SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ६२ दशवैकालिक-मूलसूत्र-१/-/३ यति, गुणश्च संज्ञा च गुणसज्ञे गुण:-अन्वर्थः संज्ञा पारिभाषिकी ताभ्यां सिद्धिः गुणसंज्ञासिद्धिः, सिद्धिशब्दः सम्बन्धवाचकः, तथा च लोकेऽपि “सिद्धर्भवतु" इत्युक्ते इष्टार्थसम्बन्ध एव प्रतीयत इति, तया गुणसंज्ञासिद्धया हेतुभूतया, किम्?-'द्विविधो' द्विप्रकारः, गुणसिद्धयाअन्वर्थसम्बन्धेन तथा संज्ञासिद्धया च-यद्च्छाभिधानयोगेन च। आह-यद्येवं द्विविध इति न वक्तव्यम्, गुणसज्ञासिद्धयेत्यनेनैव द्वैविध्यस्य गतत्वात्, न, अनेनैव प्रकारेणेहद्वैविध्यं, आगमनोआगमादिभेदेन नेति ज्ञापनार्थमिति गाथार्थः ॥ तत्र 'यथोद्देशं निर्देश' इति न्यायमाश्रित्य गुणसिद्धया यो भावविहङ्गमस्मभिधित्सुराहनि.[११९] विहमागासं भण्णइगुणसिद्धि तप्पइट्ठिओ लोगो। तेन उविहङ्गमो सो भावत्थो वा गई दुविहा।। वृ.विजहाति-विमुञ्चति जीवपुद्गलानिति विहं, ते हिस्थितिक्षयात्स्वयमेव तेभ्य आकाशप्रदेशेभ्यश्चयवन्ते, ताँश्च्यवमानान्विमुञ्चतीति, शरीरमपि च मलगण्डोलकादि विमुञ्चत्येव (इति) मा भूत् संदेह इत्यत आह-आकाशं भण्यते, न शरीरादि, संज्ञाशब्दत्वात्, आकाशन्तेदीप्यन्ते स्वधर्मोपेताआत्मादयो यत्र तदाकाशम्, किम्?-संतिष्ठत इत्यादिक्रियाव्यपोहार्थमाह-'भण्यते' आख्यायते, गुणसिद्धिरित्येतत्पदं गाथाभङ्गभयादस्थाने प्रयुक्तम्, संबन्धश्चास्य तेन तु विहंगमः स इत्यत्र तेन त्वित्यनेन सह वेदितव्य इति, ततश्चायं वाक्यार्थः- तेन तुशब्दस्यैवकारार्थत्वेनावधारणार्थत्वाद्येन विहमाकाशं भण्यते तेनैव कारणेन गुणसिद्धया-अन्वर्थसम्बन्धेन विहङ्गमः, कोऽभिधीयत? इत्याह-'तत्प्रतिष्ठितो लोक: तदित्यनेनाकाशपरामर्शः, तस्मिन्नाकाशे प्रतिष्ठितः तत्प्रतिष्ठितः, प्रतिष्ठिलिस्म प्रतिष्ठितः-प्रकर्षण स्थितवानित्यर्थः, अनेन स्थितः स्थास्यति चेति गम्यते, कोऽसावित्थमित्यत आह-'लोकः' लोक्यत इति लोकः, केवल-ज्ञानभास्वता दृश्यत इत्यर्थः, इह धर्मादिपञ्चास्तिकायात्मकत्वेऽपि लोकस्याकाशास्ति-काया-स्याधारत्वेन निदिष्टत्वाच्चात्वारएवास्तिकाया गान्ते, यतो निर्यक्तिकारेणाभ्यधायि-'तत्प्रतिष्ठितो लोक:'. 'विहङ्गमः स' इत्यत्र विहे-नभसि गतो गच्छति गमिष्यति चेति विहङ्गमः, गमिरय-मनेकार्थत्वाद्धातूनामवस्थाने वर्तते, ततश्च विहे स्थितवांस्तिष्ठति स्थास्यति चेति भावार्थः, स इतिचतुरस्तिकायात्मकः, भावार्थ' इति भावश्चासावर्थश्च भावार्थः, अयं भावविहङ्गम इत्यर्थः । उक्त एकेन प्रकारेण भावविहङ्गमः, पुनरपि गुणसिद्धिमन्येन प्रकारेणाभिधातुकाम आह-'वा गतिढिविधे'ति, वाशब्दस्य व्यवहित उपन्यासः, एवं तु दृष्यव्य:-गतिर्वा द्विविधेति, तत्रगमनं गच्छति वाऽनयेति गतिः, द्वे विधे यस्याः सेयं द्विविधा, द्वैविध्यं वक्ष्यमाणलक्षणमिति गाथार्थः ।। तथा चेदमेव द्वैविध्यमुपदर्शयन्नाहनि.१२० भावगई कम्मगई भावगइं पप्प अस्थिकाया उ। सव्वे विहंगमा खलु कम्मगईए इमे भेया।। वृ.भवन्ति भविष्यन्ति भूतवन्तश्चेति भावाः, अथवा भवन्त्येषु स्वगता उत्पादविगमध्रौव्याख्या: परिणामविशेषा इति भावा-अस्तिकायास्तेषां गतिः-तथापरिणामवृत्तिर्भावगतिः, तथा कर्मगतिरित्यत्र क्रियत इति कर्म-ज्ञानावरणादि पारिभाषिकम्, क्रिया वा, कर्म च तद्गतिश्चासौ कर्मगतिः, गमनं गच्छत्यनया वेति गतिः, तत्र 'भावगति प्राप्य अस्तिकाया-स्तु' इति अत्र Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003380
Book TitleAgam Sutra Satik 42 Dashvaikalik MoolSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages284
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 42, & agam_dashvaikalik
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy