SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ २४० दशवैकालिक-मूलसूत्र-१०/-/४८५ मित्तं-मित्राद्युपभोगसाधनाय एवमुभयनिमित्तम्-उभयसाधनार्थम्, एवमर्थायात्माद्यर्थम् अनर्थाय वा-विनाप्रयोजनेन आर्तध्यानचिन्तनखरादिभाषणलक्षवेधनादिभिः प्राणातिपातादौ प्रवृत्तान्तत्परान् तानेवंभूतान् ‘विद्याद्-विजानीयात् द्रव्यभिक्षुनिति, प्रवृत्ताश्चैवंशाक्यादयः, तद्रव्यभिक्षव इति गाथार्थः ॥ एवं स्त्र्यादिसंयोगाद्विशुद्धतपोऽनुष्ठानाभावच्चाब्रह्मचारिण एत इत्याहनि. [३४१] इत्थीपरिग्गहाओ आणादाणाइभावसंगाओ। सुद्धतवाभावाओ कुतित्थिआऽबंभचारित्ति !! वृ. 'स्त्रीपरिग्रहा'दिति दास्यादिपरिग्रहात् 'आज्ञादानादिभावसङ्गाच्च' परिणामशुद्धेरित्यर्थः न च शाक्या भिक्षवः, 'शुद्धतपोऽभावा'दिति शुद्धस्य तपसोऽभावात् तापसादयः कृतीथिका अब्रह्मचारिण इति, ब्रह्मशब्देन शुद्धं तपोभिधीयते, तदचारिण इति गाथार्थः ।। उक्तो द्रव्यभिक्षुः,नि.[३४२] आगमतो उवउत्तो तग्गुणसंवेअओ अ(उ) भावमि। तस्स निरुत्तं भेअगभेअणभेत्तव्वएण तिहा।। वृ.भावभिक्षुर्द्विविधः-आगमतो नोआगमतश्च, तत्रागमत'उपयुक्त' इति भिक्षुपदार्थज्ञस्तत्र चोपयुक्तः, 'तद्गुणसंवेदकस्तु' भिक्षुगुणसंवेदक: पुनर्नोआगमतो भवति भावभिक्षुरित्युक्तो भिक्षुनिक्षेपः। साम्प्रतं निरुक्तमभिधातुकाम आह-'तस्य निरुक्त मिति तस्य' भिक्षोनिश्चितमुक्तमन्वर्थरूपं भेदकभेदनभेत्तव्यैरेभिर्भेदेर्वक्ष्यामणैस्त्रिधा भवतीति गाथार्थः । एतदेवस्पष्टयतिनि.[३४३] भत्ताऽऽगमोवउत्तो दुविह तवो भेअणं च भेत्तव्वं । अट्ठविहं कम्मखुहं तेन निरुत्तं स भिक्खुत्ति ।। वृ. 'भेत्ता' भेदकोऽनागमोपयुक्तः साधुः, तथा 'द्विविध' बाह्याभ्यन्तरभेदेन तपो भेदनं वर्तते, तथा 'भेत्तव्यं विदारणीयं चाष्टविधं कर्म च-अष्टप्रकारं ज्ञानावरणीयादि कर्म, तच्च क्षुदादिदुःखहेतुत्वात् क्षुच्छब्दबाच्यं, यतश्चैवं तेन निरुक्तं यः शास्त्रनीत्या तपसा कर्म भिनत्तिस भिक्षुरति गाथार्थः ।। किं चनि.[३४४] भिदंतो अजह खुहं भिक्खू जयमाणओ जई होइ। संजमचरओ चरओ भवं खिवंतो भवंतो उ।। वृ. भिन्दंश्च विदारयंश्च यथा 'क्षुधं कर्मभिक्षुर्भवति, भावतो यतमानस्तथा तथा गुणेषुस एव यतिर्भवति नान्यथा, एवं 'संयमचरकः' सप्तदशप्रकारसंयमानुष्ठायी चरकः, एवं भवं' संसारं'क्षपयन्' परीतं कुर्वन् स एव भवान्तो भवति नान्यथेति गाथार्थः ॥ प्रकारान्तरेण निरुक्तम्नि.[३४५] जंभिक्खमत्तवित्ती तेन व भिक्खू खवेइ जं व अनं। ___ तवसंजमे तवस्सित्ति वावि अन्नोऽवि पज्जाओ। वृ.'यद्' यस्माद् 'भिक्षामात्रवृत्तिः' भिक्षामात्रेण सर्वोपधाशुद्धेन वृत्तिरस्येति समासः, तेन वा भिक्षुर्भिक्षणशीलो भिक्षुरितिकृत्वा, अनेनैव प्रसङ्गेन अन्येषामपि तत्पर्यायाणां निरुक्तमाह-क्षययति 'यद्' यस्माद्वा 'ऋणं' कर्म तस्मात्क्षपणः, क्षपयतीति क्षपण इतिकृत्वा, तथा संयमतपसीति संयमप्रधानं तपः संयमतपः तस्मिन् विद्यमाने तपस्वीति वापि भवति, तपोऽस्यास्तीतिकृत्वा, अन्योऽपि पर्याय इति-अन्योऽपि भेदोऽर्थतो भिक्षुशब्दनिरुक्तस्येति गाथार्थः। उक्त निरुक्तद्वारम्, अधुनैकार्थिकद्वारमाह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003380
Book TitleAgam Sutra Satik 42 Dashvaikalik MoolSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages284
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 42, & agam_dashvaikalik
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy