SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ २३८ दशवैकालिक - मूलसूत्र - १० /-/ ४८५ वृ. निर्देशे प्रशंसायामस्तिभावे चेत्येतेष्वर्थेषु त्रिषु भवति तु सकारः । तत्र निर्देशे यथा सोऽनन्तरमित्यादि, प्रशंसायां यथा सत्पुरुष इत्यादि, अस्तिभावे यथा सद्भूतममुकमित्यादि । तत्र 'निर्देश प्रसंशाया' मिति निर्देशे प्रशंसायां च यः सकारस्तेनाधिकारोऽत्राध्ययने प्रक्रान्त इति गाथार्थः ॥ एतदेव दर्शयति नि. [ ३३१] जे भावा दसवेआलिअम्मि करणिज्ज वण्णिअ जिनेहिं । तेसिं समावणमिति (मी) जो भिक्खू भन्नइ स भिक्खू वृ. ये 'भावा:' पदार्थाः पृथिव्यादिसंरक्षणादयो 'दशवैकालिके' प्रस्तुते शास्त्रे 'करणीया' अनुष्ठेया 'वर्णिता:' कथिता जिनै: --तीर्थकरगणधरैः, 'तेषां' भावानां 'समापने' यथाशक्त्या (क्ति) द्रव्यतो भावतश्चाचरणेन पर्यन्तनयनेन 'यो भिक्षुः ' तदर्थं यो भिक्षणशीलो न तदूरादिभरणार्थं भण्यते स भिक्षुरिति, इतिशब्दस्य व्यवहित उपन्यासः । स भिक्षुरित्यत्र निर्देशे सकार इति गाथार्थ: || प्रशंसायामाह - नि. [३३२] चरगमरुगाइ आणं भिक्खुजीवीण काउणमपोहं । अज्झयणगुणनिउत्तो होइ पसंसाइ उ सभिक्खु । वृ. 'चरकमरुकादीना' मिति चरका:- परिव्राजकविशेषाः मरुका- धिग्वर्णा: आदिशब्दाच्छाक्यादिपरिग्रहः, अमीषां 'भिक्षोपजीविनां' भिक्षणशीलानामगुणवत्त्वेनापोहं कृत्वा 'अध्ययनगुणनियुक्तः' प्रक्रान्तशास्त्रनिष्यन्दभूतप्रक्रान्ताध्ययनाभिहितगुणसमन्वितो भवति प्रशंसायामवगम्यमानायां सद्भिक्षुः-संश्चासौ भिक्षुश्च तत्तदन्यापोहेन सद्भिक्षुरिति गाथार्थः ॥ उक्तः सकारः, इदानीं भिक्षुमभिधातुकाम आहनि. [३३३] भिक्खुस्सय निक्खेवो निरुत्तएगद्विआणि लिंगाणि । अगुणडिओ न भिक्खू अवयवा पंच दाराई ॥ वृ. भिक्षो: 'निक्षेपो' नामादिलक्षण: कार्य:, तथा निरुक्तं वक्तव्यं भिक्षोरेव, तथा 'एकार्थिकानि' पर्यायशब्दरूपाणि वक्तव्यानि, तथा 'लिङ्गानि ' संवेगादीनि तथा अगुणस्थितो न भिक्षुरपि तु गुणस्थित एवेत्येतद्वच्यम् । अत्र च 'अवयवाः पञ्च' प्रतिज्ञादयो वक्ष्यमाणा इति, द्वारण्येतानीति गाथासमासार्थः ॥ यथाक्रमं व्यासार्थमाह नि. [३३४] नामंठवणाभिक्खू दव्वभिक्खू अ भावभिक्खू अ) दव्वम्मि आगमाई अन्नोऽवि अ पज्जवो इणमो ॥ वृ. 'नामस्थापनाभिक्षु' रिति भिक्षुशब्दः प्रत्येकभिसंबध्यते, नामभिक्षुः स्थापनाभिक्षुः द्रव्यभिक्षुश्च भावभिक्षुश्चेति । तत्र नामस्थापने क्षुण्णत्वादनादृत्य द्रव्यभिक्षुमाह- 'द्रव्य' इति द्रव्यभिक्षुः 'आगमादिः ' आगमनोआगमज्ञशरीरभव्यशरीरतद्व्यतिरिक्तैकभविकादिभेदभिन्नः, अन्योऽपि च 'पर्यायो' भेदः 'अयं' द्रव्यभिक्षोर्वक्ष्यमाणलक्षण इति गाथार्थः ॥ नि. [३३५ ] भेअओ भेअणं चेव, भिदिअव्वं तहेव य । एएसि तिपि अ, पत्ते अपरूवणं वोच्छं | वृ. भेदकः पुरुषः भेदनं चैव परश्वादि भेत्तव्यं तथैव च काष्ठादीति भावः । एतेषां त्रयाणामपि' भेदकादीनां 'प्रत्येकं' पृथक्पृथक् प्ररूपणां वक्ष्य इति गाथार्थः ॥ एतदेवाह For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003380
Book TitleAgam Sutra Satik 42 Dashvaikalik MoolSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages284
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 42, & agam_dashvaikalik
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy