________________
६८
दशवैकालिक-मूलसूत्र-१/-/५ तस्यवचनम् आसवचनंतस्यनिर्देशआप्तवचननिर्देशः, आह-अयमागम इति, उच्यते, विप्रतिपन्नसंप्रतिपत्तिनिबन्धनत्वेनैष एव प्रतिज्ञेति नदोषः, पाठान्तरंवा साध्यवचननिर्देश इति, साध्यत इतिसाध्यम् उच्यतइतिवचनम्-अर्थ: यस्मात्सएवोच्यते, साध्यंचतद्वचनंचसाध्यवचनंसाध्यार्थ इत्यर्थः, तस्य निर्देश: प्रतिज्ञेति, उक्तः प्रथमोऽवयवः, अधुना द्वितीय उच्यते-सच-अधिकृतो धर्मः किम् ?-'इहैव जिनमते' अस्मिन्नैव मौनीन्द्रे प्रवचने 'नान्यत्र' कपिलादिमतेषु, तथाहिप्रत्यक्षतएवोपलभ्यन्तेवस्त्राद्यपूतप्रभूतोदकाधुपभोगेषुपरिवाट्प्रभृतयः प्राण्युपमर्दकुर्वाणाः, ततश्च कुतस्तेषु धर्मः?, इत्याद्यत्र बहुवक्तव्यं तत्तु नोच्यते, ग्रन्थविस्तरभया भावितत्वाच्चेति। प्रतिज्ञाप्रविभक्तिरियं-प्रतिज्ञाविषयविभागकथनमितिगाथार्थः।।
उक्तो द्वितीयोऽवयवः, अधुना तृतीय उच्यते-तत्र नि.[१४०] सूरपूइओत्ति हेऊ धम्मट्ठाणे ठिया उजं परमे।
हेउविभत्ति निरुवहिं जियाण अवहेण य जियंति॥ वृ.सुरा-देवास्तैः पूजितः सुरपूजितः, सुरग्रहणमिन्द्राधुपलक्षणम्, इतिशब्द उपप्रदर्शने, कोऽयम्? - 'हेतुः' पूर्ववत्, हेत्वर्थसूचकं चेदं वाक्यम्, हेतुस्तु सुरेन्द्रादिपूजितत्वादिति द्रष्टव्यः, अस्यैव सिद्धतां दर्शयति-'धर्मः पूर्ववत् तिष्ठत्यस्मिन्निति स्थानम्, धर्मश्चासौ स्थानंच धर्मस्थानम्, स्थानम्-आलयः, तस्मिन् स्थिताः, तुरयमेवकारार्थः, स चावधारणे, अयं चोपरिष्टात् क्रियया सहयोक्ष्यते, 'यद्' यस्मात्, किंभूते धर्मस्थाने?-'परमे' प्रधाने, किम्?-सुरेन्द्रादिभिः पूज्यन्त एवेति वाक्यशेषः, इतितृतीयोऽवयवः, अधुना चतुर्थ उच्यते-हेतुविभक्तिरियम-हेतु-विषयविभागकथनम्, अथक एते धर्मस्थाने स्थिता इत्यत्राह-'निरुपधयः' उपधिः छद्म मायेत्यन
र्थान्तरम्, अयंचक्रोधाधुपलक्षणम्, ततश्च निर्गता उपध्यादयः सर्वएवकषाया येभ्यस्ते निरुपधयोनिष्कषायाः, 'जीवानां' पृथ्वीकायादीनाम् 'अवधेन' अपीडया, चशब्दात्तपश्चरणा-दिना च हेतुभूतेन 'जीवन्ति' प्राणान् धारयन्ति ये त एव धर्मस्थाने स्थिताः, नान्य इति गाथार्थः ।।
उक्त-श्चतुर्थोऽवयवः, अधुना पञ्चममभिधित्सुराहनि.१४१] जिनवयणपदुद्वेविहुससुराईए अधममरुइणोऽवि।
मंगलबुद्धीइ जनोपणमइआईदुयविवक्खो।। वृ.इह विपक्षः पञ्चम इत्युक्तम्, स चायम्-प्रतिज्ञाविभक्त्योरिति, जिनाःतीर्थकरा: तेषां वचनम्आगमलक्षणं तस्मिन् प्रद्विष्टा-अप्रीता इति समासस्तान्, अपिशब्दादप्रद्विष्टानपि, हुइत्ययं निपातोऽवधारणार्थः अस्थानप्रयुक्तश्च, स्थानं तु दर्शयिष्यामः, श्वसुरादीन्' श्वसुरो-लोकप्रसिद्धः, आदिशब्दात्यिपत्रादिपरिग्रहः, न विद्यते धर्मे रुचिर्येषां तेऽधर्मरुचयस्तान्, अपिशब्दाद्धर्मरुचीनपि, किम्?- 'मङ्गलबुद्धया' मङ्गलप्रधानयाधिया, मङ्गलबुद्धयैव नामङ्गल-बुद्धयेत्येवमवधारणस्थानम्, किम्?-'जनो' लोकः, प्रकर्षेण नमति प्रणमति, आद्यद्वयविपक्ष' इति अाद्यद्वयं प्रतिज्ञा तच्छुद्धिश्च तस्य विपक्षः साध्यादिविपर्यय इति आद्यद्वयविपक्षः, तत्राधर्मरुचीनपि मङ्गलबुद्धया जनः प्रणमतीत्यनेन प्रतिज्ञाविपक्षमाह, तेषामधर्माव्यतिरेकात्, जिनवचनप्रद्विष्टानपीत्यमेन तु तच्छुद्धः, तत्रापि हेतुप्रयोगप्रवृत्त्या धर्मसिद्धेरिति गाथार्थः ।।
नि.[१४२ बिइयदुयस्स विवक्खो सुरेहिं पूज्जति जनजाईवि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org