________________
१७
अध्ययनं-१ [नि.२७]
वृ.ओघो यत्सामान्यं श्रुताभिधानं श्रुतनाम चतुर्विधं तच्च, कथम्? अध्ययन-मक्षीणमायः क्षपणा च इदं च 'प्रत्येकं' पृथक् पृथक् ।। किम् ? नि.[२८] नामाइ चउन्भेयं वण्णेऊणं सुआनुसारेणं।
दुमपुस्फिअ आओज्जा चउसुंपि कमेण भावेसुं॥ वृ.नामादिचतुर्भेदंवर्णयित्वा, तद्यथा-नामाध्ययनस्थापनाध्ययनंद्रव्याध्ययनं भावा-ध्ययन चेति, एवमक्षीणादीनामपि न्यासः कर्त्तव्यः, 'श्रुतानुसारेण' अनुयोगद्वाराख्यसूत्रानुसारेण, किम्? - 'द्रुमपुष्पिका आयोज्या' प्रकृताध्ययनं सम्बन्धनीयम्, चतुर्ध्वप्नध्ययनादिषुक्रमेण भावेष्विति गाथार्थ: ।। साम्प्रतं भावाध्ययनादिशब्दार्थ प्रतिपादयन्नाहनि.[२९] अज्झप्पस्साणयणं कम्माणं अवचओ उवचिआणं ।
___ अनुवचओ अनवाणं तम्हा अज्झयणमिच्छंति॥ नि.[३०] अहिगम्मति व अत्था इमेण अहिगं च नयनमिच्छति।
अहिगं च साहु गच्छइ तम्हा अज्झयणमिच्छंति॥ नि.[३१]
जहदीवा दीवसयं पइप्पई सो आदिप्पई दीवो।
दीवसमा आयरिया दिप्पंति परं च दीवंति।। नि.[३२] नाणस्स दंसणस्सऽविचरणस्स यजेन आगमोहोई।
सो होइ भावआओ आओ लाहो त्ति निद्दिट्टो। नि.[३३] अट्टविहं कम्मरयं पोराणं जं खवेइ जोगेहि।
एयं भावज्झयणं नेअव्वं आनुपुवीए। वृ.आसांगमनिका-इह प्राकृतशैल्या छान्दसत्त्वाच्च अज्झप्पससाणयणं पकारस(स्स)कार आकारणकारलोपे अज्झयणं ति भण्णइ, तच्च संस्कृतेऽध्ययनम्, भावार्थस्त्वयं-अधि आत्मनि वर्तत इति निरुक्तादध्यात्मंचेतः तस्यानयनम् आनीयतेऽनेनेत्यानयनम्, इह कर्म-मलरहितः खल्यात्मैव चेतःशब्देन गृह्यते, यथाऽवस्थितस्य शुद्धस्य चेतस आनयनमित्यर्थः, तथा चैतदभ्यासाद्भवत्येव, किम् ? - 'कर्मणां' ज्ञानावरणीयादीनाम् 'अपचयो' हासः, किंविशिष्टानाम्? -'उपचितानां मिथ्यात्वादिभिरुपदिग्घानां बद्धानामितिभावः, तथा अनुपचयश्च' अवृद्धिलक्षणः 'नवानां' प्रत्यग्राणांकर्मणाम्, यतश्चैवंतस्मात् प्राकृतशैल्याऽध्यात्मानयनमेताध्ययनमिच्छन्त्याचार्या इति गाथार्थः।।
'अधिगम्यन्ते' परिच्छिद्यन्ते वा अर्था अनेनेत्यधिगममेव प्राकृतशैल्या तथाविधार्थप्रदर्शकत्वाच्चास्य वचसोऽध्यननमिति, तथा अधिकं च नयनमिच्छन्त्यस्याप्य(पि तथाविधा)र्थप्रदर्शकत्वादेव वचसोऽयमर्थः, 'अय वय' इत्यादिदण्डकधातुपाठान्नीतिर्नयनम्, भावे ल्युट्प्रत्ययः परिच्छेद इत्यर्थः, अधिकं नयनमधिकनयनं चार्थतोऽध्ययनमिच्छन्ति, चशब्दस्य चव्यवहित उपन्यासः, अधिकं च साधुर्गच्छति, किमुक्तं भवति?-अनेन करणभूतेन साधुर्बोधसंयममोक्षान् प्रत्यधिकं गच्छति, यस्मादेवं तस्मादध्ययनमिच्छन्ति, इहच सर्वत्र अधिकं नयनमध्ययनमित्येवं योजना कार्येति गाथार्थः।। 27/2
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org