.[१५८] उरगगिरिजलणसागरनहयलतरुगणसमो यजो होई।
___ भमरमिगधरणिजलरुहरविपवणसमोजओ समणो। वृ.उरगसमः परकृतबिलनिवासित्वादाहारनास्वादनात्संयमैदृष्टित्वाच्च, गिरिसमः परीषह-. पवनाकम्प्यत्वात, ज्वलनसमः तपस्तेजः प्रधानत्वात तणादिष्विव सूत्रार्थेष्वतृप्तेः एषणीयाशनादौ चाविशेषप्रवृत्तिरिति, सागरसमो गम्भीरत्वाज्ज्ञानादिरत्नाकरत्वात् स्वमर्यादा-नतिक्रमाच्च, नभस्तलसमः सर्वत्र निरालम्बनत्वात्, तरुगणसम: अपवर्गफलार्थिसत्त्वशकुनालयत्वात् वासीचन्दनकल्पत्वाच्च, भ्रमरसमः अनियतवृत्तित्वात्, मृगसमः संसारभयोद्विग्नत्वात्, धरणिसमः सर्वखेदसहिष्णुत्वात्, जलरुहसम: कामभोगोद्भवत्वेऽपि पङ्कजलाभ्यामिव तदूर्ध्ववृत्तेः, रविसमः धर्मास्तिकायादिलोकमधिकृत्य विशेषेण प्रकाशकत्वात्, पवनसमः अप्रतिबद्धहारित्वात्, इत्थमुरगादिसमश्च यतो भवति ततः श्रमण इति गाथार्थः ।। प्र.[२] विसतिणिसवायवंजुलकणियारुप्पलसमेण समणेणं। .
भमरुदुरुनडकुक्कुङअद्दागसमेण होयव्वं॥ वृ. श्रमणेन विषसमेन भवित्व्यं भावतः सर्वरसानुपातित्वमधिकृत्य, तथा तिनिशसमेन मानपरित्यागतो नपेण, वातसमेनेति पूर्ववत्, वझुलो-वेतसस्तत्समेन क्रोधादिविषाभिभूतजीवानां तदपनयनेन, एवं हि श्रूयते-किल वेतसमवाप्य निर्विषा भवन्ति सर्पा इति, कर्णिकारसमेनेति तत्पुष्पवत्प्रकटेन अशुचिगन्धापेक्षया च निर्गन्धेनेति, उत्पलसदृशेन प्रकृति-धवलतया सुगन्धि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org