________________
२५८
भू. (५३० )
आइन ओमाणविवज्जा अ, ओसत्रदिट्ठाहडभत्तपाने । संसदुकप्पेण चरिज्ज भिक्खू, तज्जायसंसट्ट जई जइज्जा ॥ वृ . इयं साधूनां विहारचर्येति सूत्रस्पर्शनमाहनि. [३६९]
दव्वे सरीरभविओ भावेन य संजओ इहं तस्स । उग्गहिआ परगहिआ विहारचरिआ मुणेअव्वा ॥
वृ.साधूनां विहारचर्याऽधिकृतेति साधुरुच्यते, स च द्रव्यतो भावतश्च तत्र 'द्रव्य' इति द्वारपरामर्शः, 'शरीरभव्य' इति मध्यमभेदत्वादागमनो आगमज्ञशरीरभव्यशरीरतद्वयतिरिक्तद्रव्यसाधूपलक्षणमेतत् 'भावेन चे 'ति द्वारपरामर्शः, स एव 'संयत' इति संयतगुणसंवेदको भावसाधु: । 'इह' अध्ययने 'तस्य' भावसाधोः 'अवगृहीता' उद्यानारामादिनिवासाद्यनियता 'प्रगृहीता' तत्रापि विशिष्टाभिग्रहरूपा उत्कटुकासनादिविहारचर्या ' मन्तव्या' बोद्धव्येति गाथार्थः ॥ अनिएअं पइरिक्कं अन्नायं सामुआणिअं उछं । अप्पोवही अकलहो विहारचरिआ इसिपसत्था ॥
नि. [३७०]
दशवैकालिक - मूलसूत्रं
-
वृ. व्याख्या सूत्रवदवसेया । अवयवाक्रमस्तु गाथाभङ्गभयाद्, अर्थतस्तु सूत्रोपन्यास द्रष्टव्य इति । 'विहारचर्या ऋषीणां प्रशस्ते' त्युक्तं तद्विशेषोपदर्शनायाह- 'आकीर्णावमानविवर्जना च' विहारचर्या ऋषीणां प्रशस्तेति, तत्राकीर्णं राजकुलसंख्यादि अवमानं स्वपक्षपरपक्षप्राभूत्यजं लोकाबहुमानादि, अस्य विवर्जना, आकीर्णे, हस्तपादादिलूषणदोषात् अवमाने अलाभाधाकर्मादिदोषादिति । तथा 'उत्सन्नदृष्टाहृतं' प्राय उपलब्धमुपनीतम्, उत्सन्नशब्दः प्रायो वृत्तौ वर्त्तते, यथा- "देवा ओसन्नं सायं वेयणं वेएंति" किमेतदित्याह- 'भक्तपानम्' ओदनारनालादि, इदं चोत्सन्नदृष्टाहृतं यत्रोपयोगः शुद्धयति, त्रिगृहान्तरादारत इत्यर्थः, 'भिक्खग्गाही एगत्थ कुणइ बीओ अ दोसुमुवओग' मिति वचनात् इत्येवंभूतमुत्सन्नं दृष्टाहृतं भक्तपानमृषीणां प्रशस्तमिति योग:, तथा 'संसृष्टकल्पेन' हस्तमात्रकादिसंसृष्टविधिना चरेद्मिक्षुरित्युपदेशः, अन्यथा पुर:कर्मादिदोषात्, संसृष्टमेव विशिनष्टि- 'तज्जातसंसृष्ट' इत्यामगोरसादिसमानजातीयसंसृष्टे हस्त'मात्रादौ यतिः 'यतेत' यत्नं कुर्यात्, अतज्जातसंसृष्टे संसर्जनादिदोषादित्यनेनाष्टभङ्गसूचनं, तद्यथा-संसद्वे हत्थे संसद्वे मत्ते सावसेसे दव्वे' इत्यादि, अत्र प्रथमभङ्ग श्रेयान् शेषास्तु चिन्त्या मू. (५३१) अमज्जमंसासि अमच्छरीआ, अभिक्खणं निव्विगई गया अ । अभिक्खणं काउस्सग्गकारी, सज्झायजोगे पयओ हविज्जा ।।
Jain Education International
-
वृ. उपदेशाधिकार एवेदमाह- अमद्यमांसाशी भवेदिति योगः, अमद्यपोऽमांसाशी च स्यात्, एते च मद्यमांसे लोकागमप्रतीते एव, ततश्च यत्केचनाभिदधति-आरनालारिष्ठाद्यपि संधानाद् ओदनाद्यपि प्राण्यङ्गत्वात्त्याज्यमिति, तदसत्, अमीषां मद्यमांसत्वायोगात्, लोकशास्त्रयोरप्रसिद्धत्वात्, संधानप्राण्यङ्गत्व तुल्यत्वचोदना त्वसाध्वी, अतिप्रसङ्गदोषाद्, द्रवत्वस्त्रीत्वतुल्यतया मूत्रपानमातृगमनादिप्रसङ्गादित्यलं प्रसङ्गेन, अक्षरगमनिकामात्रप्रक्रमात् । तथा ' अमत्सरी च' न परसंपद्वेषी च स्यात्, तथा 'अभीक्ष्णं' पुनः पुनः पुष्टकारणाभावे 'निर्विकृतिकश्च' निर्गतविकृतिपरिभोगश्च भवेत् अनेन परिभोगोचितविकृतीनामप्यकारणे प्रतिषेधमाह, तथा 'अभीक्ष्णं' गमनागमनादिषु, विकृतिपरिभोगेऽपि चान्ये, किमित्याह-'कायोत्सर्गकारी भवेत्' ईर्यापथ
For Private & Personal Use Only
www.jainelibrary.org