________________
दशवैकालिक-मूलसूत्र-१/-/१ भावतश्चित्रः, क्रोधादिपरित्याग-रूपत्वात्तस्येति, उक्तंच
"दव्वे भावे अतहा दुहा विसग्गो चउब्विहो दव्वे। गणदेहोवहिभत्ते भावे कोहादिचाओ त्ति॥१॥
कालेगणदेहाणं अतिरित्तासुद्धभत्तपाणाणं।
कोहाइयाण सययं कायव्यो होइ चाओ ति॥२॥ उक्तो व्यत्सर्गः, अन्भिंतरओ तवो होइ' त्ति, इदं प्रायश्चित्तादिव्युत्सर्गान्तमनुष्ठानं लौकिकैरनाभिलक्ष्यत्वात्तत्रान्तरीयैश्च भावतोऽनासेव्यमानत्वान्मोक्षप्राप्त्यन्तरङ्गत्वाच्चाभ्यन्तरं तपो भवतीति गाथार्थः । शेषपदानां प्रकटार्थत्वात् सूत्रपदस्पर्शिका नियुक्तिकृता नोक्ता, स्वधिया तु विभागे(न) स्थापनीयेति॥अत्राह-'धर्मी मङ्गलमुत्कृष्ट' मित्यादौ धर्मग्रहणे सति अहिंसासंयमतपोग्रहणमयुक्तं, तस्याहिंसासंयमतपोरूपत्वाव्यभिचारादिति, उच्यते, न, अहिंसादीनां धर्मकारणत्वाद्धर्मस्य च कार्यत्वात्कार्यकारणयोश्च कथञ्चिद्भेदात्, कथंचिद्भेदश्च तस्य द्रव्यपर्यायोभयरूपत्वात्, उक्तंच
__ "नत्थि पुढवीविसिट्ठो घडोत्तिजं तेन जुज्जइ अनन्त्रो।
जं पुणघडुत्ति पुव्वं नासी पुढवीइ तो अन्नो॥" इत्यादि। गम्यादिधर्मव्यवच्छेदेन तत्स्वरूपज्ञापनार्थवाऽहिंसादिग्रहणमदुष्टमित्यलं विस्तरणे॥आहअहिंसासंसयमतपोरूपो धर्मो मङ्गलमृत्युकृष्टमित्येतद्वचः किमाज्ञासिद्धमाहोस्विद्युक्तिसिद्धमपि?, अत्रोच्यते, उभयसिद्धं, कुतो?, जिनवचनत्वात्, तस्य चविनेयत्त्वापेक्षयाऽऽज्ञादिसिद्धत्वात्, आह च नियुक्तिकार:नि.[४९] जिनवयणं सिद्धं चेव भण्णइ कत्थई उदाहरणं।
आसज्ज उसोयारं हेऊऽवि कहिचि भण्णेज्जा। वृ.जिना: प्राग्निरूपितस्वरूपाः तेषां वचनं तदाज्ञया सिद्धमेव-सत्यमेव प्रतिष्ठितमेव अविचार्यमेवेत्यर्थः, कुतः?, जिनानां रागादिरहितत्वात्, रागादिमतश्च सत्यवचनासम्भवात्,
"रागाद्वा द्वेषाद्वा मोहाद्वा वाक्यमुच्यते ह्यनृतम्।
यस्य तु नैते दोषास्तस्यान्तकारणं किं स्यात् ||१|| " इत्यादि, तथापितथाविधश्रोत्रपेक्षया तत्रापि भण्यते क्वचिदुदाहरणम्, तथा आश्रित्य तु श्रोतारं हेतुरपि कचिद्भण्यते, नतु नियोगत: तुशब्दः श्रोतृविशेषणार्थः, किंविशिष्टं श्रोतारम्?पटुधियं मध्यमधीस्तु तेनैव बोध्यते, न त्वितर इत्यर्थः । तत्र साध्यसाधनान्वयव्यतिरेकप्रदर्शनमुदाहरणमुच्ये, दृष्टान्त इत्यर्थः, साध्यधर्मान्वयव्यतिरेकलक्षणश्च हेतुः, इह च हेतुमुल्लंघय प्रथममुदाहरणाभिधानं न्यायानुगत्वात्तद्वलेनैव हेतोः साध्यार्थसाधकत्वोपपत्तेः क्वचिद्धेतुमनभिधाय दृष्टान्त एवोच्यत इति न्यायप्रदर्शनार्थं वा, यथा गतिपरिणामपरिणतानां जीवपुद्गलानां गत्युपष्टम्भको धर्मास्तिकायः, चक्षुष्मतो ज्ञानस्य दीपवत्, उक्तंच
"जीवानां पुद्गलानांच, गत्युपष्टम्भकारणम्।
धर्मास्तिकायो ज्ञानस्य, दीपश्चक्षुष्मतो यथा।" तथा क्वचिद्धेतुरेव केवलोऽभिधी यते न दृष्टान्तः, यथा मदीयोऽयमश्वो, विशिष्टचिह्नोपलब्ध्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org