SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ अध्ययनं-१, उद्देशकः- [नि. ४९] न्यथानुपपत्तेरित्यलं प्रसङ्गेनेति गाथार्थः ॥ तथानि.[५०] कत्थइपंचावयवंदसहा सव्वहा न पडिसिद्ध नय पुन भण्णइहंदी सविआरमक्खायं।। वृ. श्रोतारमेवाङ्गीकृत्य कचित्पञ्चावयवं 'दशघावे'ति क्वचिद्दशावयवं, सर्वथा' गुरुश्रोत्रपेक्षया नप्रतिषिद्धमुदाहरणाद्यभिधानमिति वाक्यशेषः, यद्यपिचन प्रतिषिद्धं तथाप्यविशेषेणैव, नच पुनः सर्वं भण्यते उदाहरणादि, किमित्यत आह- 'हंदी सविआरमक्खाय' हन्दीत्युपप्रदर्शने, विमुपप्रदर्शयति ?, यस्मादिहान्यत्र च शास्त्रान्तरे 'सविचारं' सप्रतिपक्षमाख्यातं साकल्यत उदाहरणाद्यभिधानमिति गम्यते, पञ्चावयवाश्च प्रतिज्ञादयः, यथोक्तम्-"प्रतिज्ञाहेतू - दाहरणोपनयनिगमनान्यवयवाः" दशपुनः प्रतिज्ञाविभक्त्यादयः,वक्ष्यति च-"ते उपइण्णविहत्ती" इत्यादि। प्रयोगाश्चैतेषांलाघवार्थमिहैवस्वस्थाने दर्शयिष्याम इति गाथार्थः ।। साम्प्रतं यदुक्तम्-"जिनवयणं सिद्धं चेव भण्णई कत्थई उदाहरणं' इत्यादि, तत्रोदाहरणहेत्वोः स्वरूपाभिधित्सयाऽऽहनि.[५१] तत्थाहरणं दुविहंचउब्विहं होइ एक्कमेकं तु॥ हेऊचउब्विहो खलु तेन उसाहिज्जए अत्थो॥ वृ.तत्रशब्दो वाक्योपन्यासार्थो निर्धारणार्थे वा, उदाहरणं पूर्ववत्, तच्च मूलभेदतो 'द्विविधं' द्विप्रकार, चरितकल्पितभेदात्, उत्तरभेदतस्तु चतुर्विधं भवति, तयोर्द्वयोरेकैकमुदाहरणमाहरण तद्देश तद्दोषोपन्यासभेदात्, तच्च वक्ष्यामः, तथा हिनोती-गमयति जिज्ञासितधर्मविशिष्टानानिति हेतुः, स'चतुर्विधः' चतुष्प्रकारः, खलुशब्दो व्यक्तिभेदादनेकविधश्चेति विशेषणार्थः, तुशब्दस्य पुन:शब्दार्थत्वात् तेन पुनर्हेतुना साध्यार्थाविनाभावबलेन 'साध्यते' निष्पाद्यते ज्ञाप्यते वा अर्थः' प्रतिज्ञार्थ इति गाथार्थः । साम्प्रतं नानादेशजविनेयगणहितायोदा-हरणैकाथिकप्रतिपिपादविषयाऽऽहनि.[५२] नायमुदाहरणंतिअविटुंतोवमनिदरिसणं तहय। एगटुंतं दुविहं चउव्विहं चेव नायव्वं॥ वृ. ज्ञायतेऽस्मिन् सति दार्टान्तिकोऽ इति ज्ञातम्, अधिकरणे निष्ठाप्रत्ययः, तथोदाहियते प्राबल्येन गृह्यतेऽनेन दान्तिकोऽर्थ इति उदाहरणम्, दृष्टमर्थमन्तं नयतीति दृष्टान्तः, अतीन्द्रियप्रमाणादृष्टंसंवेदननिष्ठां नयतीत्यर्थः, उपमीयतेऽनेन दार्टान्तिकोऽर्थइत्युपमानम्, तथाच 'निदर्शनं' निश्चयेन दर्श्यतेऽनेन दान्तिक एवार्थ इति निदर्शनम्, 'एगटुं'ति इदमेकार्थम् एकाथिकजातम्, इदं च तत्प्रागुपन्यस्तं द्विविधमुदाहरणं चतुर्विधं चैवाङ्गीकृत्य ज्ञातव्यं प्रत्येकमपि, सामान्य-विशेषयोः कथञ्चिदेकत्वाद, अत एव सामान्यस्यापि प्राधान्यख्यापनार्थमेकवचनाभिधानम् एकार्थमिति, अत्र बहु वक्तव्यं तत्तु नोच्यते ग्रन्थविस्तरभयाद, गमनिकामात्रमेवैतदिति गाथार्थः ।। साम्प्रतं यदुक्तं 'तत्रोदाहरणं द्विविध' मित्यादि, तद्द्वैविध्यादिप्रदर्शनायाहनि.[५३] चरिअंच कप्पिअं वा दुविहं तत्तो चउव्विहेक्केक्कं ! आहरणे तद्देसे तद्दोसे चेवुवन्नासे।। 127/3] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003380
Book TitleAgam Sutra Satik 42 Dashvaikalik MoolSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages284
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 42, & agam_dashvaikalik
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy