________________
अध्ययनं -१, उद्देशक:- [नि. १२५
मू. (५)
महुगारसमा बुद्धा, जे भवंति अनिस्सिया । नानापिंडरया दंता, तेन वुच्चंति साहुणो ॥ तिबेमि
वृ. 'मधुकरसमा' भ्रमरतुल्याः बुध्यन्ते स्म वृद्धा-अधिगततत्त्वा इत्यर्थः, क एवंभूता - इत्यत आह-ये भवन्ति भ्रमन्ति वा 'अनिश्रिता: ' कुलादिष्वप्रतिबद्धा इत्यर्थः, अत्राहअस्संजएहिं भमरेहिं जइ समा संजया खलु भवंति । एवं (यं) उवमं किच्चा नूनं अस्संजया समणा ।।
नि. [१२६]
साधवः,
वृ. 'असंयतैः' कुतश्चिदप्ययनिवृत्तैः, 'भ्रमरैः' षट्पदैः यदि 'समाः ' तुल्याः 'संयताः ' , खल्विति समा एव भवन्ति, ततश्चासंज्ञिनोऽपि ते, अत एवैनामित्थंप्रकारामुपमां कृत्वा इदमापद्यते-नूनमसंयता; श्रमणा इति गाथार्थः ॥ एवमुक्ते सत्याहाचार्य:- एतच्चायुक्तं, सूत्रोक्तविशेषणतिरस्कृतत्वात्, तथा च बुद्धग्रहणादसंज्ञिनो व्यवच्छेदः, अनिश्रितग्रहणाच्चासंयतत्वस्येति । नियुक्तिकारस्त्वाहनि. [१२७]
उवमा खलु एस कया पुव्वुत्ता देसलक्खणोवणया । अनिययवित्तिनिमित्तं अहिस अनुपालणट्ठाए ॥
६५
वृ- व्याख्या- उपमा खलु एषा' मधुकरसमेत्वादिरूपा कृता 'पूर्वोक्तात्' पूर्वोक्तेन 'देशलक्षणोपनयाद' देशलक्षणोपनयेन, यथा चन्द्रमुखी कन्येति, तृतीयार्थ चेहपञ्चमी, इयं चानियतवृत्तिनिमित्तं कृता, अहिंसानुपालनार्थम्, इंदं च भावय (यिष्य) त्येवेति गाथार्थः ॥
नि. [१२८]
जह दुमगणा उ तह नगरजणवया पयणपायणसहावा । भमरा तह मुणिणो वरि अदत्तं न भुंजंति ॥
वृ. यथा' द्रुमगणा:' वृक्षसङ्घाता: स्वभावत एव पुष्पफलनस्वभावाः तथैव 'नगरजनपदा' नगरादिलोकाः स्वयमेव पचनपांचनस्वभावा वर्तन्ते, यथा भ्रमरा इति, भावार्थं वक्ष्यति, तथा मुनयो नवरम- एतावान्विशेषः - अदत्तं स्वामिभिर्न भुञ्जन्त इति गाथार्थः । अमुमेवार्थं स्पष्टयतिनि. [१२९] कुसुमे सहावफुल्ले आहारंति भमरा जह तहा उ ।
भत्तं सहावसिद्धं समणसुविहिया गवेसंति ॥
वृ. 'कुसुमे' पुष्पे 'स्वभावफुल्ले' प्रकृतिविकसिते 'आहारयन्ति' कुमुमरसं पिबन्ति 'भ्रमरा' मधुकरा 'यथा' येन प्रकारेण कुसुमपीडामनुत्पादयन्तः 'तथा' तेनैव प्रकारेण 'भक्तम्' ओदनादि 'स्वभावसिद्धम्' आत्मार्थं कृतम् उद्मादिदोषरहितम् इत्यर्थः, श्रमणाश्च ते सुविहिताश्च श्रमणसुविहिताः - शोभनानुष्ठानवन्त इत्यर्थः 'गवेषयन्ति' अन्वेषयन्तीति गाथार्थः ॥ साम्प्रतं पूर्वोक्तो यो दोष: मधुकरसमा इत्यत्र तत्परिजिहीर्षयैव यावतोपसंहारः क्रियते तदुपदर्शयन्नाहनि. [१३०] उवसंहारो भमरा जह तह समणावि अवहजीवित्ति ।
दंतत्ति पुण पयंमी नायव्वं वक्कसेसमिणं ॥
वृ. 'उपसंहार' उपनयः, भ्रमरा यथा अवधजीविनः तथा ' श्रमणा अपि' साधवोऽप्येतावतैवांशेनेति गाथादलार्थः ॥ इतश्च भ्रमरसाधूनां नानात्वमवसेयं, यत आह सूत्रकारः 'नानापिण्डरया दन्ता' इति नाना- अनेकप्रकारोऽभिग्रहविशेषात्प्रतिगृहमल्पाल्पग्रहणाश्च पिण्डआहारपिण्डः,
27/5
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org