________________
२६२
दशवैकालिक-मूलसूत्रं वृ, आनन्दाश्रुपातम्' अहो आराधितमनेनेति हर्षाश्रुमोक्षणम् 'अकार्षुः' कृतवन्तः शय्यम्भवाः' प्राग्व्यावर्णितस्वरूपाः 'तत्र' तस्मिन् कालगते स्थविराः' श्रुतपर्यायवृद्धाः प्रवचनगुरवः, पूजार्थं बहुवचनमिति, यशोभद्रस्य च-शय्यम्भवप्रधानशिष्यस्य गुर्वश्रुपातदर्शनेन किमेतदाश्चर्यमिति विस्मितस्य सतः पृच्छा-भगवन्! किमेतदकृतपूर्वमित्येवंभूता, कथनाच भगवतःसंसारस्नेहईदृशः, सुतो ममायमित्येवंरूपा, चशब्ददादनुतापश्च यशोभद्रादीनाम्-अहो गुराविव गुरुपुत्रके वर्तितव्यमिति न कृतमिदमस्माभिरिति, एवंभूतप्रतिबन्धदोषपरिहारार्थनमया कथितं नात्र भवतां दोष इति गुरुपरिसंस्थापनंच। विचारणा संघ' इति शय्यम्भवेनाल्पायुषमेनमवेत्य मयेदं शास्त्र निर्मूढं किमत्र युक्तमिति निवेदेति विचारणा संघे-कालहासदोषात् प्रभूतसत्त्वानामिदमेवोपकारकमतस्तिष्ठत्वेतदित्येवंभूता स्थापना चेति गाथार्थः । __उक्तोऽनुगमः साम्प्रतं नयाः, तेच नैगमसंग्रहव्यवहारऋजुसूत्रशब्दसमभिरूलैवम्भूतभेदभिन्नाः खल्वोघतः सप्त भवन्ति । स्वरूपं चैतेषामध आवश्यके सामायिकाध्ययने न्यक्षेण प्रदर्शितमेवेति नेहप्रतन्यते।इहपुन: स्थानाशून्यार्थमेते ज्ञानक्रियानयान्तर्भावद्वारेण समासतःप्रोच्यते-ज्ञाननयः क्रियानयश्च, तत्र ज्ञाननयदर्शनमिदम्-ज्ञानमेव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणं, युक्तियुक्तत्वात्, तथा चाह. "नामि गिण्हिअव्वे अगिहिअव्वंमि चेव अत्थम्मि।
जइअव्वमेव इह जो उवएसो सो नओ नाम॥" 'नायंमि'त्ति ज्ञाते सम्यक्परिच्छिने 'गिहिअव्वेत्ति ग्रहीतव्य उपादेये 'अगिहिअव्वे'त्ति अग्रहीतव्येऽनुपादेये हेय इत्यर्थः, चशब्दः खलूभयोर्ग्रहीतव्याग्रहीतव्ययोजीतत्वानुकर्षणार्थ उपेक्षणीयसमुच्चयार्थो वा, एवकारस्त्ववधारणार्थः, तस्य चैवं व्यवहितः प्रयोगो दृष्टव्यः-ज्ञात एव ग्रहीतव्ये तथाऽग्रहीतव्येतथोपेक्षणीयेच ज्ञात एव नाज्ञाते अत्थम्मि'त्ति अर्थे ऐहिकामुष्पिके, तत्रैहिको ग्रहीतव्यः स्त्रक्वन्दनाङ्गनादि: अग्रहीतव्यो विषशस्त्रकण्टकादिः उपेक्षणीयस्तृणादिः, आमुष्मिको ग्रहीतव्यः सद्दर्शनादिरग्रहीत्वयो मिथ्यात्वादिरूपेक्षणीयो विवक्षयाअभ्युदयारिति तस्मिन्नर्थे, 'यतितव्यमेवे'तिअनुस्वारलोपाद्यतितव्यय् एवम्' अनेनप्रकारेणैहिकामुष्मिकफलप्राप्तर्थिना सत्त्वेन प्रवृत्त्यादिलक्षणः प्रयत्नः कार्य इत्यर्थः । इत्थं चैतदङ्गीकर्तव्यं, सम्यग्ज्ञाते प्रवर्त्तमानस्य फलाविसंवादर्शनात्, तथा चान्यैरप्युक्तम्
"विज्ञप्तिः फलदा पुंसां, न क्रिया फलदा मता।
मिथ्याज्ञानात्प्रवृत्तस्य, फलप्राप्तेरसंभवात्॥" तथाऽऽमुष्मिकफलप्राप्तयर्थिनाऽपि ज्ञान एव यतितव्यं, तथा चागमोऽप्येवमेव व्यस्थितः,
"पढमं नाणं तओ दया, एवं चिट्ठइ सव्वसंजए।
अन्नाणी किं काही, किंवा नाहीइ छेअपावगं?॥" इतश्चैतदेवमङ्गीकर्तव्यं, यस्मात्तीर्थकरगणधरैरगीतार्थानां केवलानां विहारक्रियाऽपि निषिद्धा, तथा चागम
"गीअत्थो अविहारो बिइओ गीअत्थमीसिओ भणिओ।
एत्तो तइअविहारो नाणुण्णाओ जिणवरेहिं॥"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org