________________
अध्ययनं -१ [नि. ३६ ]
१९
लक्षण: षष्ठीसमासः, द्रुमपुष्पशब्दस्य "प्रागिवात्कः" इति वर्त्तमाने अज्ञाते कुत्सिते (के) संज्ञायां कनि ति कनि प्रत्यये नकारलोपे च कृते द्रुमपुष्पक इति, प्रातिपदिकस्य स्त्रीत्वविवक्षायाम् “अजाद्यतष्टाप्” इति राप्प्रत्ययेऽनुबन्धलोपे च कृते “प्रत्ययस्थात् कात्पूर्वस्यात इदाप्यसुपः इतीत्त्वे कृते " अकः सवर्णे दीर्घः" इति दीर्घत्वे परगमने च द्रुमपुष्पिकेति भवति, द्रुमपुष्पोदाहरणयुक्ता द्रुमपुष्पिकेति द्रुमपुष्पिका चासौ अध्ययनं चेति समानाधिकरणस्तत्पुरुषः, द्रुमपुष्पिकाध्ययनमिति । अस्य चैकार्थिकानि प्रतिपादयन्नाहदुमपुष्फिआ य आहारएसणा गोअरे तया उंछो । मेस लूणा सप्पे वणs क्खइसुगोलपत्तुदए ।
नि. [३७]
वृ. तत्र द्रुमपुष्पोदाहरणयुक्ता द्रुमपुष्पिकेति वक्ष्यति च - "जहा दुमस्स पुप्फेसु" इत्यादि, तथा आहारस्यैषणा आहारैषणा, एषणाग्रहणाद् गवेषणादिग्रहः, ततश्च तदर्थसूचकत्वादाहारैषणैति, तथा गोचर: सामयिकत्वाद् गोरिव चरणं गोचरोऽन्यथा गोचारः, तदर्थसूचकत्वाच्चाधिकृताध्ययनविशेषो गोचर इति, एवं सर्वत्र भावना कार्येति, भावार्थस्तु यथा गौश्चरत्येवमविशेषेण साधुनाऽप्यटितव्यं, न विभवमङ्गीकृत्योत्तमाधममध्यमेषु कुलेष्विति, वणिरवत्सकदृष्टान्तेन वेति, तथा 'त्वगिति' त्वगिवासारं भोक्तव्यमित्यर्थसूचकत्वात् त्वगुच्यत इति, उक्तं च परममुनिभिः - "जहा चत्तारिघुणा पत्रत्ता, तंजहा - तयक्खाए छल्लिक्खाए कट्टक्खाए सारक्खाए, एवामेव चत्तारिभिक्खुगा पन्त्रत्ता, तंजहा-तयक्खाएं छल्लिक्खाए कटुक्खाए सारक्खाए, तयक्खाए नाम एगे तो सारखाए सारक्खाए णामं एगे नो तयक्खाए एगे तयक्खाए वि सारक्खाए वि एगे नो खाए तो सारखाए। तयक्खायसमाणस्स णं भिक्खुस्स सारक्खा यसमाणे तवे भवई, एवं जहा ठाणे तव दट्टव्यं " । भावार्थस्तु भावतस्त्वक्कल्पासारभोक्तञ्छसूचकत्वादिति, तथा 'मेष' इति तथा मेषोऽल्पेऽप्यम्भसि अनुद्वालयनेवाम्भः पिबति, एवं साधुनाऽपि भिक्षाप्रविष्टेन बीजाक्रमणादिष्वनाकुलेन भिक्षा ग्राह्येत्वेवंविधार्थसूचकत्वादधिकृताभिधानप्रवृत्तिरिति, तथा 'जलौका' इति अनेषणाप्रवृत्तदायकस्य मृदुभावनिवारणार्थसूचकत्वादिति, तथा 'सर्प' इति यथाऽसावेकदृष्टिर्भवत्येवं गोचरगतेन संयमैकदृष्टिना भवितव्यमित्यर्थसुचकत्वादिति, अथवायथा द्रागस्पृशन् सर्पो बिलं प्रविशत्येवं साधुनाऽप्यनास्यादयता भोक्तव्यमिति, तथा 'व्रण' इत्यरक्तद्विष्टेन व्रणलेपदानवद्भोक्तव्यम्, तथा 'अक्ष' इत्यक्षोपाङ्गदानवच्चेति, उक्तं च"व्रणलेपाक्षोपाङ्गवदसङ्गयोगभरमात्रयात्रार्थम् ।
पन्नग इवाभ्यवहरेदाहारं पुत्रपलवच्च ॥"
इत्यादि, तथा 'इसु' त्तितत्र 'इषुः ' शरो भण्यते, तत्र सूचनात्सूत्रमिति कृत्वा "जह रहिओऽनुवउत्तो इसुणा लक्खं न विधइ तहेव । साहू गोअरपत्तो संजमलक्खम्मि नायव्वो ॥"
गोल इति
"जह जउगोलो अगणिस्स नाइदूरेन आवि आसने । सक्कइ काऊण तहा संजमगोलो गिहत्थागंणं ॥ दूरे असणाऽ दंसणा इयरिम्म तेनसंकाइ ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org