________________
२६१
चूलिका-२. मूलं-५३८ [नि.३७०] बुद्धिमान् ‘प्रतिसंहरेत्' प्रतिसंहरति य आत्मानं, सम्यग् विधि प्रतिपद्यत इत्यर्थः, निदर्शनमाह-आकीर्णो जवादिभिर्गुणैः, जात्योऽश्व इति गम्यते असाधारणविशेषणात्, तच्चेदम्-'क्षिप्रमिव खलिनं' शीघ्रं कविकमिव, यथा जात्योऽश्वो नियमितगमननिमित्तं शीघ्रं खलिनं प्रतिपद्यते, एवं यो दुष्प्रयोगत्यागेन खलिनकल्पं सम्यविधिम्, एतावताऽशेन दृष्टान्त इति सूत्रार्थः ।। मू.(५३९) जस्सेरिसा जोग जिइंद्दिअस्स, धिईमओ सप्पुरिसस्स निच्चं।
तमाहु लोए पडिबुद्धजीवी, सो जीअई संजमजीविएणं। वृ.य: पूर्वरात्रेत्याद्यधिकारोपसंहारायाह-यस्य साधोः 'ईदृशाः' स्वहितालोचन-प्रवृत्तिरूंपा 'योगा' मनोवाक्कायव्यापारा 'जितेन्द्रियस्य' वशीकृतस्पर्शनादीन्द्रियकलापस्य धृतिमतः' संयमे सधृतिकस्य 'सत्पुरुषस्य' प्रमादजयान्महापुरुषस्य 'नित्यं' सर्वकालं सामायिकप्रतिपत्तेरारभ्यामरणान्तम् ‘तमाहुर्लो के प्रतिबुद्धजीविनं' तमेवंभूतं साधुमाहुःअभिदधति विद्वांसः लोकोप्राणिसंघाते प्रतिबुद्धजीविनं-प्रमादनिद्वारहितजीवनशीलं, 'स' एवंगुणयुक्तः सन्जीवति 'संयमजीवितेन' कुशलाभिसंधिभावात् सर्वथा संयमप्रधानेन जीवितेनेति सूत्रार्थः । मू.(५४०) अप्पा खलु सययं रक्खिअब्बो, सर्विदिएहिं सुसमाहिएहि।
अरिक्खि जाइपहं उवेइ, सुरक्खिओ सव्वदुहाण मुच्चइ॥ति बेमि।। वृ.शास्त्रमुपसंहस्नुपदेशसर्वस्वमाह-'आत्मा खल्वि'ति खलुशब्दो विशेषणार्थः, शक्तौ सत्यां परोऽपि 'सततं' सर्वकालं 'रक्षितव्यः' पालनीयः पारलौकिकापायेभ्यः, कथमित्युपायमाह-'सर्वेन्द्रियैः' स्पर्शनादिभिः 'सुसमाहितेन' निवृत्तिविषयव्यापारेणेत्यर्थः, अरक्षणक्षणयोः फलमाह-अरक्षितः सन् ‘जातिपन्थान' जन्ममार्ग संसारमुपैति-सामीप्येन गच्छति। सुरक्षित: पुनर्यथागममप्रमादेन 'सर्वदुःखेभ्यः' शारीरमानसेभ्यो 'विमुच्यते' विविधम्-अनेकैः प्रकारेरपुनर्ग्रहणपरमस्वास्थ्यापादनलक्षणैर्मुच्यते।इती ब्रवीमीति पूर्ववदिति सूत्रार्थः ।।
चूलिका-२ समाप्तम्।
उपसंहार) यं प्रतीत्य कृतं तद्वक्तव्यताशेषमाहनि.[३७१] छहि मासेहिं अहीजं अज्झयणमिणं तु अज्जमणगेणं ।
छम्मासा परिआओ अह कालगओ समाहीए। वृ.षड्भिर्मासैः अधीतं' पठितम् अध्ययनमिदंतु' अधीयत इत्यध्ययनम्-इदमेव दशवैकालिकाख्यं शास्त्र, वेनाधीतमित्याह-आर्यमनकेन-भावाराधनयोगात् आराद्यातः सर्वहेयधर्मेभ्य इत्यार्य: आर्यश्चासौ मणकश्चेति विग्रहस्तेन, षण्मासा: पर्याय' इति तस्मार्यमणकस्य षण्मासा एव प्रव्रज्याकालः, अल्पजीवितत्वात्, अत एवाह-अथ कालगतः समाधिने ति अथ' उक्तशास्त्राध्ययनपर्यायनन्तरंकालगत-आमगोक्तेन विधिना मृतः, समाधिना-शुभलेश्याध्यानयोगेनेति गाथार्थः । अत्र चैवं वृद्धवाद:-यथा तेनैतावता श्रुतेनाराधितम् एवमन्येऽप्येतदध्ययनानष्ठानत आराधका भवन्त्विति॥ नि.[३७२] आनंदअंसुपायं कासी सिज्जभवा तर्हि थेरा।
जसभद्दस्स य पुच्छा कहणा अविआलणा संधे ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org