________________
२१२
दशवैकालिक-मूलसूत्र-८/-/३७५ वा तेन वा संतोषगामी, अल्पेच्छो न्यूनोदरतयाऽऽहारपरित्यागी, सुभर: स्यात् अल्पेच्छत्वादेव दुर्भिक्षादाविति फलं प्रत्येकं वा स्यादिति क्रियायोग, रूक्षवृत्तिः स्यादित्यादि। तथा आसुरत्वं' क्रोधभावं न गच्छेत् कचित् स्वपक्षादौ श्रुत्वा 'जिनशासनं' क्रोधविपाकप्रतिपादकं वीतरागवचनं । "जहा चरहिं ठाणेहिं जीवा आसुरत्ताए कम्मं पकरेंति, तंजहा-कोहसीलयाए पाहुडसीलयाए जहा ठाणे जाव जं नं मए एस पुरिसे अन्नाणी मिच्छादिट्ठी अक्कोसइ हणइ वा तं न मे एस किंचि अवरज्झइत्ति, किं तु मम एयाणि वेयणिज्जाणि कम्माणि अवरज्झतित्ति सम्ममहियासमाणस्स निज्जरा एव भविस्सइ'त्ति सूत्रार्थः॥ मू. (३७६) कत्रुसुक्खेहिं सद्देहि, पेम्मं नाभिनिवेसए।
दारुणं कसं फासं, कारण अहिआसए। वृ.तथा कण्ण'त्ति सूत्रं, कर्णसौख्यहेतवः कर्णसौख्या: शब्दा-वेणुवीणादिसंबन्धिनस्तेषु 'प्रेम' रागं'न अभिनिवेशयत्' न कुर्यादित्यर्थः, 'दारुणम्' अनिष्टं 'कर्कशं' कठिनं स्पर्शमुपनतं सन्तं कायेनाधिसहेत् न तत्र द्वेषं कुर्यादिति, अनेनाद्यन्तयो रागद्वेषनिराकरणेन सर्वेन्द्रियविषयेषु रागद्वेषप्रतिषेधो वेदितव्य इति सूत्रार्थः ।। मू.(३७७) खुहं पिवासंदुरिसज्जं, सीउण्हं अरइं भयं ।
अहिगासे अव्वहिओ, देहक्खं महाफलं॥ वृ.किं च -'खुहं पित्ति सूत्रं, 'क्षुधं' वुमुक्षा 'पिपासां' तृष 'दुःशय्यां' विषमभूम्यादिरूपां शीतोष्णं प्रतीतम् 'अरति' मोहनीयोद्भवां भयं' व्याघ्रादिसमुत्थमतिसहेदेतत्सर्वमेव 'अव्यथितः' अदीनमनाः सन् देहे दुःखं महाफलं संचन्त्येिति वाक्यशेषः । तथा च शरीरे सत्येतदुःखं, शरीरं चासारं, सम्यगतिसह्यमानं च मोक्षफलमेवेदमिति सूत्रार्थः । मू.( ३७८) अत्थंगयमि आइच्चे, पुरत्था अ अनुग्गए।
आहारमइयं सव्वं, मनसावि न पत्थए। वृ. किंच-'अत्थंति सूत्रं, 'अस्तं गत आदित्ये' अस्तपर्वतं प्राप्ते अदर्शनीभूते वा 'पुरस्ताच्चानुगते' प्रत्यूषस्यनुदित इत्यर्थः, आहारात्मकं 'सर्व' निरवशेषमाहारजातं मनसापि न प्रार्थयेत्, किमङ्ग पुनर्वाचा कर्माणा वेति सूत्रार्थः ।। मू. (३७९) अतितिणे अचवले, अप्पभासी मिआसने।
हविज्ज उअरे दंते, थोवं लद्धं न खिसए। वृ.दिवाष्यलभमान आहारे किमित्याह-'अतिन्तिणो भवेत्, अतिन्तिणो नामालाभेऽपि नेषद्यत्किञ्चनभाषी, तथा अचपलो भवेत्, सर्वत्र स्थिर इत्यर्थः । तथा अल्पभाषी' कारणे परिमितवक्ता, तथा 'मिताशनो' मितभोक्ता 'भवेदित्येवंभूतो भवेत्, तथा 'उदरेदान्तो' येन वा तेन वा वृत्तिशीलः, तथा 'स्तोकं लब्ध्वा न खिसयेत्' देयं दातारं वा न हीलयेदिति। मू. ( ३८०) न बाहिरं परिभवे, अत्ताणं, न समुक्कसे।
सुआलभे न मजिज्जा, जच्चा तवस्सिबुद्धिए । वृ.मदवर्जनार्थमाह- 'न बाहिरं'ति सूत्रं, न बाह्यम्' आत्मनोऽन्यं परिभवेत्, तथा आत्मानं नसमुत्कर्षयेत्, सामान्येनेत्थंभूतोऽहमिति, श्रुतलाभाभ्यां न मायेत, पण्डितो लब्धिमानहमित्येवं,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org