________________
२३
अध्ययनं-१,उद्देशक:- [नि. ४१] प्रदेशात्मकः अस्तिकायधर्म इति।अन्येतु व्याचक्षते-धम्मास्तिकायादि-स्वभावोऽस्तिकायाधर्म इति, एतच्चायुक्तम्, तत्र धर्मास्तिकायादीनां द्रव्यत्वेन तस्य द्रव्यधर्मा-व्यतिरेकादिति । तथा प्रचारधर्मश्च विषयधर्म एव, तुशब्दस्यैवकारार्थत्वात्, तत्र प्रचरणं प्रचारः, प्रकर्षगमनमित्यर्थ, स एवात्मस्वभावत्वाद्धर्मः प्रचारधर्मः, स च किम्? – विषीदन्त्येतेषु प्राणिन इति विषयारूपादयस्तद्धर्म एव, तथा च वस्तुतो विषयधर्म एवायं यद्रागादिमान् सत्त्वस्तेषु प्रवर्तत इति, चक्षुरादीन्द्रियवशतो रूपादिषु प्रवृत्तिः प्रचारधर्म इति हृदयम्, प्रधानसंसारनिबन्ध-नत्वेन चास्य घ्राधान्यख्यापनार्थं द्रव्यधर्मात् पृथगुपन्यासः । इदानीं भावधर्मः, स च लौकिका-दिभेदभिन्न इति, आह च-लौकिक: कुप्रावधनिकः लोकोत्तरस्तु, अत्र 'लोगोऽणेगविहो'त्ति लौकिकोऽनेकविध इति गाथार्थः। तदेवानेकविधत्वमुपदर्शयन्नाहनि.[४२] गम्मपसुदेसरज्जे पुरवरगामगणगोष्ट्टिराईणं।
सावज्जो उकुतित्थियधम्मो न जिनेहि उपसत्थो॥ वृ.तत्र गम्यधर्मो-यथा दक्षिणापथे मातुलदुहिता गम्या उत्तरापथे पुनरगम्यैव, एवं भक्ष्याभक्ष्यपेयापेयविभाषा कर्त्तव्येती,पशुधर्मो-मात्रादिगमनलक्षणः, देशधर्मो देशाचारः सच प्रतिनियत एव नेपथ्यादिलिङ्गभेद इति, राज्यधर्मः-प्रतिराज्यं भिन्नः, सच करादिः, पुरवरधर्म:-प्रतिपुरवरं भिन्नःक्वचित्किञ्चिद्विशिष्टोऽपि पौरभाषाप्रदानादिलक्षणः सद्वितीया योषिट्नेहान्तरं गच्छतीत्यादिलक्षणो वा, ग्रामधर्म:-प्रतिग्रामंभिन्नः, गणधर्मो-मल्लादिगणव्यवस्था, यथा समपादपातेन विषमग्रह इत्यादि, गोष्ठीधर्मो-गोष्ठीव्यवस्था, इह च समवयसां समुदायो गोष्ठी, तद्व्यवस्था पुनर्वसन्तादाविदं कर्त्तव्यमित्यादिलक्षणा,राजधर्मो-दष्टेतरनिग्रहपरिपालनादिरिति । भावधर्मता चास्य गम्यादीनां विवक्षया भावरूपत्वात्ट्रव्यपर्यायत्वाद्वा, तस्यैव चद्रव्यानपेक्षस्यविवक्षितत्वात्, लौकिकैर्वा भावधर्मत्वेनेष्टत्वात्, देशराज्यादिभेदश्चैकदेश एवानेकराज्यसम्भव इत्येवं स्वधिया भाव्यम् इत्युक्तो लौकिक:, कुप्रावचनिक उच्यते-असावपि सावधप्रायो लौकिककल्प एव, यत आह-"सावज्जो उ" इत्यादि, अवयं-पापं सहावद्येन सावा, तुशब्दस्त्वेवकारार्थः, स चावधारणे, सावद्य एव, कः? - 'कुतीर्थिकधर्मः' चरकपरिव्राजकादिधर्म इत्यर्थः, कुत एतदित्याह-न जिनैः' अर्हद्भिः तुशब्दादन्यैश्च प्रेक्षापूर्वकारिभिः प्रशंसित:' स्तुत: सारम्भपरिग्रहत्वात, अत्र बहवक्तव्यम तत्तु नोच्यते, गमनिकामात्रफलत्वात्प्रस्तुतव्यापारस्येति गाथार्थः ।।
उक्त: कुप्रावनिकः, साम्प्रतं लोकोत्तरं प्रतिपादयन्नाहनि.[४३] दुविहो लोगुत्तरिओ सुअधम्मो खलु चरित्तधम्मो अ।
सुअधम्मो सज्झाओ चरित्तधम्मो समणधम्मो।। वृ.द्विविधो-द्विप्रकारो लोकोत्तरो' लोकप्रधानो, धर्म इति वर्तते, तथा चाहश्रुतधर्म: खलु चारित्र-धर्मश्च, तत्र श्रुतं-द्वादशाङ्गतस्य धर्मः, खलुशब्दो विशेषणार्थः, किं विशिष्टि? सहि वाचनादिभेदाचित्र इति, आह च-श्रुतधर्मः स्वाध्यायः-वाचनादिरूप, तत्त्वचिन्तायां धर्महेतुत्वाद्धर्म इति। तथा चारित्रधर्मश्च, तत्र "चारगतिभक्षणयोः" इत्यस्य "अतिलूधूसूखनसहचार इन्" इतीत्रन्प्रत्ययान्तस्य चरित्रमिति भवति, चरन्त्यनिन्दितमनेनेति चरित्रं क्षयोपशमरूपं तस्य भावश्चारित्रम्, अशेषकर्मक्षपाय चेष्टेत्यर्थः, ततश्चारित्रमेव धर्म: चारित्रधर्म इति।च: समुच्चये।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org