________________
अध्ययनं-१, उद्देशकः - नि.४७]
____ दोषा ह्येते परित्यक्ताः, शिरोलोचं प्रकुर्वता।" इत्यादि। गत: कायक्लेशः, साम्प्रतं संलीनतोच्यते इयं चेन्द्रियसंलीनतादिभेदाच्चतुर्विधेति,
"इंदिअकसायजोए पडुच्च संलीनया मुणेयव्वा।
तहव विवित्ताचरिआ पन्नत्ता वीअरागेहि ।।" तत्र श्रोत्रादिभिरिन्द्रियैः शब्दादिषुसुन्दरेतेषु रागद्वेषाकरणमिन्द्रियसंलीनतेति, उक्तं च
"सद्देसुअभद्दयपावएसु सोअविसयमुवगएसु।
तुटेण वरुटेण व समणेण सया न होअव्वं ।।" एवं शेषेन्द्रियेष्वपि वक्तव्यम्, यथा- "रूवेसुअभद्दगपावएसु" इत्यादि। उक्तेन्द्रियसँल्ली-- नता, अधुना कषायसंलीनता-सा च तदुदयनिरोधोदीर्णविफलीकरणलक्षणेति, उक्तं च -
___ "उदयस्सेवनिरोहो उदयंपत्ताणवाऽफलीकरणं।
जं इत्थ कसायाणं कसायसंलीनता एसा॥” इत्यादि। उक्ता कषायासंलीनता, साम्प्रतं योगसंलीनता-सा पुनर्मनोयोगादीनानामकुशलानां निरोधः कुशलानामुदीरणमित्येवंभूतेति, उक्तंच
“अपसत्थाण निरोहो जोगाणमुदीरणं च कुसलाणं।
कज्जम्मि य विहिगमनं जोए संलीणया भणिआ ।।" इत्यादि। उक्ता योगसंलीनता, अधुना विविक्तचर्या, सा पुनरियम्
"आरामुज्जाणादिसुथीपसुपंडगविवज्जिएसुजं ठाणं ।
फलगादीण य गहणं तह भणियं एसणिज्जाणं।" गता विविक्तचर्या, उक्ता संलीनता । 'बज्झो तवो होही' इति एतदनशनादि बाह्यं तपोभवति, लौकिकैरप्यासेव्यमानं ज्ञायत इतिकृत्वा बाह्यमित्युच्यते विपरीत्याहेण वा कुतीथिकैरपि क्रियत इतिकृत्वा इति गाथार्थः॥ उक्तं बाह्यं तपः, इदानीमाभ्यन्तरमुच्यते । तच्च प्रायश्चित्तादिभेदमिति, आह चनि.[४८] पायच्छित्तं विनओ वेआवच्चं तहेव सज्झाओ।
झाणं उस्सग्गोऽवि अअभिंतरओ तवो होइ।। वृ. तत्र पापं छिनत्तीति पापच्छित्, अथवा यथावस्थितं प्रायश्चितं शुद्धमस्मिन्निति प्रायश्चित्तमिति, उक्तं च
"पावं छिदइ जम्हा पायच्छित्तंति भण्णए तम्हा।
पाएण वावि चित्तं विसोहई तेण पच्छित्तं ।।१।।" तत्पुनरालोचनादि दशधेति, उक्तं च--
"आलोयणपडिक्कमणे मीसविवेगेतहा विउस्सग्गे।
तवछेअमूल अनवट्ठया य पारंचिए चेव॥ भावार्थोऽस्या आवश्यकविशेषविवरणादवसेये इति। उक्तं प्रायश्चित्तं, साम्प्रतं विनय उच्यतेतत्र विनीयतेऽनेनाष्टप्रकारं कर्मेति विनय इति, उक्तं च
"विनयफलंशुश्रूषा गुरुशुश्रूषाफलं श्रुतज्ञानम्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org