________________
६६
दशवैकालिक-मूलसूत्र-१/-/५ नाना चासौ पिश्च नानापिण्डः, अन्तप्रान्तादिर्वा, तस्मिन् रता-अनुद्वेगवन्तः, 'दान्ता' इन्द्रियदमनेन, अनयोश्च स्वरूपमधस्तपसि प्रतिपादितमेव, अत्र चोपन्यस्तगाथाचरम-दलस्यावसर: 'दान्ता' इति पुनः पदे सौत्रे, किम्?-ज्ञातव्यो वाक्यशेषोऽयमिति गाथार्थः ।।
किविशिष्टो वाक्यशेषः?, दान्ता ईर्यादिसमिताश्च। तथा चाहनि.[१३१] जह इत्थ चेव इरियाइएसुसव्वंमि दिक्खियपयारे।
तसथावरभूयहियं जयंतिसब्भावियंसाहू।। वृ.यथा 'अत्रैव' अधिकृताध्ययने भ्रमरोपमयैषणासमितौ यतन्ते, तथा ईर्यादिष्वपि तथा सर्वस्मिन् 'दीक्षितप्रचारे' साध्वाचरितव्य इत्यर्थः, किम्?-त्रसस्थावरभूतहितं यतन्ते साभाविकं' पारमार्थिकं साधव इति गाथार्थः॥
अन्ये पुनरिदं गाथादलं निगमने व्याख्यानयन्ति, न च तदतिचारु, यत आहनि.[१३२] उवसंहारविसुद्धि एस समत्ता उनिगमनं तेनं।
वुच्चंति साहणोत्ति (य) जेणं तेमहयरसमाणा॥ वृ.उपसंहारविशुद्धिरेषा समाप्तातु, अधुना निगमनावसरः, तच्च सौत्रमुपदर्शयति'निगमनमिति' द्वारपरामर्शः, तेनोच्यन्ते साधव इति, येन प्रकारेण ते मधुकरसमाना-उक्तन्यायेन भ्रमरतुल्या इति गाथार्थः॥ निगमनार्थमेव स्पष्टयति नि.[१३३] तम्हादयाइगुणसुट्ठिएहि भमरोव्व अवहवित्तीहिं।
साहूहिंसाहिउत्ति उकिट्ठमंगलं धम्मो। वृ.तस्माद्दयादिगुणसुस्थितैः, आदिशब्दात् सत्यादिपरिग्रहः, भ्रमरइवावधवृत्तिभिः, कै:?साधुभिः 'साधितो' निष्पादितः, 'उत्कृष्टं मङ्गलम्' प्रधानं मङ्गलं 'धर्मः' प्राग्निरूपितशब्दार्थ इति गाथार्थः । इदानीं निगमनविशुद्धिमभिधातुकाम आहनि.[१३४] निगमनसुद्धी तित्थंतराविधम्मत्थमुज्जया विहरे।
भण्णइकायाणं तेजयणं नमुणंतिन करेंति॥ वृ.निगमनशुद्धिः प्रतिपाद्यते, अत्राह-'तीर्थान्तरीया अपि' चरकपरिव्राजकादयः, किम्?'धर्मार्थ धर्माय 'उद्यता' उद्युक्ता विहरन्ति, अतस्तेऽपि साधवः एवेत्यभिप्रायः । भण्यतेऽत्र प्रतिवचनम्, 'कायानां' पृथिव्यादीनां 'ते' चरकादयः, किम्?-यतनां-प्रयत्नकरणलक्षणां न मन्यन्ते(मुणन्ति) न जानन्तिनमन्वते वा तथाविधागमाश्रवणात्, न कुर्वन्ति, परिज्ञानाभावात्, भावितमेवेदमधस्तादिति गाथार्थः॥किंचनि.[१३५] नय उग्गमाइसुद्धं भुंजती महुयरा वऽनुवरोही।
नेवय तिगुत्तिगुत्ता जह साहू निच्चकालंपि॥ वृ. न चोद्नमादिशुद्धं मुञ्जते, आदिशब्दादुत्पादनादिपरिग्रहः, 'मधुकरा इव' भ्रमरा इव सत्त्वानामनुपरोधिन: सन्तो, नैव च त्रिगुप्तिगुप्ताः, यथा साधवो नित्यकालमपि, एतदुक्तं भवतियथा साधवो नित्यकालं त्रिगुप्तिगुप्ता एवं ते न कदाचिदपि, तत्परिज्ञानशून्यत्वात्, तस्मान्नैते साधव इति गाथार्थः ॥ साधव एव तु साधवः, कथम्?, यतः
नि.१३६] कायं वायं च मनं च इंदियाइंच पंच दमयंति
'माह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org