________________
चूलिका-२. मूलं-५३१ [नि. ३७०]
२५९
प्रतिक्रमणमकृत्वा न किञ्चिदन्यत् कुर्याद्, तदशुद्धतापत्तेरिति भावः । तथा 'स्वाध्याययोगे' वाचनाद्युपचारव्यापार आचारमाम्लादौ 'प्रयतः ' अतिशययत्त्रपरो भवेत्, तथैव तस्य फलवत्त्वाद् विपर्यय उन्मादादिदोषप्रसङ्गादिति सूत्रार्थ: ।।
मू. (५३२ ) न पडिनविज्जा सयनासनाई, सिज्जं निसिज्जं तह भत्तपानं । गामे कुले वा नगरे व देसे, ममत्तभावं न कहिंपि कुज्जा ॥ वृ.किंच-'न प्रतिज्ञापयेत्' मासादिकल्पपरिसमाप्तौ गच्छन् भूयोऽ ऽभ्यागतस्य भमैवैतानि दातव्यानीति न प्रतिज्ञां कारयेद्गृहस्थं, किमाश्रित्येत्याह- 'शयनासने शय्यां निषद्यां तथा भक्तपान' मिति तत्र शयनं संस्तारकादि आसनं पीठकादि शय्या वसतिः निषद्यास्वाध्यायादिभूमि: ' तथा ' तेन प्रकारेण तत्कालावस्थौचित्येन 'भक्तपानं' खण्डस्वाद्यकद्राक्षापानकादिन प्रतिज्ञापयेत्, ममत्वदोषात् । सर्वत्रैतन्निषेधमाह 'ग्रामे' शालिग्रामादै 'कुले वा' श्रावककुलादौ 'नगरे' साकेतादौ 'देशे वा' मध्यदेशादौ 'ममत्व भावं' ममेदमिति स्नेहमोहन' क्वचित्' उपकरणादिष्वपि कुर्यात्, तन्मूलत्वादुःखादीनामिति ॥
मू. (५३३) गिहिणो वेआडिअं न कुज्जा, अभिवायणवंदनपूअणं वा । असंकिलिट्ठेहिं समं वसिज्जा, मुनी चरितस्स जओ न हानी ॥ वृ. उपदेशाधिकारएवाह- 'गृहिणी' गृहस्थस्य' वैयावृत्त्यं' गृहिभावोपकाराय तत्कर्मस्वात्मनो व्यावृत्तभावं न कुर्यात्, स्वपरोभया श्रेयः समायोजनदोषात् तथा अभिवादनं वाङ्नमस्काररूपं वन्दनं-कायप्रणामलक्षणं पूजनं वा वस्त्रादिभिः समभ्यर्चनं वा गृहिणो न कुर्याद्, उक्तदोषप्रसङ्गादेव, तथैतद्दोषपरिहारायैव 'असंक्लिष्टैः ' गृहिवैयावृत्त्यकरणसंक्लेशरहितैः साधुभिः समं वसेन्मुनिः 'चारित्रस्य' मूलगुणादिलक्षणस्य 'यतो' येभ्यः साधुभ्यः सकाशान्न हानिः, संवासतस्तदकुत्यानुमोदनादिनेति, अनागतविषयं चेदं सूत्रं, प्रणयनकाले संक्लिष्टसाध्वभावादिति सूत्रार्थः ॥
-
पू. ( ५३४ ) नया लभेज्जा निउणं सहाय, गुणाहिअं वा गुणओ समं वा । इक्को ऽवि पावाइं विवज्जयंतो, विहरिज्ज कामेसु असज्जमाणो ॥
वृ. असंक्लिष्टैः समं वसेदित्युक्तमत्र विशेषमाह- कालदोषाद् 'न यदिलभेत' न यदि कथञ्चित् प्राप्नुयात् 'निपुणं' संयमानुष्ठानकुशलं 'सहायं' परलोकसाधनद्वितीयं, किंविशिष्टामित्याह'गुणाधिकं वा' ज्ञानादिगुणोत्कटंवा, 'गुणतः समं वा' तृतीयार्थे पञ्चमी गुणैस्तुल्यं वा, वाशब्दाद्धीनमपि जात्याकाञ्चनकल्पं विनीतं वा, ततः किमत्याह-एकोऽपि संहननादियुक्त: 'पापानि' पापकारणान्यसदनुष्ठ्यनानि 'विवर्जयन्' विविध मनेकैः प्रकारैः सूत्रोक्तैः परिहरन् विहरेदुचितविहारेण 'कामेषु' इच्छाकामादिषु 'असज्यमान: ' सङ्गमगच्छत्रेकोऽपि विहरेत्, नतु पार्श्वस्थादिपापमित्रसङ्गं कुर्यात्, तस्य दुष्टत्वात्, तथा चान्यैरप्युक्तम्
-
"वरं विहर्तुं सह पन्नगैर्भवेच्छठात्माभिर्वा रिपुभिः सहोषितुम् । अधर्मयुक्तैश्चपलैरपण्डितैर्न पापमित्रैः सह वर्तितुं क्षमम् ॥ इहैव हन्युर्भुजगा हि रोषिताः, धृतासयश्छिद्रमवेक्ष्य चारयः । असत्प्रवृत्तेन जनेन संगतः, परत्र चैवेह च हन्यते जन: ।। परलोकविरुद्धानि कुर्वाणां दूरतस्त्यजेत् ।
For Private & Personal Use Only
(तथा)
Jain Education International
www.jainelibrary.org