________________
२४
दशवैकालिक-मूलसूत्र-१/-/१ अयं च श्रमणधर्म एवेत्याह-चारित्रधर्मः श्रमणधर्म इति, तत्र श्राम्यतीति श्रमणः "कृत्यल्युटो बहुलम्" इति वचनात् कर्तरिल्युट्, श्राम्यतीति-तपस्यतीति, एतदुक्तं भवति-प्रव्रज्यादिवसादाराभ्यसकलसांवद्ययोगविरतौ गुरूपदेशादनशनादि यथाशक्त्याऽऽ प्राणोपरमात्तपश्चरतीति, उक्तं च
"य: समः सर्वभूतेषु, त्रसेषु स्थावरेषु च।
तपश्चरति शुद्धात्मा, श्रमणोऽसौ प्रकीर्तितः॥" इति, तस्य धर्मः स्वभावः श्रमणधर्मः, स च क्षान्त्यादिलक्षणो वक्ष्यमाण इति गाथार्थः । उक्तो धर्मः, साम्प्रतं मङ्गलस्यावसरः, तच्च प्राग्निरूपितशब्दार्थमेव, तत्पुनर्नामादिभेदतश्चतुर्धा, तत्र नामस्थापने क्षुण्णत्वात्वसाक्षादनादृत्व द्रव्यभावमङ्गलाभिधित्सयाऽऽहनि.[४४] दवे भावेऽवि अमंगलाइंदव्वम्मिपण्णकलसाई।
धम्मो उ भावमंगलमेत्तो सिद्धित्ति काऊणं ।। वृ.'द्रव्यं' इति द्रव्यमधिकृत्य भावइति भावंच मङ्गले अपिशब्दानामस्थापनेचा तत्र 'दव्वम्मि पुण्णकलसाई' द्रव्यमधिकृत्य पूर्णकलशादि, आदिशब्दात् स्वस्तिकादिपरिग्रहः, धर्मस्तु तुशब्दोऽवधारणे धर्म एव भावमङ्गलं । कुत एतदित्यत आह-'अत:' अस्माद्धर्मात्क्षान्त्यादिलक्षणात् 'सिद्धिरितिकृत्वा' मोक्षइतिकृत्वा, भवगालनादिति गाथार्थः । अयमेव चोत्कृष्टप्रधानंमङ्गलम, एकान्तिकत्वादात्यन्तिकत्वाच, न पूर्णकलशादि, तस्य नैकान्तिकत्यादनात्यन्तिकत्वाच्च॥ साम्प्रतं यशोद्देशं निर्देश' इतिकृत्वा हिंसाविपक्षतोऽहिंसा, तां प्रतिपादयन्नाहनि.[४५] हिसाए पडिवक्खो होइ अहिंसा चउव्विहा सा उ।
दवे भावे अतहा अहिंसऽजीवाइवाओत्ति॥ वृ. तत्र प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा, अस्याः हिंसायाः किम्? - प्रतिकूलः पक्षः प्रतिपक्ष:-अप्रमत्ततया शुभयोगपूर्वकं प्राणाव्यपरोपणमित्यर्थः, किम्? - भवत्यहिंसेति, तत्र 'चतुर्विधा' चतुष्प्रकारा अहिंसा, 'दव्वे भावे अ'त्ति द्रव्यतो भावतश्चेत्येको भङ्गः, तथा द्रव्यतो नो भावतः तथा न द्रव्यतो भावतः, तथा नद्रव्यतो न भावत इति तथाशब्दसमुच्चितो भङ्गत्रयोपन्यासः, अनुक्तसमुच्चयार्थकत्वादस्येति, उक्तं च "तथा समुच्चयनिर्देशावधार-सादृश्यप्रकारवचनेष्यित्यादि, तत्रायं भङ्गकभावार्थ:-द्रव्यतो भावतश्चेति, "जहा केइ पुरिसे मिअवहपरिणामपरिणए मियं पासित्ता आयन्नाइड्डियकोदंडजीवे सरं निसिरिज्जा, से अमिए तेन सरेन विद्धे मए सिआ, एसा दव्वओ हिंसा भावओवि" ।। या पुन व्यतो न भावतः साखल्वीर्यादिसमितस्य साधोः कारणे गच्छत इति, उक्तं च
"उच्चालिअभिम पाए इरियासमिअस्स संकमट्ठाए। वावज्जेज्ज कुलिंगी मरिज्ज तं जोगमासज्जा ।।१।। न य तस्स तन्निमित्तो बंधो सुहुमो विदेसिओ समए।
जम्हा सो अपमत्तो सा य पमाओत्ति निद्दिवा ।।२।।" इत्यादि । या पुनर्भावतो न द्रव्यतः, सेयम्-जहां केवि पुरिसे मंदमंदप्पगासप्पदेसे संठियं ईसिवलिअकायं रज्जुं पासित्ता एस अहित्ति तव्वहपरिणामपरिणए निकड्डियासिपत्ते दुअंदुअं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org