________________
अध्ययनं-९, उद्देशकः-४. [नि. ३२८]
२३७ विउलहिअं सुहावहं पुणो, कुव्वइ अ सो पयखेममप्पणो । वृ. सर्वसमाधिफलमाह-'अभिगम्य' विज्ञायासेव्य च चतुरः समाधीन्' अनन्तरोदितान्, सुविशुद्धो मनोवाक्कायैः, सुसमाहितात्मा सप्तदशविधे संयमे, एवंभूतो धर्मराज्यमासाद्य 'विपुलहितसुखावहं पुन रिति विपुलं-विस्तीर्णं हितं तदात्वे आयात्यां च पथ्यं सुखमावहतिप्रापयति यत्तत् तथाविधं करोत्यसौ साधुः पदं-स्थानं क्षेमं-शिवम् आत्मन इत्यात्मन एव न त्वन्यस्य इत्यनेनैकान्तक्षणभङ्गव्यवच्छेदमाहेति सूत्रार्थः ।। मू.(४८४) जाइमरणाओ मुच्चइ, इत्थंथं च चएइ सव्वसो।
सिद्धे वा हवइ सासए, देवे वा अप्परए महड्डिए ।। वृ.एतदेव स्पष्टयति-'जातिमरणात्' संसारान्मुच्यते असौ सुसाधुः 'इत्थंस्थं चेती'दंप्रकारमापनमित्थमा इत्थं स्थितमित्थंस्थ-नारकादिव्यपदेशबीजं वर्णसंस्थानादि तच्च त्यजति 'सर्वश:' सर्वैः प्रकारैरपुनर्ग्रहणतया एवं सिद्धो वा' कर्मक्षयात्सिद्धो भवति 'शाश्वत:', अपुनरागामी सावशेषकर्मा देवो वा अल्परत:' कण्डूपरिंगतकण्डूयनकल्परतरहित: 'महद्धिकः' अनुत्तरवैमानिकादिः । ब्रवीमीति पूर्ववदिति सूत्रार्थः, उक्तोऽनुगमः, नयाः पूर्ववत् .
अध्ययनं-९, उद्देशक : ४ समाप्त :- अध्ययनं-९ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता संपादिता दशवैकालिकसूत्रे नवमं अध्ययनं सनियुक्तिः सटिकं समाप्तम्
अध्ययनं :- १० सभिक्षुः वृ. अधुना सभिक्ष्वास्यमारभ्यते, अस्य चायमभिसंबन्धः, इहानन्तराध्ययन आचार:प्रणिहितो यथोचितवि-नयसंपन्नो भवति एतदुक्तम्, इह त्वेतेष्वेव नवस्वध्ययनार्थेषु यो व्यवस्थित: स सम्यगभिक्षुरित्येतदुच्यते, इत्यनेनाभिसंबन्धेनायातमिदमध्ययनम्, अस्य चानुयोगद्वारोपन्यासः पूर्ववत्तावद्यावन्नामनिष्पत्रो निक्षेपः, तत्र च सभिक्षुरित्यध्ययननाम, अतः सकारो निक्षेप्तव्यो भिक्षुश्च, तत्र सकारनिक्षेपमाहनि.[३२९] नामंठवणसयारो दव्वे भावे अ होइ नायव्वो।
दव्वे पसंसमाई भावे जीवो तदेवउत्तो ।। वृ. नामसकारः सकार इति नाम, स्थापनासकार: सकार इति स्थापना, 'द्रव्ये भावे च भवति ज्ञातव्यः' द्रव्यसकारो भावसकारच, तत्र द्रव्य इत्यागमनोआगमज्ञशरीरभव्यशरीरतव्यतिरिक्तः प्रशंसादिविषयो द्रव्यसकार:, भाव इति भावसकारो जीवः 'तदुपयुक्तः सकारोपयुक्तः तदुपयोगानन्यत्वादिति गाथार्थ: ।। प्रकृतोपयोगीत्यागमनोआगमज्ञशरीरभव्यशरीरातिरिक्तं प्रशंसादिविषयं द्रव्यसकारमाहनि. [३३०] निद्देसपसंसाए अत्थीभावे अ होइ उ सगारो ।
निद्देसपसंसाए अहिगारो इत्थ अज्झयणे ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org