________________
२६०
(तथा)
दशवैकालिक - मूलसूत्रं
आत्मानं योऽभिसंघत्ते, सोऽन्यस्मै स्यात्कथं हितः ? |
ब्रह्महत्या सुरापानं, स्तेयं गुर्वङ्गनागमः । महान्ति पातकान्याहुरेभिश्च सह संगमम् ॥'
21
इत्यलं प्रसङ्गेनेति सूत्रार्थः ॥
मू. (५३५) संवच्छरं वाऽवि परं पमाणं, बीअं च वासं न तर्हि वसिज्जा । सुत्तस्स मग्गेण चरिज्ज भिक्खू, सुत्तस्स अत्थो जह आणवेइ ॥
वृ. विहारकालमानमाह- 'संवत्सरंवापि' अत्र संवत्सरशब्देन वर्षासु चातुर्मासिको ज्येष्ठावग्रह उच्यते तमपि, अपिशब्दान्मासमपि परं प्रमाणं वर्षाऋतुबद्धयोरुत्कृष्टमेकत्र निवासकालमानमेतत्, 'द्वितीयं च वर्षम्' चशब्दस्य व्यवहित उपन्यासः, द्वितीयं वर्षं वर्षासु चशब्दान्मासं च ऋतुबद्धे न तत्र क्षेत्रे वसेत् यतैको वर्षाकल्पो मासकल्पश्च कृतः अपितु सङ्गदोषाद् द्वितीयं तृतीयं च परिहृदय वर्षादिकालं ततस्तत्र वसेदित्यर्थः, सवर्था, किं बहुना ?, सर्वत्रेव 'सूत्रस्य मार्गेण चरेद्भिक्षुः' आगमादेशेन वर्त्तेतेति भावः, तत्रापि नौधत एव यथा श्रुतग्राही स्यात् अपि तु सूत्रस्य 'अर्थ:' पूर्वापराविरोधितन्त्रयुक्तिघटितः पारमार्थिकोत्सर्गापवादगर्भो यथा 'आज्ञापयति' नियुक्ते तथा वर्त्तेत, नान्यथा, यथेहापवादतो नित्यवासेऽपि वसतावेव प्रतिमासादि साधूनां संस्तार-गोचरादिपरिवर्तेन, नान्यथा, शुद्धापवादायोगादित्येवं वन्दनकप्रतिक्रमणादिष्वपि तदर्थं प्रत्युपेक्षणेनानुष्ठानेन वर्त्तेत, न तु तथाविधलोक हेर्या तं परित्यजेत् तदाशातनाप्रसङ्गादिति सूत्रार्थः ॥
मू. ( ५३६ ) जो पुव्वरत्तावररत्तकाले, संपेहए अप्पगमप्पगेणं ।
किं मे कडं किं च मे किच्चसेस, किं सक्कणिज्जं न समायरामि ? | वृ. एवं विविक्तचर्यावतोऽसीदनगुणोपायमाह यः साधुः पूर्वरात्रापररात्रकाले, रात्रौ प्रथमचरमयोः प्रहरयोरित्यर्थः, संप्रेक्षते सूत्रोपयोगनीत्वा आत्मानं कर्मभूतमात्मनैव करणभूतेन, कथमित्याह- किं मे कृत' मिति छान्दसत्वात्तृतीयार्थे षष्ठी, किं मया कृतं शक्त्यनुरूपं तपश्चरणादियोगस्य 'किं च माम कृत्यशेषं' कर्तव्यशेषमुचितं?, किं शक्यं वयोऽवस्थानुरूपं वैयावृत्त्यादि 'न समाचरामि' न करोमि, तदकरणे हि तत्कालनाश इति सूत्रार्थः ॥
मू. (५३७ ) किं मे परो पासइ किंच अप्या, किं वाऽहं खलिअं न विवज्जयामि । इच्चेव सम्मं अनुपासमाणो, अनागयं नो पडिबंध कुज्जा ॥
वृ तथा किं मम स्खलितं 'पर: ' स्वपक्षपरपक्षलक्षणः पश्यति ? कि वाऽऽत्मा कचिन्मनाक संवेगापत्रः ?, किं वाऽहमोघत एव स्खलितं न विवर्जयामी, इत्येवं सम्यगनुपश्यन् अनेनैव प्रकारेण स्खलितं ज्ञात्वा 'सम्यग्' आगमोक्तेन विधिना भूयः पश्येत् 'अनागतं न प्रतिबन्धं कुर्यात् आगमिकालविषयं नासंयमप्रतिबन्धं करोतीति सूत्रार्थः ॥
Jain Education International
मू. (५३८ ) जत्थेव पासे कइ दुप्पउत्तं, कारण वाया अदु मानसेणं । तत्थेव धीरो पडिसाहरिज्जा, आइन्नओ खिप्पमिव स्खलीणं ॥ वृ.कथमित्याह-‘यत्रैव पश्येत्' यत्रैव पश्यत्युक्तवत्परात्मदर्शनद्वारेण 'क्वचित्' संयमस्थानवसरे धर्मोपधिप्रत्युपेक्षणादौ 'दुष्प्रयुक्तं ' दुर्व्यवस्थितमात्मानमिति गम्यते, केनेत्याहकायेन वाचा अथ मानसेनेति, मन एव मानसं करणत्रयेणेत्यर्थः, 'तत्रैव' तस्मिन्नेव संयमस्थानावसरे 'धीरो'
For Private & Personal Use Only
www.jainelibrary.org