________________
-
२२६
दशवैकालिक-मूलसूत्र-९/१/४२९ खे सोहई विमले अब्भमक्के, एवं गणी सोहइ भिक्खुमज्झे। वृ.किंच-'जह'त्ति सूत्रं, यथा 'शशी' चन्द्रः 'कौमुदीयोगयुक्तः कार्तिकपौर्ण-मास्यामुदित इत्यर्थः, स एव विशेष्यते-'नक्षत्रतारागणपरिवृतात्मा' नक्षत्रादिभिर्युक्त इति भावः, 'खे' आकाशे शोभते, किंविशिष्टे खे?-"विमलेऽभ्रमुक्ते' अभ्रमुक्तमेवात्यन्तं विमलं(तत्) भवतीति ख्यापनार्थमेतत्, एवं चन्द्र इव'गणी' (तत्) आचार्य: शोधते 'भिक्षुमध्ये' साधुमध्ये, अतोऽयं महत्त्वात्पूज्य इति सूत्रार्थः ॥ मू. (४३०) महागरा आयरिआ महेसी, समाहिजोगेसुअसीलबुद्धिए।
संपाविउकामे अनुत्तराई, आराहए तोसइ धम्मकामी। वृ.किंच-'महागर'त्ति सूत्रं, महाकरा ज्ञानादिभावरत्नापेक्षया आचार्या 'महैषिणो' मोक्षैषिणः, कथं महैषिण इत्याह-'समाधियोगश्रुतशीलबुद्धिभिः' समाधियोगैः-ध्यानविशेषैः श्रुतेनद्वादशाङ्गाभ्यासेन शीलेन-परद्रोहविरतिरूपेण बुद्ध्या च औत्पत्तिक्यादिरूपया, अन्ये तु व्याचक्षते-समाधियोगश्रुतशीलबुद्धीनां महाकरा इति। तानेवंभूतानाचार्यान् संप्राप्तुकामोऽनुत्तराणि ज्ञानादीनि आराधयेद्विनयकरणेन, न सकृदेव, अपि तु 'तोषयेद्' असकृत्करणेन तोषं ग्राहयेत् धर्मकामो-निर्जरार्थं, न तु ज्ञानादिफलापेक्षयाऽपीति सूत्रार्थः ।। मू. (४३१) सुच्चाण मेहावि सुभासिआई, सुस्सूसए आयरिअप्पमत्तो।
आराहइत्ताण गुणे अनेगे, से पावई सिद्धिमनुत्तरं ।। ते बेमि ।। वृ. सोच्चाण'त्ति सूत्रं, श्रुत्वा मेधावी सुभाषितानी गुराधनफलाभिधायीनि, किमित्याहशुश्रुषयेदाचार्यान् 'अप्रमत्तो' निद्रादिरहितस्तदाज्ञां कुर्वीतेत्यर्थः, य एवं गुरुशुश्रुषापरः स आराध्य 'गुणान्' अनेकान् ज्ञानादीन् प्राप्नोति सिद्धिमनुत्तरां, मुक्तिमित्यर्थः, अनन्तरं सुकुलादिपरम्परया वा। ब्रवीमीति पूर्ववदयं सूत्रार्थः ॥
अध्ययनं-९ उद्देशक:-१ समाप्तः
-: अध्ययनं-९ उद्देशक-२ :मू. (४३२) मूलाउ खंधप्पभवो दुमस्स, खंधाउ पच्छा समुर्विति साहा।
साहप्पसाहा विरुहति पत्ता, तओ सि पुष्पं च फलं रसो अ। वृ. (४३२ ) विनयाधिकारवानेव द्वितीय उच्यते, तत्रेदमादिमं सूत्र- 'मूलाउ' इत्यादि, 'मूलाद्' आदिप्रबन्धात् 'स्कन्धप्रभवः' स्थुडोत्पादः, कस्येत्वाह-'द्रुमस्य' वृक्षस्य। 'ततः' स्कन्धात् सकाशात् पश्चात्' तदनु समुपयान्ति' आत्मानं प्राप्नुवन्त्युत्पद्यन्त इत्यर्थः, कास्ता इत्याह-'शाखाः' तद्भजाकल्पाः । तथा 'शाखाभ्य' उक्तलक्षणाम्यः प्रशाखास्तदंशभूता 'विरोहन्ति' जायन्ते, तथा तेभ्योऽपि 'पत्राणि पर्णानि विरोहन्ति। 'ततः' तदनन्तरं 'से' तस्य द्रुमस्य पुष्पं च फलं च रसश्च फलगत एवैते क्रमेण भवन्तीति सूत्रार्थः ॥ मू.(४३३) एवं धम्मस्स विनओ, मूलं परमो से मुक्खो।
___जेण कित्तिं सुअं सिग्धं, नीसेसं चाभिगच्छइ । वृ. एवं दृष्टान्तमधिधाय दाान्तिकयोजनामाह- ..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org