________________
-
-
-
-
दशवैकालिक-मूलसूत्र-१/-/३ पगम्यन्ते, "सर्वे भावा निरात्मानः' इत्यादिवचनाद्, अतः, पुद्गलानां परमार्थसद्रुपता-ख्यापनार्थ द्रव्यग्रहणम्, वाशब्दो विकल्पवाची, पुद्गलद्रव्याणी वा संसारिणो वा जीवा विहङ्गमा इति। तत्र जीवान्धिकृत्यान्वर्थो निदर्शितः, पुद्गलास्तु विहं गच्छन्तीति विहङ्गमाः, तच्च गमन-मेषां स्वतः परतश्च संभवति, अत्र स्वतः परिगृह्यते, विहङ्गमा इति च प्राकृतशैल्या जीवापेक्षया वोक्तम्, अन्यथा द्रव्यपक्षे विहङ्गमानीति वक्तव्यम्, एष भावविहङ्गमः, कथम्?-'गुणसिद्ध्या' अन्वर्थसम्बन्धेन, प्राकृतशैल्या वाऽन्यथोपन्यास इति गाथार्थः ।। एवं गुणसिद्धया भावविहङ्गम उक्तः, साम्प्रतं संज्ञासिद्धया अभिधातुकाम आहनि.१२३] सन्नासिद्धि पप्पा विहंगमा होति पक्खिणो सव्वे।
इहई पुन अहिगारो विहासगमनेहि भमरेहिं।। वृ.संज्ञानं संज्ञा नाम रूढिरिति पर्यायाः तया सिद्धिः संज्ञासिद्धिः, संज्ञासम्बन्ध इतियावत्, तां संज्ञासिद्धि प्राप्य' आश्रित्य, किम्?-विहे गच्छन्तीति विहङ्गमा भवन्ति, के?-पक्षा येषां सन्ति ते पक्षिणः, 'सर्वे' समस्ता हंसादय, पुदगलादीनां विहङ्गमत्वे सत्यप्यमीषामेव लोके प्रतीतत्वात्, इत्थमनेकप्रकारं विहङ्गममभिधाय प्रकृतोपयोगमुपदर्शयति इह' सूत्रे, पुनःशब्दोऽवधारगे, इहैव नान्यत्र अधिकार:' प्रस्ताव: प्रयोजनम्, कैरित्याह-विहायोगमनैः' आकाशगमनैः 'भ्रमरैः' षट्पदैरिति गाथार्थः । नि.[१२४] दानेति दत्तगिण्हण भत्ते सेवफासुगेण्हणया।
एसणतिगंमि निरया उवसंहारस्स सुद्धिइमा ।। वृ. 'दानेति' सूत्रे दानग्रहणं दत्तग्रहणप्रतिपादनार्थम्, दत्तमेव गृह्यन्ति, नादत्तम्, 'भक्त' इति भक्तग्रहणं 'भज सेवायाम्' इत्यस्य निष्ठान्तस्य भवति, अर्थश्चास्य प्रासुकग्रहणं, प्रासुकम्आघाकर्मादिरहितं गृह्यन्ति, नेतरदिति, एसण त्ति एषणाग्रहणम्, 'एषणात्रितये' गवेषणादिलक्षणे 'निरताः' सक्ताः, उपसंहारस्य-उपनयस्य शुद्धिः 'इयं' वक्ष्यमाणलक्षणेति गाथार्थः ।। नि.[१२५] अविभमरमहुयरिंगणा अविदिन्नं आवियंति कुसुमरसं।
समणा पुण भगवंतो नादिनं भोतुमिच्छति।। वृ.अपि भ्रमरमधुकरीगणा, मधुकरीग्रहणमिहापिस्त्रीसंग्रहार्थं, जातिसंग्रहार्थमिति चान्ये, अविदत्तं सन्तं किम्?-आपिबन्ति 'कुसुमरसं' कुसुमासवम्, श्रमणाः पुनर्भगवन्तो नादत्तं भोक्तु मिच्छन्तीति विशेष इति गाथार्थः ।। साम्प्रतं सूत्रेणैवोपसंहारविशुद्धिरुच्यते-कश्चिदाह'दाणभत्तेसणे रया' इत्युक्तम्, यत एवमत एवलोको भक्त्याकृष्टमानसस्तेभ्यः प्रयच्छ-त्याधाकर्मादि, अस्य ग्रहणे सत्त्वोपरोधः, अग्रहणे स्ववृत्त्यलाभ इति, अत्रोच्यते-- मू.(४) वयं च वित्ति लब्भामो, न य कोइ उवहम्मइ।
अहागडेसु रीयंते, पुप्फेसु भमय जहा।। वृ.वयंच वृत्तिं लप्स्यामः' प्राप्स्यामः तथा यथान कश्चिदुपहन्यते, वर्तमानैष्यत्कालोपन्यासस्त्रैकालिकन्यायप्रदर्शनार्थः, तथा चैते साधवः सर्वकालमेव 'यथाकृतेषु' आत्मार्थमभिनिर्वर्तितेष्वाहारदिषु 'रीयन्ते' गच्छन्ति, वर्तन्ते इत्यर्थः, पुष्पेषु भ्रमरा यथा' इति, एतश्च पूर्व भावितमेवेति सूत्रार्थः ॥ यतश्चैवमतो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org