________________
२३९
-
अध्ययनं-९, उद्देशकः-४. नि. ३३६] नि. [३३६] जह दारुकम्मगारो भेअणभित्तव्वसंजुओ भिक्खू। .
अन्नेवि दव्वभिक्खू जे जायणगा अवरिया अ॥ वृ. यथा 'दारुकर्मकरो' वर्धक्यादिः भेदनभेत्तव्यसंयुक्तः सन्-क्रियाविशिष्टविदारणादिदारुसमन्वितो द्रव्यभिक्षुः, द्रव्यं भिनत्तीतिकृत्वा, तथाऽन्येऽपि द्रव्यभिक्षव:-अपारमार्थिकाः, क इत्याह-ये 'याचनका' भिक्षणशीला 'अविरताश्च' अनिवृत्ताश्च पापस्थानेभ्य इति गाथार्थः ।
एते च द्विविधाः-गृहस्था लिङ्गिनश्चेति, तदाहनि. [३३७] गिहिणोऽवि सयारंभग उज्जुप्पन्नं जनं विमग्गंता ।
जीवणिअ दीणकिविना ते विज्जा दव्वभिक्खुत्ति ।। वृ. 'गृहिणोऽपि' सकलत्रा अपि 'सदारंभका' नित्यमारम्भका: पण्णां जीवनिकायानामृजुप्रज्ञं जनं अनालोचकं विमृगयन्त:-अनेकप्रकारं द्विपदादि भूमिदेवा वयं लोकहितायावती इत्यभिधाय याचमानाः, द्रव्यभिक्षणशीलत्वाद्रव्यभिक्षयः, एते च धिग्वर्णाः, तथा ये च 'जीवनिकाय' जीवनिकानिमित्तं 'दीनकृपणाः' कार्पटिकादयो भिक्षामटन्ति तान् 'विद्याद्' विजानीयाद्रव्यभिक्षूनिति, द्रव्याई भिक्षणशीलत्वादिति गाथार्थः ।। उक्ता गृहस्थद्रव्यभिक्षवः, लिङ्गिनोऽधिकृत्याहनि.[३३८] मिच्छद्दिट्टी तसथावराण पुढवाइबिंदिआईणं !
निच्च वहकरणरया अबंभयारी अ संचइआ ।। वृ. शाक्यभिक्षुप्रभृतयो हि 'मिथ्यादृष्टयः' अतत्त्वाभिनिवेशिनः प्रशमादिलिङ्गशून्याः, त्रसस्थावराणां प्राणिनां पृथिव्यादीनां द्वीन्द्रियादीनां च, अत्र पृथिव्यादयः स्थावरा: द्वीन्द्रियादयस्त्रसाः, नित्यं वधकरणरता:-- सदैतदतिपाते सक्ताः, कथमित्यत्राह-अब्रह्मचारिण: संचयिनश्च यतः, अतोऽप्रधानत्वाद्रव्यभिक्षवः, चशब्दस्य व्यवहित उपन्यास इति गाथार्थः ।। एते चाब्रह्मचारिणः संचयादेवेति संचयमाहनि. [३३९] दुपयचउप्पयधणधन्नकुविअतिअतिअपरिग्गहे निरया।
सच्चित्तभोइ पयमाणगा अ उद्दिट्ठभोई अ॥ वृ.द्विपदं-दास्यादि चतुष्पदं-गवादिधनं हिरण्यादि धान्यं-शाल्यादि कुप्यम्-अलिञ्जरादि एतेष द्विपदादिषु क्रमेण मनोलक्षणादिना करणत्रिकेण त्रिकपरिग्रहे-कृतकारितानुमतपरिग्रहे निरताः-सक्ताः । न चैतदनार्षम्-"विहारान् कारयेद्रभ्यान्वासयेच्च बहुश्रुतान्" इतिवचनात्, सद्भूतगुणानुष्ठायिनो नेत्थंभूता इत्याशङ्कयाह-सचित्तभोजिनः, तेऽपि मांसाप्कायादिभोजिनः, तदप्रतिषेधात् ‘पचन्तश्च' स्वयंपचास्तापसादयः, उद्विष्टभोजिनश्च सर्व एव शाक्यादयः, तत्प्रसिद्ध्या तपस्विनोऽपि, पिण्डविशुद्ध्यपरिज्ञानादिति गाथार्थः ।।
त्रिकत्रिकपरिग्रहे निरता इत्येतद्व्याचिख्यासुराह- .. नि. [३४०] करणतिए जोअतिए सावज्जे आयहेउपरउभए।
अट्टाणपवत्ते ते विज्जा दव्वभिक्खुत्ति ॥ वृ. करणत्रिक इति 'सुपां सुपो भवन्ती'ति करणत्रिकेण' मनोवाक्कायलक्षणेन 'योगत्रितय' इति कृतकारितानुमतिरूपे'सावधे' सपापे आत्महेतोः-आत्मनिमित्तं देहाद्युपचयाय, एवं परनि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org