SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ २२८ दशवैकालिक-मूलसूत्र-९/२/४३८ वृ.एतदेव विनयाविनयफलं मनुष्यानिधिकृत्याह'तहेव'त्ति सूत्रं, 'तथैव' तिर्यञ्च इव अविनीतात्मान इति पूर्ववत्। 'लोके' अस्मिन्मनुष्यलोके, नरनार्य इति प्रकटयर्थं दृश्यन्ते दुःखमेधमाना इति पूर्ववत् 'छारा(ता:) कसधातव्रणाङ्कितशरीराः 'विगलितेन्द्रिया' अपनीतनासिकादीन्द्रियाः पारदारिकादय इति सूत्रार्थः ।। मू. (४३९) दंडसत्थापरिज्जुन्ना, असब्भयवयणेहि अ। कलुणाविवत्रच्छंदा, सुप्पिवासाइपरिगया। वृ. तथा 'दंड'त्ति सूत्रं, दण्डा-वेत्रदण्डादयः शस्त्राणि-खणादीनी ताभ्यां परिजीर्णाःसमन्ततो दुर्बलभावमापादिताः तथा 'असभ्यवचनैश्च' खरकर्कशादिभिः परिजीर्णाः, त एवंभूताः सतां करुणाहेतुत्वात्करुणा-दीना व्यापन्नच्छन्दसः-परायत्ततया अपेतस्वाभिप्रायाः, क्षुधाबुभुक्षया पिपासया-तृषा परिगता-व्याप्ता अन्नादिनिरोधस्तोकदानाभ्यामिति । एवमिह लोके प्रागविनयोपात्तकर्मानुभावत एवंभूताः परलोके तु कुशलाप्रवृत्तेर्दुःखिततरा विज्ञेया इति। मू. (४४०) तहेव सुविनीअप्पा, लोगसि नरनारिओ। दीसंति सुहमेहता इडि पत्ता महायसा ।। वृ.विनयफलमाह-'तहेव'त्ति सूत्रं, तथैव' विनीततिर्यञ्च इव सुविनीतात्मानो लोकेऽस्मिनरनार्य इति पूर्ववत् । दृश्यन्ते सुखमेधमानाः शुद्धि प्राप्ता महायशस इति पूर्ववदेव, नवरं स्वाराधितनृपगुरुजना उभयलोकसाफल्यकारिण एत इति सूत्रार्थः ।। मू. (४४१) तहेव अविनीअप्पा, देवा जक्खा अगुज्झगा। दीसंति दुहमेहता, आभिओगमुवडिआ॥ वृ. (४४१) एतदेव विनयाविनयफलं देवानधिकृत्याह-'तहेव'त्ति सूत्रं, 'तथैव' यथा नरनार्य: ‘अविनीतात्मानो' भवान्तरेऽकृतविनया: 'देवा' वैमानिका ज्योतिष्का'यक्षाश्च' व्यन्तराश्च 'गुह्यका' भवनवासितः, त एते दृश्यन्ते आगमभावचक्षुषा दुःखमेधमानाः पराज्ञाकरणपरवृद्धिदर्शनादिना, आभियोग्यमुपस्थिताः-अभियोग:आज्ञाप्रदानलक्षणोऽस्यास्तीत्यभियोगी तद्भाव आभियोग्यं कर्मकरभावमित्यर्थ: उपस्थिता:प्राप्ता इति सूत्रार्थः ॥ मू.(४४२) तहेव सुविनीअप्पा, देवा जक्खा अगुल्झगा। दीसंति सुहमेहता, इद्धि पत्ता महायसा। वृ. विनयफलमाह-'तहेव'त्ति सूत्रं, 'तथैवेति पूर्ववत्, 'सुविनीतात्मानो' जन्मान्तरकृतविनया निरतिचारधर्माराधका इत्यर्थः, देवा यक्षाश्च गुह्यका इति पूर्ववदेव, दृश्यन्ते सुखमेधमाना अर्हत्कल्याणादिषु 'ऋद्धि प्राप्ता' इति देवाधिपादिप्राप्तद्धयो 'महायशसो' विख्यातसद्गुणा इति सूत्रार्थः ॥ मू. (४४३) जे आयरिअउवण्झायाणं, सुस्सूसावयणंकरा। तेसि सिक्खा एवड्दति, जलसित्ता इव पायवा ।। वृ.एवं नारकापोहेन व्यवहारतो येषु सुखदुःखसंभवस्तेषु विनयाविनयफलमुक्तम्, अधुना विशेषतो लोकोत्तरविनयफलमाह-‘य आचार्यो-पाध्याययोः-प्रतीतयोः 'शुश्रुषावचनकराः' पूजाप्रधानवचनकरणशीलास्तेषां पुण्यभाजां 'शिक्षा' ग्रहणासेवनालक्षणा भावार्थरूपाः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003380
Book TitleAgam Sutra Satik 42 Dashvaikalik MoolSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages284
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 42, & agam_dashvaikalik
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy