________________
अध्ययनं -१, उद्देशक : - [ नि. १२०]
६३
भावगतिः पूर्ववत्तां प्राप्य - अभ्युपगम्याश्रित्य, किम् ? 'अस्तिकायास्तु' धर्मादयः, तुशब्द एवकारार्थः, स चावधारणे, तस्य च व्यवहितः प्रयोगः, भावगतिभेव प्राप्य न पुनः कर्मगतिं, 'सर्वे विहङ्गमाः खलु' सर्वे - चत्वारः नाकाशमाधारत्वात्, 'विहङ्गमा इति' विहं गच्छन्त्य - वतिष्ठन्ते स्वसत्तां बिभ्रतीति विहङ्गमाः, खलुशब्दोऽवधारणे, विहङ्गमा एव, न कदाचित्र विहङ्गमा इति । 'कर्मगते : ' प्राग्निरूपितशब्दार्थायाः, किम् ? - 'इमौ भेदौ' वक्ष्यमाणलक्षणाविति गाथार्थः ।। तावेवोपदर्शयन्नाह
नि. [१२१]
विहगगई चलणगई कम्मगई उसमासओ दुविहा । तदुदयवेययजीवा विहंगमा पप्प विहगगई ।
वृ. इह गम्यते ऽनया नामकर्मान्तर्गतया प्रकृत्या प्राणिभिरिति गतिः, विहायसि - आकाशे गतिर्विहायोगतिः, कर्मप्रकृतिरित्यर्थः, तथा चलनगतिरिति, चलिरयं परिस्पन्दने - वर्त्तते, चलनं स्पन्दमित्येकोऽर्थः, चलनं च तद्रतिश्च सा चलनगतिः --गमनक्रियेति भावः । कर्मगतिस्तु समासतो द्विविधेत्यत्र तुशब्द एवकारार्थः, स चावधारणे कर्मगतिरेव द्विविधा न भावगतिः, तस्या एकरूपत्वेन व्याख्यातत्वात्, तत्र 'तदुदयवेदकजीवा' इति, अत्र तदित्यनेना- न्तरनिर्दिष्टां विहायोगतिं निर्दिशति, तस्या - विहायोगतेः उदयस्तदुदयो विपाक इत्यर्थः, तथा वेदयन्तिनिर्जरयन्ति उपभुञ्जन्तीति वेदका; तदुदयस्य वेदकाश्च ते जीवाश्चेति समासः, आह-तदुदयवेदका 'जीवा एव भवन्तीति विशेषणानर्थक्यम्, न, जीवानां वेदकत्वावेदकत्वयोगेन सफलत्वात्, अवेदकाश्च सिद्धा इति । 'विहङ्गमाः प्राप्य विहायोगति 'मिति, अत्र विहे विहायोगतेरुदयादुगच्छन्तीति विहङ्गमाः, 'प्राप्य' आश्रित्य, किं प्राप्य ? - 'विहायोगितिम् ' विहायोगतिरुक्ता तां विपर्यस्तान्यक्षराण्येवं तु द्रष्टव्यानि विहायोगतिं प्राप्य तदुदयवेदकजीवा विहङ्गमा इति - गाथार्थः ॥ अधुना द्वितीयकर्मगतिभेदमधिकृत्याह
नि. [१२२)
चलनंकम्मगई खलु पडुच्च संसारिणो भवे जीवा । पोग्गलदव्बाई वा विहंगमा एस गुणसिद्धी ॥
वृ. चलनं-स्पन्दनं, तेन कर्मगतिर्विशेष्यते, कथम् ? - चलनाख्या या कर्मगतिः सा चलनकर्मगतिः, एतदुक्तं भवति कर्मशब्देन क्रियाऽभिधीयते, सैव गतिशब्देन सैव चलनशब्देन च । तत्र गतेर्विशेषणं क्रिया क्रियाविशेषणं चलनम्। कुत: ? - व्यभिचाराद्, इह गतिस्तावन्नरकादिका भवति अतः क्रियया विशेष्यते, क्रियाऽप्यनेकरूपा भोजनादिका ततश्चलनेन विशेष्यते, अतश्चलनाख्या कर्मगतिश्चलनकर्मगतिस्ताम्, अनुस्वारोऽलाक्षणिकः, खलुशब्द एवकारार्थः, स चावधारणे, चलनकर्मगतिमेव, न विहायोगतिं, 'प्रतीत्य' आश्रित्य किम् ? - संसरणं संसार:, संसरणं ज्ञानावरणादिकर्मयुक्तानां गमनं, स एषामस्तीति संसारिणः, अनेन सिद्धानां व्युदासः, 'भवे' इति, अयं शब्दो भवेयुरित्यस्यार्थे प्रयुक्तः, 'जीवा' उपयोगादिलक्षणाः । ततश्चायं वाक्यार्थःचलनकर्मगतिमेव प्रतीत्य संसारिणो भवेयुर्जीवा विहङ्गमा इति, विहंगच्छन्ति चलन्ति सर्वैरात्मप्रदेशैरिति विहङ्गमाः ।
तथा 'पुद्गलद्रव्याणि वे' त्यादि, पूरणगलनधर्माण: पुद्रलाः, पुद्रलाश्च ते द्रव्याणि च तानि पुद्रलद्रव्याणि द्रव्यग्रहणं विप्रतिपत्तिनिरासार्थम्, तथा चैते पुद्गलः कैश्चिदद्रव्याः सन्तोऽभ्यु -
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International