________________
अध्ययनं -१, उद्देशक: [नि. १३६ ]
-
Jain Education International
६७
धारेंति बंभचेर संजमयंति कसाए य ॥
वृ. कायं वाचं मनश्चेन्द्रियाणि च पञ्च दमयन्ति, तत्र कायेन सुसमाहितपाणिपादास्तिष्ठन्ति गच्छन्ति वा, वाचा निष्प्रयोजनं न ब्रुवते प्रयोजनेऽप्यालोच्य सत्त्वानुपरोधेन, मनसा अकुशलमनोनिरोधं कुशलमनउदीरणं च कुर्वन्ति, इन्द्रियाणि पञ्च दमयन्ति इष्टानिष्टविषयेषु रागद्वेषाकरणेन, पञ्चेति साङ्ख्यपरिकल्पितैकादशेन्द्रियव्यच्छेदार्थम्, तथा च वाक्पाणिपादपायूपस्थमनांसीन्द्रियाणि तेषामिति धारयन्ति ब्रह्मचर्यं सकलगुप्तिपरिपालनात्, तथा संयमयन्ति कषायाँश्च अनुदयेनोदयविफलीकरणेन चेति गाथार्थः ॥ जं च तवे उज्जुत्ता तेनेसि साहुलक्खणं पुत्र । तो साहुणोति भणति साहवो निगमनं चेयं ॥
नि. [१३७]
'वृ. यच्च 'तपसि' प्राग्वर्णितस्वरूपे, किम् ? - 'उद्युक्ता' उद्यताः तेन कारणेनैषां साधुलक्षणं 'पूर्णम्' अविकलम्, कथम् ? - अनेन प्रकारेण साधयन्त्यपवर्गमिति साधवः, यत-श्चैवं ततः साधव एव भण्यन्ते साधवो, न चरकादय इति, निगमनं चैतदिति गाथार्थः ॥ इत्थमुक्तं दशावयवम्, प्रयोगं त्वेवं वृद्धा दर्शयन्ति अहिंसादिलक्षणधर्मसाधकाः साधव एव, स्थावरजङ्गमभूतोपराधपरिहारित्वात् तदन्यैवंविधपुरुषवत्, विपक्षो दिगम्बरभिक्षुभौतादिवत् इह ये स्थावरजङ्गमभूतौपरोधपरिहारिणस्ते उभयप्रसिद्धैवंविधपुरुषवदहिंसादिलक्षणधर्मसाधका दृष्टा:, तथा च साधवः स्थावरजङ्गमभूतोपरोधपरिहारित्वात्तेऽहिंसादिलक्षणधर्मसाधकाः साधव एवेति निगमनम्, पक्षादिशुद्धयस्तु निदर्शिता एवेति न प्रतन्यन्ते ।। एवमर्थाधिकारद्वयवशात् पञ्चावयवदशावयावाभ्यां वाक्याभ्यां व्याख्यातमध्ययनमिदम्, इदानीं भूयोऽपि भङ्गयन्तरभाजा दशावयवेनैव वाक्येन सर्वमध्ययनं व्याचष्टे निर्युक्तिकारः
नि. [१३८ ] ते उइति विभत्ती विवक्खपडिसेहो ।
दितो आसंका तप्पडिसेहो निगमनं च ॥
वृ. ते इति अवयवाः, तुः पुनः शब्दार्थः, तु पुनरमी प्रतिज्ञादयः तत्र प्रतिज्ञानं प्रतिज्ञावक्ष्यमाणस्वरूपेत्येकोऽवयवः, तथा विभजनं विभक्तिः तस्या विषयविभागकथनमिति द्वितीयः, तथा हिनोतिगमयति जिज्ञासितधर्मविशिष्टानर्थानिति हेतुस्तृतीयः, तथा विभजनं विभक्तिरिति पूर्ववच्चतुर्थ:, तथा विसदृशः पक्षो विपक्षः साध्यादिविपर्यय इति पञ्चमः, तथा प्रतिषेधनं प्रतिषेधः विपक्षस्येति गम्यते इत्ययं षष्ठः, तथा दृष्टमर्थमन्तं नयतीति दृष्टान्त इति सप्तम:, तथा आशङ्का प्रतिषेध इति नवमः, तथा निश्चितं गमनं निगमनं निश्चितोऽवसाय इति दशमः, , चशब्द उक्तमुच्चयार्थ इति गाथासमासार्थः ॥ व्यासार्थं तु प्रत्यवयवं वक्ष्यति ग्रन्थकार एव, तथा चाहनि. [१३९] धम्मो मंगलमुक्तिट्ठति पइन्ना अत्तवयणनिद्देसो ।
सो य इहेव जिनमए नत्रत्थ पइन्नपविभत्ति ॥
वृ . ' धर्मो मङ्गलमुत्कृष्ट' मिति पूर्ववत् इयं प्रतिज्ञा, आह--केयं प्रतिज्ञेति ?, उच्यते, 'आप्तवचननिर्देश' इति तत्रासः - अप्रतारकः, अप्रतारकश्चाशेषरागादिक्षयाद्भवति, उक्तं च"आगमो ह्याप्तवचनमाप्तं दोषक्षयाद्विदुः ।
वीतरागोऽनृतं वाक्यं, न ब्रूयाद्धेत्वसंभवात्॥"
For Private & Personal Use Only
www.jainelibrary.org