________________
अध्ययनं-९, उद्देशकः-२. [नि. ३२८]
२२७ ___ 'एवं' द्रुममूलवत् धर्मस्य परमकल्पवृक्षस्य विनयो 'मूलम्' आदिप्रबन्धरूपं परम' इत्यग्रो रसः 'से' तस्य फलरस्वन्मोक्षः, स्कन्धादिकल्पानि तु देवलोकगमनसुकुलागमनादीनि, अतो विनयः कर्तव्यः किंविशिष्ट इत्याह-'येन' विनयेन 'कीति' सर्वत्र शुभप्रवादरूपां तथा 'श्रुतम्' अङ्गप्रविष्टादि 'श्लाध्यं' प्रशंसास्पदभूतं 'नि:शेषं' संपूर्णम् 'अधिगच्छति' प्राप्नोतीति ।। मू. (४३४) जे अ चंडे मिए थद्धे, दुव्वाई नियडी सढे।
वुज्झइ से अविनीअप्पा, कट्टं सोअगयं जहा। वृ.अविनयवतो दोषमाह- 'जे अत्ति सूत्रं, यः ‘चण्डो' रोषणो 'मृगः' अज्ञः हितमप्युक्तो रुष्यति तथा 'स्तब्धो' जात्यादिमदोन्मत्त: 'दुर्वाग् अप्रियवक्ता निकृतिमान् मायोपेतः 'शठः' संयमयोगेष्वनाहतः, एभ्यो दोषेभ्यो विनयं न करोति यः उह्यतेऽसौ पाए: संसारस्रोतसा अविनीतात्मा' सकलकल्याणैकनिबन्धनविनयविरहितः । किमिवेत्याह-काष्ठं स्तोतोगतं' नद्यादिवहनीपतितं यथा तद्वदिति सूत्रार्थः ।। मू.(४३५) विनयपि जो उवाएणं, चोइओ कुप्पई नरो।
दिव्वं सो सिरिमति, दंडेण पडिसेहए ।। वृ.किंच-'विनयंपी'ति सूत्रं, 'विनयम्' उक्तलक्षणं यः 'उपायेनापि एकान्तमृदुभणनादिलक्षणेनापि अपिशब्दस्य व्यवहितः संबन्धः 'चोदित' उक्तः 'कुप्यति' रुष्यति नरः । अत्र निदर्शनमाह-'दिव्याम्' अमानुषीम् 'असौ' नरः श्रियं लक्ष्मीम् 'आगच्छन्तीम्' आत्मनो भवन्ती 'दण्डेन' काष्ठमयेन 'प्रतिषेधयति' निवारयति। एतदुक्तं भवति-विनय: संपदो निमित्तं, तत्र स्खलितं यदि कञ्चिच्चोदयति स गुणस्तत्रापि रोषकरणेन वस्तुतः संपदो निषेधः, उदाहरणं चात्र दशारादयः कुरूपागतश्रीप्रार्थनाप्रणयभङ्गकारिणस्तद्रहितास्तदभङ्ग-कारी च तद्युक्तः कृष्ण। मू.(४३६) तहेव अविनीअप्पा, उववज्झा हया गया।
दीसंति दुहमेहता, आभिओगमुवडिआ वृ. अविनयदोषोपदर्शनार्थमेवाह-'तहेव'त्ति सूत्रं, 'तथैवेति तथवैते अविनीतात्मानो' विनयरहिता अनात्मज्ञाः, उपवाह्यानांराजादिवल्लभानामेते कर्मकरा इत्यौपवाह्याः 'हया' अश्वाः 'गजा' हस्तिनः, उपलक्षणमेतन्महिषकादीनामिति । एते किमित्याह-'दृश्यन्ते' उपलभ्यन्त एव मन्दुरादौ अविनयदोषेण उभयलोकवर्तिना यवसादिवोढारः 'दुःख' संक्लेशलक्षणम् 'एधयन्तः' अनेकार्थत्वादनुभवन्तः अभियोग्य' कर्मकरभावम् 'उपस्थिताः' प्राप्ता इति सूत्रार्थः।। मू. (४३७) तहेव सुविनीअप्पा, उववज्झा हया गया।
दीसंति सुहमेहता, इढेि पत्ता महायसा।। । वृ.एतेष्वेव विनयगुणमाह-'तहेवत्ति सूत्रं, तथैवेति तथैवैते 'सुविनीतात्मानो' विनयवन्त आत्मज्ञा औपवाह्या राजादीनां हया गजा इति पूर्ववत् । एते किमित्याह-'दृश्यन्ते' उपलभ्यन्त एव सुखम्-आह्लादलक्षणम् 'एधमाना' अनुभवन्तः 'शुद्धि प्राप्ता' इति विशिष्ट-भूषणालयभोजनादिभावतः प्राप्तड़यो 'महायशसो' विख्यातसद्गुणा इति सूत्रार्थः॥ म.(४३८) तहेव अविनीअप्पा, लोगंमि नरनारिओ।
दीसंति दुहमेहता, छाया विगलितेंदिआ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org