________________
दशवैकालिक - मूलसूत्रं - १/-/इदानीमक्षीणम - तच्च भावाक्षीणमिदमेव, शिष्यप्रदानेऽप्यक्षयत्वात्, तथा चाह-यथा दीपाद्दीपशतं प्रदीप्यते स च दीप्यते दीपः, एवं 'दीपसमा' दीपतुल्या आचार्या दीप्यन्ते स्वतो विमलमत्याद्युपयोगयुक्तत्वात् 'परं च' विनेयं 'दीपयन्ति' प्रकाशयन्त्युज्जवलं वा कुर्वन्तीति गाथार्थः । इदानीमाय:- सच भावत इदमेव, यत आह- 'ज्ञानस्य' मत्यादेः 'दर्शनस्य' चौपशमिकादेः 'चरणस्य च' सामायिकादे: 'येन' हेतुभूतेन 'आगमो भवति' प्राप्तिर्भवति स भवति भावायः, आयो लाभ इति निर्दिष्टः, अध्ययनेन च हेतुभूतेन ज्ञानाद्यागमो भवतीति गाथार्थः ॥
अधुना क्षपणा, साऽपि भावत इदमेवेति, आह च- 'अष्टविधम्' अष्टप्रकारं कर्मरजः तत्र जीवगुण्डनपरत्वात्कर्मैव रजः कर्मरज : 'पुराणं' प्रागुपात्तं 'यत्' यस्मात्क्षपयति 'योगैः' अन्तःकरणादिभिरभ्ययनं कुर्वन्, तस्मादिदमेव कारणे कार्योपचारात् क्षपणेति । तथा चाह- इदं भावाध्ययनं 'नेतव्यं' योजनीयम् 'आनुपूर्व्या' परिपाट्य अध्ययनाक्षीणादिष्विति गाथार्थः ॥
उक्त ओघनिष्पन्नो निक्षेपः, साम्प्रतं नामनिष्पन्न उच्यते तत्रौघनिष्पत्रेऽध्ययनं नामनिष्पन्ने द्रुमपुष्पिकेति आह- द्रुम इति कः शब्दार्थः ?, उच्यते, "दुद्रु गतौ" इत्यस्य दुस्मिन् देशे विद्यत इति तदस्यास्त्यस्मिन्निति मतुपि प्राप्ते "दुद्रुभ्यां मः" इति मप्रत्ययान्तस्य द्रुम इति भवति । साम्प्रतं द्रुमपुष्पनिक्षेपप्ररूपणायाह
नि. [३४]
१८
नामदुमो ठवणदुमो दव्वदुमो चेव होइ भावदुमो । एमेव य पुप्फस्स वि चउव्विहो होइ निक्खेवो ॥
S
g. 'नामद्रुम' यस्य द्रुम इति नाम द्रुमाभिधानं वा, स्थापनाद्रुमो द्रुम इति स्थापना, 'द्रव्यद्रुमश्चैव भवति भावद्द्रुमः' तत्र द्रव्यद्रुमो द्विधा-आगमतो नोआगमतश्च, आगमतो ज्ञाताऽनुप-युक्तः, नो आगमतस्तु ज्ञशरीर भव्यशरीरो भयव्यतिरिक्तस्त्रिविधः, तद्यथा - एक भविको बद्धायुकोsस्तु येन द्रुमनामगोत्रे कर्मणी बद्धे इति, अभिमुखनामगोत्रस्तु येन ते नामगोत्रे कर्मणी उदीरणावलिकायां प्रक्षिसे इति, अयं च त्रिविधोऽपि भाविभावद्रुमकारणत्वाद्रव्यद्रुम इति, भावमोऽपि द्विविध:-आगमतो नोआगमतश्च तत्रागमतो ज्ञातोपयुक्तः, नोआगमतस्तु द्रुम एव मनामगोत्रे कर्मणी वेदयन्निति । 'एवमेवच' यथा द्रुमस्य तथा किम् ? - 'पुष्पस्यापि ' वस्तुतस्तद्विकारभूतस्य चतुर्विधो भवति निक्षेप इति गाथार्थः । साम्प्रतं नानादेशजविनेयगणासम्मोहार्थमागमे द्रुमपर्यायशब्दान् प्रतिपादयन्नाह
नि. [३५]
दुमा पायवा रुक्खा, अगमा विडिमा तरू । कुहा महीरुहा वच्छा, रोवगा रुंजगावि अ ॥
वृ. द्रुमाश्च पादपा वृक्षा अगमा विटपिनः तरवः कुहा महीरुहा वच्छा रोपका रुज्जकादयश्च । तत्र द्रुमान्वर्थसंज्ञा पूर्ववत्, पद्मां पिबन्तीति पादपा इत्येवमन्येषापि यथासम्भवमन्वर्थसंज्ञा वक्तव्या, रूढिदेशीशब्दा वा एत इति गाथार्थः ॥ इदानीं पुष्पैकार्थिकप्रतिपादनायाहनि. [ ३६ ] पुप्फाणी अकुसुमाणि अ फुल्लाणि तहेव होंति पसवाणी ।
सुमणाणि अ सुहुमाणि अपुप्फाणं होंति एगट्ठा ॥
वृ. पुष्पाणि कुसुमानि चैव फुल्लानि प्रसवानि च सुमनांसि चैव 'सूक्ष्माणि' सूक्ष्मकायिकानि चेति ॥ साम्प्रतमेकवाक्यतया द्रुमपुष्पिकाध्ययनशब्दार्थ उच्यते- द्रुमस्य पुष्पं द्रुमपुष्पम्, अवयव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org