________________
अध्ययनं-९, उद्देशकः -२. नि. ३२८]
२२९ 'प्रवर्द्धन्ते' वृद्धिमुपयान्ति, दृष्टान्तमाह-जलसिक्ता इव 'पादपा' वृक्षा इति सूत्रार्थः ।। मू.(४४४) अप्पणट्ठा परहा वा, सिप्पा नेउणिआणि अ।
गिहिणो उवभोगट्ठा, इहलोगस्स कारणा ।। वृ.एतच्च मनस्याधाय विनय: कार्य इत्याह- 'आत्मार्थम्' आत्मनिमित्तमनेन मे जीविका भविष्यतीति, एवं 'परार्थं वा' परनिमित्तं वा पुत्रमहमेतद्ग्राहयिष्वामीत्येवं शिल्पानि' कुम्भकारक्रियादीनि ‘नैपुण्यानि च' आलेख्यादिकलालक्षणानि 'गृहिणः' असंयता 'उपभोगार्थम्' अत्रपानादिभोगाय, शिक्षन्त इति वाक्यशेष: 'इहलोकस्य कारणम्' इहलोकनिमित्तमिति । मू.(४४५) जेणं बंधं वह धोरं, परिआवं च दारुणं।
सिक्खमाणा निअच्छति, जुत्ता ते ललिइंदिआ। वृ.'येन' शिल्पादिना शिक्ष्यमाणेन 'बन्धं' निगडादिभिः 'वधं' कषादिभिः 'घोरं' रौद्रं परितापंच 'दारुणम्' एतज्जनितमनिष्टं निर्भर्त्सनादिवचनजनितं च शिक्षमाणा गुरोः सकाशात् 'नियच्छन्ति' प्राप्नुवन्ति 'युक्ता' इति नियुक्ताः शिल्पादिग्रहणे ते 'ललितेन्द्रिया' गर्भेश्वरा राजपुत्रादय इति सूत्रार्थः । मू.(४४६) तेऽवि तं गुरुं पूअंति, तस्स सिप्पस्स कारणा।
सकारंति नमसंति, तुहा निहेसवत्तिणो॥ वृ.तेऽपीत्वरं शिल्पादि शिक्षमाणास्तं गुरुं बन्धादिकारकमपि पूजयन्ति सामान्यतो मधुरवचनाभिनन्दनेन तस्य शिल्पस्येत्वरस्य कारणात्, तन्निमित्वादिति भावः, तथा 'सत्कारयन्ति' वस्त्रादिना 'नमस्यन्ति' अञ्जलिप्रग्रहादिना । तुष्टा इत्यमुत इदमवाप्यत इति हृष्टा 'निर्देशवर्त्तिन' आज्ञाकारणि इति सूत्रार्थः ।। मू. (४४७) किं पुणं जे सुअग्गाही, अनंतहिअकामए।
आयरिआ जं वए भिक्खू, तम्हा तं नाइवत्तए ।। वृ.यदि तावदेतेऽपि तं गुरुं पूजयन्ति अत:-किं पुनर्यः साधुः श्रुतग्राही' परमगुरुषप्रणीतागमग्रहणाभिलाषी 'अनन्तहितकामुकः' मोक्षं यः कामयत इत्यभिप्रायः, तेन तु सुतरां गुरवः पूजनीया इति, यतश्चैवमाचार्या यद्वदन्ति किमपि तथा तथाऽनेकप्रकारं 'भिक्षुः' साधुस्तस्मात्तदाचार्यवचनं नातिवर्तेत, युक्तत्वात्सर्वमेव संपादयेदिति सूत्रार्थः॥ मू.(४४८) नीअंसिज्जं गई ठाणं, नीअंच आसनानि ।
नीअंच पाए वंदिज्जा, नीअंकुज्जा अ अंजलि ।। वृ.विनयोपायमाह-नीचा ‘शय्यां' संस्तारकलक्षणामाचार्यशय्यायाः सकाशात्कुर्यादिति योगः, एवं नीचां गति आचार्यगतेः, तत्पृष्ठतो नातिदूरेण नातिदूरेण नातिद्रुतं यायादित्यर्थः, एवं नीचं स्थानमाचार्यस्थानात्, यत्राचार्य आस्ते तस्मात्रीचतरे स्थाने स्थातव्यमिति भावः । तथा 'निचानि' लघुतराणि कदाचित्कारणजाते 'आसनानि' पीठकानि तस्मिनुपविष्टे तदनुज्ञात: सेवेत, नान्यथा, तथा 'नीच' च सम्यगवनतोत्तमाङ्गः सन् पादावाचार्यसत्कौ वन्देत, नावज्ञया, तथा कचित्प्रश्नादौ 'नीचं' नम्रकायं कुर्यात्' संपादयेच्चाञ्जलि, न तु स्थाणुवस्तब्ध एवेति।
मू.(४४९) संघट्टइत्ता कारणं, तहा उवहिणामवि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org