________________
अध्ययनं -१, उद्देशकः - [नि. ९६ ]
५७
वृ. 'एषा' अनन्तरोक्ता ' हेतुविशुद्धि:' प्राग्निरूपितशब्दार्था, अधुना 'दृष्टान्तः ' प्राग्निरूपितशब्दार्थ:, तथा 'तस्यैव च ' दृष्टान्तस्य विशुद्धिः किम् ? - सूत्रे भणिता, उक्तैव 'स्फुटा' स्पष्टा ॥ तच्चेदं सूत्रम्मू. (२)
"
जहा दुमस्स पुप्फेसु, भमरो आवियइ रसं । न य पुष्पं किलामेई, सो अ पीणेइ अप्पयं ॥
वृ- अत्राह - अथ कस्माद्दशावयवनिरूपणायां प्रतिज्ञादीन् विहाय सूत्रकृता दृष्टान्त एवोक्त इति ? उच्यते, दृष्टान्तादेव हेतुप्रतिज्ञे अभ्यूह्ये इति न्यायप्रदर्शनार्थम्, कृतं प्रसङ्गेन प्रकृतं - प्रस्तुमः । तत्र 'यथा' येन प्रकारेण 'द्रुमस्य' प्राग्निरूपितशब्दार्थस्य 'पुष्पेषु' प्राग्निरूपितशब्दार्थेष्वेव, असमस्तपदाभिधानमनुतये (उपमेये) गृहिद्रुमाणामाहारादिपुष्पाण्यधिकृत्य विशिष्टसंबन्धप्रतिपादनार्थमिति, तथा च अन्यायोपार्जितवित्तदानेऽपि ग्रहणं प्रतिषिद्धमेव, 'भ्रमरः ' चतुरिन्द्रियविशेष:, किम् ? - 'आपिबति' मर्यादया पिबत्यापिवति, किम् ? - रस्यत इति रसस्तं-निर्यासं मकरन्दमित्यर्थः, एष दृष्टान्तः, अयं च तद्देशोदाहरणमधिकृत्य वेदितव्य इति एतच्च सूत्रस्पर्शिक निर्युक्तौ दर्शयिष्यति, उक्तं च ' सूत्रस्पर्शे त्वियमन्ये 'ति । अधुना दृष्टान्तविशुद्धमाह - 'न च' नैव 'पुष्पं' प्राग्निरूपितस्वरूपं 'क्लामयति' पोडयति, 'सच' भ्रमरः 'प्रीणाति' तर्पयत्यात्मानमिति सूत्रसमुदायार्थः ॥
अवयवार्थं तु नियुक्तिकारो महता प्रपञ्चेन व्याख्यास्यति । तथा चाहजह भमरोति य एत्थं दिट्टंतो होइ आहरणदेसे ।
नि. [१९७]
चंदमुहि दारिंगेयं सोमत्तवहारण न सेसं ॥
वृ. यथा भ्रमर इति च 'अत्र' प्रमाणे दृष्टान्तो भवत्युदाहरणदेशमधिकृत्य, यथा चन्द्रमुखी दारिकेयमित्यत्र सौम्यत्वावधारणं गृह्यते, न शेषं-कलङ्काङ्कितत्वानवस्थितत्वादीति गाथार्थः ॥ एवं भमराहरणे अनिययवित्तित्तणं न सेसाणं ।
नि. [१८]
गहणं दिवंतविसुद्धि सुत्त भणिया इमा चना ।।
वृ. एवं भ्रमरोदाहरणे अनियतवृत्तित्त्वं गृह्यत इति शेषः, न 'शेषाणाम्' अविरत्यादीनां भ्रमरधर्माणां ग्रहणं, दृष्टान्त इति । एषा दृष्टान्तविशुद्धिः सूत्रे भणिता, इयं चान्या सूत्रस्पर्शनियुक्तौ एत्थ भणिज्ज कोई समणाणं सुविहियाण । पागोवजीविणो त्तिय लिप्पंतारंभदोसेणं ।।
नि. [१९]
वृ. अत्र चैवं व्यवस्थिते सति ब्रूयात्कश्चिद्यथा - श्रमणानां क्रियते सुविहितानामिति, एतदुक्तं भवति-यदिहं पाकनिर्वर्तनं गृहिभिः क्रियते, इदं पुण्योपादानसंकल्पेन श्रमणानां क्रियते 'सुविहिताना' मिति तपस्विनां गृह्यन्ति च ते ततो भिक्षामित्यतः पाकोपजीविन इति कृत्वा लिप्यन्ते आरम्भदोषेण- आहारकरणक्रियाफलेनेत्यर्थः, तथा च लौकिका अप्याहुः - 'क्रयेण क्रायको हन्ति, उपभोगेन खादकः । घातको वधचित्तेन, इत्येष त्रिविधो वधः ॥ '
इति गाथार्थः ॥ साम्प्रतमेतत्परिहरणाय गुरुराहनि. [१००]
Jain Education International
वासइ न तणस्स कए न तणं वड्ढइ कए मयकुलाणं ।
For Private & Personal Use Only
www.jainelibrary.org