________________
दशवैकालिक-मूलसूत्रं-१/-/२ नय रुक्खा सयसाला फुल्लन्ति कए महुयराणं। वृ.वर्षति न तृणस्य कृते, न तृणार्थमित्यर्थः, तथा न तृणं वर्धते कृते मृगकुलानाम्अर्थाय तथा नच वृक्षाः शतशाखा: पुष्यन्ति कृते' अर्थाय मधुकराणाम्, एवं गृहिणोऽपि न साध्वर्थ पाकं निर्वर्तयन्तीत्यभिप्राय इति गाथार्थः । अत्र पुनरप्याहनि.[१०१] अग्गिम्मि हवी हूयइ आइच्चो तेन पीणिओ संतो।
वरिसइपयाहियाए तेनोसहिओ परोहंति॥ वृ.इह यदुक्त'वर्षति न तृणार्थ मित्यादि, तदसाधु, यस्मादग्नौ हविहूयते, आदित्यः 'तेन' हविषा घृतेन प्रीणितः सन वर्षति, किमर्थम् ?-'प्रजाहितार्थ लोकहिताय, 'तेन' वर्षितेन, किम्?, औषध्यः 'प्ररोहन्ति' उद्गच्छन्ति, तथा चोक्तम्
"अग्नावाज्याहुतिः सम्यगादित्यमुपतिष्ठते।
आदित्याज्जायते वृष्टिर्वृष्टेरनं ततः प्रजाः॥" इति गाथार्थः। अधुनैतत्प-रिहारायेदमाहनि.[१०२] कि दुब्भिक्खं जायइ? जइ एवं अह भवे दुरिटुंतु।
कि जायइ सव्वत्था दुन्भिक्खं अह भवे इंदो? ।। नि.[१०३] वासइ तो किं विग्धं निग्धार्याईहिं जायए तस्स।
___ अहवासइ उउसमए नवासई तो तणट्ठाए।। .. वृ.किंदुभिक्षंजायते यद्येवम्?, कोऽभिप्रायः?-तद्धवि: सदाहूयतएव, ततश्च कारणाविच्छेदे न कार्यविच्छेदो युक्त इति, अथ भवेद् 'दुरिष्टं तु' दुर्नक्षत्रं दुर्यजनं वा, अत्राप्युत्तरमकि जायते सर्वत्र दुर्भिक्षं?, नक्षत्रस्य दुरिष्टस्य वा नियतदेशविषयत्वात्, सदैव सद्यज्वनां भावात्, उक्तं च
"सदैव देवाः सद्भवो, ब्राह्मणाश्च क्रियापराः।
यतयः साधवश्चैव, विद्यन्ते स्थितिहेतवः॥" इत्यादि, अथ भवेदिन्द्र इति, किम्?, वर्षति, ततः किं 'विघ्नः' अन्तरायो निर्घातादिभिर्जायते?,आदिशब्दद्दिग्दाहादिपरिग्रहः, तस्य' इन्द्रस्य, परमैश्वर्ययुक्तत्वेन विघ्नानुपपत्तेरिति भावना, अथवर्षति ऋतुसमये गर्भसङ्घात इति वाक्यशेषः, न वर्षति ततस्तृणार्थ, तस्येत्थम्भूतस्याभिसन्धेरभावादिति गाथाद्वयार्थः ॥ किंचनि.[१०४] किंचदुमा पुप्फंति भमराणं कारणाअहासमयं।
मा भमरमहुयरिगणा किलामएज्जा अनाहारा!। वृ.किं चद्रुमाः पुष्प्यन्ति भ्रमराणां 'कारणात्' कारणेन 'यथासमयं' यथाकालं मा भ्रमरमधुकरीगणा: 'क्लामन्' (क्लामिषुः) ग्लानि प्रतिपद्येरन्, 'अनाहारा' अविद्यामानाहाराः सन्तः, काक्वा नैवैतदित्थमिति गाथार्थः॥साम्प्रतं पराभिप्रायमाहनि.[१०५] कस्सइ बुद्धी एसा वित्ती उवकप्पिया पवावइणा।
सत्ताणं तेन दुमा पुप्फंति महुयरिंगणट्ठा। वृ.अथ 'कस्यचिद्बुद्धिः' कस्यचिदभिप्रायः स्याद्यदुत-एषा वृत्तिरुपकल्पिता, केन?प्रजापतिना, केषाम्?- 'सत्त्वानां' प्राणिनां तेन कारणेन द्रुमाः पुष्यन्ति मधुकरीगणार्थमेवेति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org