________________
४७
अध्ययनं-१, उद्देशकः - [नि.७९] नि.[७९] केणंति नत्थि आया जेन परोक्खोत्ति तव कुविनाणं।
होइ परोक्खं तम्हा नस्थित्ति निसेहए को नु? || वृ. केनेति' केन हेतुना ? नास्त्यात्मा' न विद्यते जीव इति पृच्छेत्, स चेद् ब्रूयात् 'येन परोक्ष' इति येन प्रत्यक्षेण नोपलभ्यत इत्यर्थः, स च वक्तव्य:- भद्र ! तव 'कुविज्ञानं' जीवास्तित्वनिषेधकध्वनिनिमित्तत्वेन तन्निषेधकं भवति परोक्षम्, अन्यप्रमातृणामिति गम्यते, 'तस्माद् भवदुपन्यस्तयुक्त्या नास्तीति कृत्वा निषेधते को नु?, विवक्षाऽभावे विशिष्टशब्दानुत्पत्तेरिति गाथार्थः ।। उदाहरणदेशता चास्य पूर्ववदिति गतं पृच्छाद्वारम् ।। नि.[८०] अन्नावएसओ नाहियवाई जेसिँ नतिश जीवोउ।
दानाइफलं तेसिन विज्जइ चउह तद्दोसं॥ वृ. 'अन्यापदेशतः' अन्यापदेशेन 'नास्तिकवादी' लोकायतो वक्तव्य इति शेषः, अहो धिक्कष्टं 'येषां' वादिना 'नास्ति जीव एव' न विद्यते आत्मैव 'दानादिफलं तेषां न विद्यते' दानहोमयागतपः समाध्यादिफलं-स्वर्गापवर्गादितेषां-वादिनां न विद्यते-नास्तीत्यर्थः । कदाचित्त एवं श्रुत्वैवं ब्रूयुः-मा भवतु, का नो हानि: ?, 'न ह्यभ्युपगमा एव बाधायै भवन्ती'ती, ततश्च सत्त्ववैचित्र्यान्यथानुपपत्तितस्ते सम्प्रतिपत्तिमानेतव्याः, इत्यलं विस्तरेण, गमनिकाभात्रमेतद्, उदाहरणदेशता चरणकरणानुयोगानुसारेण भावनीयेति। गतं निश्राद्वार, तदन्वाख्यानाश्च तद्देशद्वारम्, अधुना तद्दोषद्वारावयवार्थप्रचिकटयिषयोपन्यासार्थं माथावयवमहा-'चउहतद्दोसं' चतुर्धा तद्दोष-इति उदाहरणदोषः, अनुस्वारस्त्वलाक्षणिकः, अथवोदाहरणेनैव सामानधिकरण्यं, ततश्च तद्दोषमिति तस्योदाहरणस्यैव दोषा यस्मिंस्तत्तद्दोषमिति गाथार्थः । उपन्यस्तं चातुर्विध्यं - नि.[८१] पढमं अहम्मजुतं पडिलोमं अत्तणो उवन्नासं।
दुरुवणियंतु चउत्थं अहम्मजुत्तमि नलदामो॥ वृ. 'प्रथमम्' आद्यम् 'अधर्मयुक्तं' पापसम्बद्धमित्यर्थः, तथा प्रतिलोमं' प्रतिकूलम्, 'आत्मन उपन्यास' इति आत्मन एवोपन्यासः-तथानिवेदनं यस्मिन्निति, 'दुरुपनीतं चेति दुष्टमुपनीतं-निगमितमस्मिन्निति चतुर्थमिदं वर्तते, अमीषामेव यथोपन्यासमुदाहरणैर्भावार्थमुपदर्शयती-अर्धमयुक्ते नलदामः कुविन्दः, लौकिकमुदाहरणमिति गाथाक्षरार्थः ।। पर्यन्तावयवार्थ: कथानकादवसेयः तच्चेदम्
चाणक्केन नंदे उत्थाइए चंदगुत्ते रायाणए ठविए एवं सव्वं वण्णित्ता जहा सिक्खाए, तत्थ नंदसतिएहि मणुस्सेहिं सह चोरग्गाहो मिलिओ, नगरं मुसइ, चाणक्कोऽवि अन्नं चोरग्गाहं ठविउकामो तिदंडं गहेऊण परिवायगवेसेण नयरं पविट्ठो, गओ नलदामकोलियसगासं, उवविट्ठो वणणसालाए अच्छइ, तस्स दारओ मक्कोडएहि खइओ, तेन कोलिएण बिलं खणित्ता दड्डा, ताहे चाणक्केन भण्णइ-किं एए डहसि?, कोलिओ भणइ-जइ एए समूलजाला न उच्छाइज्जंति, तो पुणोऽवि खाइस्संति, ताहे चाणक्केन चिंतिय-एस मए लद्धो चोरग्गाहो, एस नंदतेनया समूलया उद्धरिस्सिहिइत्तिचोरग्गाहोकओ, तेनतिखंडिया विसंभिया अम्हेसंमिलियामुसामोत्ति, तेहिंअन्नेवि अक्खायाजेतत्थ मुसगा, बहुया सुहतरागंमुसामोत्ति, तेहिं अन्नेविअक्खाया, ताहेते तेन चोरग्गाहेण मिलिऊण सव्वेऽवि मारिया। एवं अहम्मजुत्तं न भाणियव्वं, न य कायव्वंति। इदंतावल्लौकिकम्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org