________________
३४
दशवैकालिक - मूलसूत्र - १/-/१
वृ. चरितं च कल्पितं चे (वे) द्विविधमुदाहरणम्, तत्र चरितमभिधीयते यद्वृत्तं, तेन कस्यचिद् दान्तिकार्थप्रतिपत्तिर्जन्यते, तद्यथा दुःखाय निदानं यथा ब्रह्मदत्तस्य । तथा कल्पितं स्वबुद्धिकल्पनाशिल्पनिर्मितमुच्यते, तेन च कस्यचिद्दान्तिकार्थप्रत्तिपत्तिर्जन्यते, यथापिष्पलपत्रैरनित्यतायामिति, उक्तं च
"जह तुब्भे तह अम्हे तुब्भेहि अ होहिहा जहा अम्हे । अप्पाहेइ पडतं पंडुअपत्तं किसलयाणं ॥ १ ॥
नवि अत्थि नवि अ होही उल्लावो किसलपंडुपत्ताणं । उवमा खलु एस कया भविअजनविबोहणट्टाए ॥२॥" इत्यादि ।
आह- इदमुदाहरणं दृष्टान्त उच्यते, तस्य च साध्यानुगमादि लक्षणमिति, उक्तं च
"साध्येनानुगमो हेतोः, साध्याभावे च नास्तिता ।
ख्याप्यते यत्र दृष्टान्तः, स साधर्म्येतरो द्विधा ॥"
अस्य पुनस्तल्लक्षणाभावात् कथमुदाहरणत्वमिति ?, अत्रोच्यते, तदपि कथञ्चित्साध्यानुगमादिना दान्तिकार्थप्रतिपत्तिजनकत्वात्फलत उदाहरणम्, इहापि च साऽस्त्येवेतिकृत्वा किं नोदाहरणतेति ? | साध्यानुगमादि क्षणमपि सामान्यविशेषोभयरूपानन्तधर्मात्मके वस्तुनि सति कथञ्चिद्भेदवादिन एव युज्यते, नान्यस्य, एकान्तभेदाभेदयोस्तदभावादिति, तथाहि सर्वथा प्रतिज्ञादृष्टान्तार्थ भेदवादिनोऽनुगमतः खलु घटादौ कृतकत्वादेरनित्यत्वादिप्रतिबन्धदर्शनमपि प्रकृतानुपयोग्येव, भिन्नवस्तुधर्मत्वात्, सामान्यस्य च परिकल्पित्वादसत्त्वाद्, इत्थमपि च तद्बलेन साध्यार्थप्रतिबन्धकल्पनायां सत्वामतिप्रसङ्गादित्यत्र बहु वक्तव्यं तत्तु नोच्यते ग्रन्थ विस्तरभयादिति, एवं सर्वथा अभेदवादिनोऽप्येकत्वादेव तदभावो भावनीय इति, अनेकान्तवादिनस्त्वनन्तधर्मात्मके वस्तुनि तत्तद्धर्मसामर्थ्यात्तत्तद्वस्तुनः प्रतिबन्धबलेनैव तस्य तस्य वस्तुनो गमकं भवति, अन्यथा ततस्तस्मिंस्तत्प्रतिपत्त्यसम्भव इति कृतं प्रसङ्गेन, प्रकृतं प्रस्तुमः - चरितं च कल्पितं चे (वे) त्यनेन विधिना द्विविधम्, पुनश्चतुर्विधं, - चतुष्प्रकारमेकैकम्, कथमत आह'उदाहरणं तद्देशः तद्दोषश्चैव उपन्यास ' इति । तत्रोदाहरणशब्दार्थ उक्त एव, तस्य देशस्तद्देशः, एवं तद्दोष:, उपन्यसनमुपन्यासः, स च तद्वस्त्वादिलक्षणो वक्ष्यमाण इति गाथार्थः ॥ साम्प्रतमुदाहरणमभिधातुकाम आहनि. [ ५४ ]
चहा खलु आहारणं होई अवाओ उवाय ठवणा य तहय पडुप्पन्नविनासमेव पढमं चउविगप्पं ॥
-
वृ. चतुर्धा खलु उदाहरणं भवति, अथवा चतुर्धा खलु उदाहरणे विचार्यमाणे भेंदा भवन्ति, तद्यथाअपायः उपायः स्थापना च तथा च प्रत्युत्पन्नविनाशमेवेति, स्वरूपमेषां प्रपञ्चेन भेदतो नियुक्तिकार एव वक्ष्यति तथा चाह- 'प्रथमम्' अपायोदाहरणं 'चतुर्विकल्पं' चतुर्भेदम् । तत्रापायश्चतुः प्रकारः, तद्यथा-द्रव्यापायः क्षेत्रापायः कालापायो भावापायश्च इति गाथार्थः ॥ तत्र द्रव्यदपायो द्रव्यापायः, अपायः - अनिष्टप्राप्तिः द्रव्यमेव वा अपायो द्रव्यापायः, अपायहेतुत्वादित्यर्थः, एवं क्षेत्रादिष्वपि भावनीयम् । साम्प्रतं द्रव्यापायप्रतिपादनायाहदव्वावाए दोत्रि उवानिअगा भायरो धननिमित्तं ।
नि. [ ५५ ]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org